________________
परिशिष्ट (२) [ २२५ भवन्तीत्यर्थः । अन्ते रगणं लेखय । कश्छन्दस्कार एतच्छन्दो जानाति । अपि तु न कोऽपि । दर्पेण गर्वेण हीरस्तु कविर्भणति अन्यः कः प्रेक्षते । अद्यावधि कस्यापि नयनगोचरो नाभविदिति भावः । अत्र च्छन्दः कविनाम्नोरैक्यमवगन्तव्यम् । इदमप्युदाहरणम् ।
१९९ उक्तमेवाह
हे सुप्रिय शिष्य, पूर्वं हारं गुरुं भण । ततो विप्रगणश्चतुर्लघुकः । स च त्रिधा भिन्नशरीरः । एवं त्रिवारं कर्तव्यः । तदन्ते जोहलं रगणं स्थापय । एवं सति त्रयोविंशतिर्मात्रा हीरच्छन्दसः पदे पतन्ति समुदिता द्विनवतिर्मात्रासंख्या | भूषणेऽप्युक्तम् 'वह्निरगणमन्त्यरगणमेकचरणशोभितं, पश्य सुदति नागनृपतिरत्र वदति नो हितम् । रामभजनकालपठन एव रटनरञ्जनं, हीरकमिति नाम भवति काममवति सज्जनम् ॥'
२०० हीरमुदाहरति- जहा (यथा) -
धिक्कदलनेत्यादि घोटकगतिशब्दानुकरणम् । एवं रङ्गे युद्धस्थाने रङ्गेण कौतुकेन वा चलन्ति तुरंगा धूलिधवलाः । हक्केण वीरकृतशब्दविशेषेणोपलक्षिता: सबलाः समर्थाः पक्षिण इव प्रबलाः प्रकृष्टबलाः पदातयोऽपि । चलन्तीति शेषः । एवं कर्णे चलति सति कूर्मो ललति स्थानभ्रष्टो भवतीत्यर्थः । भूमिभ्रियते कीर्त्या । अत्र चतुर्ष्वपि चरणेषु 'ए ए' इति ससंभ्रमाश्चर्ये ॥ उट्टवणिका यथा -- 51111, SIII 1, 5111 1, 515, ( २३ ) 5 ।।। । 5 ।। 1, 51।। 1, 515, ( २३ ) 5 ||| 1, 5।।। ।, ।।। 1, 515 ( २३ ) 5 ।।। ।, SIII, SIII 1, 515, (२३) ॥ वाणीभूषणेऽपि - 'ध्यानमटत साम पठत नाम रटत कैशवं धर्ममयत शर्म भजत कर्म सृजत शैशवम् । द्वारभवनदाररमणसारचयनवासना, तावदयति नावतरित कालनृपतिशासना ॥'
२०१ अथ जनहरणच्छन्दः
हे विकचकमलमुखि, पदे पदे स्थापयित्वा कलाः, तत्र प्रथमं दशसु कलासु विरतिं कुरु । ततो वसुकलासु पुनरष्टसु पुनः षट्सु विरतिं कुरु । सर्वपदेषु मुनिद्विजगणान्देहि । विरामे सप्तगणान्ते सगणं नियमेन देहि । एवमष्टौ गणान् कुरु इति श्रीफणपतिः सुकविवरो भणति । दश त्रिगुणिताः कलाः कुरु । एवं त्रिंशत् पुनरपि धारय गुरुकलाम् । एवं द्वात्रिंशत्कलाः पदे भवन्ति । एवं परिपाट्या परिस्थापय चतुश्चरणेषु (पाठान्तरे) कलाः परिस्थापय । किंच यदि पतति कदाचिद्गुरुः, तदा कदापि मा परिहर मा त्यज । इदं बुधजनमनोहरं जनहरणनामकं छन्द इति । इदमप्युदाहरणम् ।
२०२ उक्तलक्षणमेव स्पष्टीकृत्याह-
अत्र द्वात्रिंशन्मात्रा भवन्ति अन्ते सगणान्स्थापय तन्मध्ये एव । अत्र गुरुरेको द्वौ वा पादे भवतः तदा न दोषः । अधिके तु भवत्येव । गाहू छन्दः । भूषणे तु 'लघुगुरुकनियमगतमिह फणिमणिमतमतिसुखनिगदपदं दशवसुभुवनैर्यतिरिह यदि भवति रसिकजनहृदयविहितमदम् । वसुविमलचतुष्कलगणहृतगुणिगणचरणविरामाहितसगणं, क्वचिदपि गुरुसहितं भवति कविहितं छन्दः सुन्दरि जनहरणम् ॥'
२०३ तमुदाहरति- जहा (यथा ) -
कश्चिद्बन्दी हम्मीरप्रयाणमनुवर्णयति - खुरेत्याद्यनुकरणम् । मह्यामेतादृशानुकरणं कृत्वा घघरेत्यादिरवं च कृत्वा णणणेत्याद्यनुकरणं कृत्वा तुरङ्गाश्चलिताः । टटटेत्याद्यनुकृत्य पतति टापः खुराधातो येषाम् । अत एव ध्वस्ता भवति धरणिः । धनुषश्चकमलं करोति । दशदिक्षु चमराश्च वाजिकण्ठेषु बद्धाश्चकमकन्ति । एवंविधं दलं दमकि दमकि अहमहमिकया चलितम् । ततश्च पत्तिबलमपि चलति । ततः घुलकि घुलकि गम्भीरघोरस्वरं कृत्वा करिवरा अपि चलिताः । एवं सेनांगे चलिते वरमानुषाः सिंहपराक्रमाः शत्रवस्तेषामला: समूहाः । अलशब्दः समूहार्थे देशीयः । त एव कमलं तस्य विपक्षश्चन्द्रस्तत्संकोचकत्वात् । यद्वा यदा संग्रामसांनिध्यादलकेषु मलो मालिन्यं येषाम् । एवंविधा ये वरमानुषा विपक्षास्तेषां हृदयशल्यो हम्मीरवीरो यदा रणाय चलितस्तदा पूर्वोक्ता एव चलिता इति ॥ उट्टवणिका यथा -- || I, III, III, IIII, IIII, IIII, III |, ॥ (३२) ||| I, II, III, III ॥, ॥|| I, 1|| 1 ||| 1, ॥15 (३२) ||| I, III I, IIII, IIII, IIII, IIII, III I, ॥ (३२) || I, IIII, IIII, III, IIII, IIII, III 1, ॥5 (३२)
२०४ अथ मअणहरा (मदनगृह) छन्द:
हे प्रिये, मनोहरं मदनगृहं नाम छन्दो भणामि । किं कृत्वा पयोधरं प्रेरयित्वा (?) जगणं दूरीकृत्येत्यर्थः । त्वं सुभगस्वभाव, सुस्निग्धं मनः क्षणं स्थिरं कुरु । दत्तचित्तः शृण्वित्यर्थः । यदि राज्यं विमन्त्र्यते तदनुसर क्षत्रियजातिम् । छन्दः शास्त्रसागराद्बहिराकृष्येदं छन्दो भण । तत्प्रशंसामाह-यथा परकीयमृणं खलइ सदा स्मृतिपथमुपैति तथैतदपि ॥ उट्टवणिकामाह - द्वौ द्वौ शल्यौ लघु लघु प्रथमं वहिल्लिअ स्थापयित्वा ततस्तुरगहयगजपदातयो नव चतुष्कला जगणरहिताः प्रसरन्ति । शेषे गुरुः सज्जीकृत्य स्थापितः । कीदृशः अस्मिञ्छन्दसि पदान्ते जग्गि जाग्रत् श्रेष्ठत्वेन सगणत्वेन यदि निरुक्तः तदा चतुष्कलगणदशकेन युक्तमिति छन्दोविशेषम् ॥ चउसंधौ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org