________________
२२४]
प्राकृतपैंगलम्
सखि बम्भ्रमीति मनो भृशं जगदेव शून्यमवेक्ष्यते परिभिद्यते मम हृदयमर्म न शर्मं संप्रति वीक्ष्यते । परिहीयते वपुषा भृशं नलिनीव हिमततिसंगता रुदती परं वदतीति सा सुदती रतीशवशं गता ।।'
१९३ अथ तिब्भंगी (त्रिभंगी) छन्द:
अत्र प्रथमं दशसु मात्रासु रहणं विश्रामः, ततोऽष्टसु विरतिः पुनरपि वसुषु विरतिः, ततो रसेषु षट्सु विरतिः, अन्ते पदचतुष्टयस्यान्ते यत्रे गुरुः शोभते तच्छन्दस्त्रिभुवनं मोहयति । सिद्धोऽपि वरतरुणोऽपि श्लाघ्यते इति तस्य च्छन्दसः प्रशंसा । दोषमप्याह - यद्येतस्मिञ्छन्दसि पयोधरो जगणः पतति तदा किमिदं मनोहरम् । अपि तु नेत्यर्थः । किंच यस्य कवित्वं कियते तस्य कलेवरं हरति कवेरपि । तस्मादत्र जगणो न कर्तव्यः । एतत्त्रिभंगीछंदः सुखानन्दजनकं विमलमतिः फणीन्द्रो भणति । अत्र चरणे द्वात्रिंशन्मात्रा भवन्ति, अष्टौ चतुष्कला गणा भवन्ति । भूषणेऽपि - 'प्रथमं यदि दशमं वदति विरामं तदनु निकामं वसुवसुकं, वसुविमलतुरंगममतिहृदयंगमहृषितभुजंगमनृपतिलकम् । त्रिंशद्विकलासंविहितविलासं सततनिवासं हृदयमुदः, मदमुदितभुजङ्गीमोहनरङ्गी वदति त्रिभङ्गीवृत्तमदः ॥ इदमप्युदाहरणम् ॥
१९४ उदाहरति- जहा (यथा ) -
कश्चिद्भक्तः शिवं स्तौति - भो लोकाः, एतादृशं हरं नमत । कीदृशम् शीर्षे कृता गंगा येन । कृता गौरी अर्धांगे । हतोऽनंगो येन । पुरस्य त्रिपुरस्य दहनो यस्तम् । कृतः फणिपतेः शेषनागस्य हारो येन । त्रिभुवने सारं श्रेष्ठम् । विरचितं भस्म येन विरचित भस्मालेपपरिपूर्णम् । रिपूणामन्धकगजादीनां मथनम् । सुरेशैरिन्द्रादिभिः सेवितचरणम् । मुनिगणानां शरणं रक्षितारम् । भवभयहरणं संसारभीतिनाशनमन्ते तारकोपदेशात् । शूलधरम् । आनन्देन सहितं वदनं यस्य । सुन्दरं रमणीयं लोचनं यस्य । गिरिवरः कैलाशस्तत्र शयनं यस्य ॥ उट्टवणिका यथा ॥15 ॥ 5, 55, 15, 51, 51, 5॥, ॥5, (३२) ॥ 1 ॥5, 5॥, ॥5, 55, 115, SII, 115, (33) 115, III I, SII, III, SII, III I, SS, III 1, (33) 55, III I, SS, III I, SII, III, SII, IIS, (33) II वाणीभूषणे यथा- विविधायुधमण्डित संगरपण्डितरणपण्डितपाखण्डभटे चण्डासुरखण्डिनि पुरहरमण्डिनि शशधरखण्डिनि बद्धजटे । भवसागरतारिणि दुर्गतिहारिणि मंगलकारिणि मयि सुचिरं गिरिराजसुवासिनि शैलनिवासिनि शंभुविलासिनि देहि वरम् ॥'
१९५ अथ दुम्मिल (दुर्मिला) छन्द:
हे नरा बुधजनाः, पिंगलः दुर्मिलका नामकं छन्दो भणति । तत्किम् । तत्रिंशन्मात्राभिः परिसंयुक्तम् । पाद इति शेषः । यच्च विश्राम्यति त्रिषु स्थानेषु एतादृग्भागेषु विरतिर्भागत्रितयेषु । पदे पदे प्रतिपदं दृश्यते कर्णगणो गुरुद्वयात्मकः तत्प्रथमं विश्रामस्थानं दशसु द्वितीयं विरतिस्थानं अट्ठाअं अष्टमं स्थानम् । ततश्चतुर्दशसु मात्रासु तृतीयविरत्या कृतनिलयम् । यदेतादृशं त्रिभुवनवन्दितं छन्दः, तुबुध्यध्वमहो जना इति पिङ्गलो भणति इति ॥ इदमप्युदाहरणम् ॥
१९६ उक्तलक्षणमेवाह
दश - अष्ट- चतुर्दशमात्रासु विरतिं कुर्वंतु । तत्र विश्रामे कर्णगणान्दत्थ । अन्तराले विप्राश्चतुर्लघुकाः पदातयः साधारणाश्चतुर्मात्रा गणास्तान्भणन्तु । एवं दुर्मिला छन्दः कथयन्तु ॥ भूषणेऽपि - ' द्वात्रिंशन्मात्रं भवति पवित्रं फणिपतिजल्पितवृत्तं, दशवसुभुवनैर्यतिरत्र प्रभवति कविकुलहृदयानन्दकरम् । यद्यष्टचतुष्कलकलित सकलपदमिति दुर्मिलनामधरं, नरपतिवरतोषणबन्दिविभूषणभुवनविदितसंतापहरम् ॥' इदमप्युदाहरणम् ॥
१९७ तामुदाहरति- जहा (यथा ) -
कश्चित्कविः काशीश्वरप्रयाणमनुवर्णयति-येन धाराव्यूहः कृतः । अस्मिन्नेवान्तरे नृपालाः शत्रवो जिता एव । 'णेवाला' इति क्वचित्पाठः । तत्र नेपाला जिता: । भोटान्तदेशस्थो लोकः पीडयन्नुरः शिरश्च ताडयन्निर्गतः । भग्नाश्चीनाश्चीनदेशस्थाः । कीदृशाः । दर्पेण हीनाः । लोहाबले देशे हाक्रन्दो हाहाकार: पतितः । उत्कल उड्डायितः । ततश्च कीर्त्तिरपि प्राप्ता । मोटितं च मालवराजस्य बलम् । तैलङ्गास्तु बहुतरऋणग्रस्ता भग्नाः पलायिताः । एककाशीश्वरो राजा यस्मिन्क्षणे चलितः, तस्मिन्नेव क्षणे इयमवस्था जातेत्यर्थः । उट्टवणिका यथा - 55, 15, 15, 55, 151, 151, 151, IS, (३२) 55, 15, 55, 151, 55, 51, 55, 15, (३२) 55, 55, 115, 55, 15, 15, 15, 15, (३२) 55, 55, 111 1, 115, 115, 511, 111 1, 15, (३२)
१९८ अथ हीरच्छन्दः
भोः शिष्य, हीरनामकमिदं छन्दो नागः पिङ्गलः प्रभणति तत्त्वं शृणु । तत्र त्रीन् षट्कलगणान् कुरु । तस्यान्ते जोहलं रगणं कुरु । षट्कले विशेषमाह - हारं गुरुं पूर्वं स्थापयित्वा । हे सुप्रिय सुतरां प्रिय शिष्य, हारानन्तरं विप्रगणैश्चतुष्कलैः सर्वलघुकैः शबलमिति च्छन्दोविशेषणम् । पदे कलासंख्यामाह - तिण्णीति त्रीन्धारय द्वौ कुरु 'अङ्कस्य वामा गतिः' इति गणिते त्रयोविंशतिः कलाः पादे
For Private Personal Use Only
Jain Education International
www.jainelibrary.org