________________
परिशिष्ट (२)
[२२३ तत्प्लवंगमाख्यं छन्दो विचक्षणान्मोहयतीति । भूषणेऽपि-'षट्कलमादिगुरुं प्रथमं कुरु संततं, पञ्चकलं च ततोऽपि चतुष्कलसंगतम्। नायकमत्र चतुर्थमितोगुरुमन्तके, एकाधिकविंशतिः प्लवंगमवृत्तके ॥' इदमप्युदाहरणम् ॥
१८६ उक्तमेव लक्षणं विशदीकृत्याहसकलेषु संस्कारेषु निर्धमः पिङ्गलो भणति । तन्मात्राणामेकविंशत्या दृष्टं प्लवंगमाख्यं छन्दो भवति । गाथा छन्दः । १८७ तमुदाहरति-जहा (यथा)
काचित्प्रोषितपतिका सखीमाह-हे सखि, नृत्यति चञ्चला विद्युत् । उतान्यत्किचिदेतदिति जानीहि । अहं त्वेवं मन्ये । मन्मथखड्गकणिका सज्जलधरशाणके इति । अपि च पुष्पिताः कदम्बाः । अम्बरडम्बरो मेघाडम्बरो दृश्यते । अतः प्रावृट् प्राप्ता। हे सुमुखि, घनाघनो वर्षकघनो वर्षतीति वाकोवाक्यम् ॥ उट्टवणिका यथा-||5||5|515, 5॥॥5 ISIS, ISISISISIS, SIIS IS THESIS
१८८ अथ लीलावती छन्दः
यत्र छन्दसि लघौ गुरौ वा नियमो नास्ति । अक्षरेऽपि न नियमः । अत्र विषमे चरणे जगणः समेऽपि पयोधरो जगण: पतति । अत्र कोऽपि नियमो नास्तीत्यर्थः । तरलस्तुरगो यथा प्रसरति दिक्षु विदिक्षु अगम्ये गम्ये च । स्थले इति शेषः । तथा सुतरां परितो लीलया समन्ततः खेलया इयं लीलावती परिचलति । करः कर्णो द्विजगणो भगणो जगण इति चतुष्कलाः पञ्चापि गणा निरन्तरमेकोपक्रमेण पतन्ति । तत्रान्ते ध्रुवं निश्चितं स दिव्यगणो भवति । किंच सा लीलावती द्वात्रिंशत्कलासु विश्रामं करोति । लघुगुर्वपेक्षया गणेऽपि नियमो नास्ति । यथाकथंचिद्वात्रिंशत्कला: पूरयितव्याः । तथा च भूषणे-'गुरुलघुवर्णनियम विरहितमिह हि सुकलय चतुष्कलमष्टगणं, द्वात्रिंशत्कलविरचितमिदमतिशयसहृदयहृदयदुःखहरणम् । लीलावतिका भवति च करकर्णाद्विजगणभगणजगणकलिता फणिनायकपिङ्गलविरचितमद्भुतवृत्तमगलगुम्फनललिता ॥' इदमप्युदाहरणम् ।।
१८९ तामुदाहरति-जहा (यथा)
कश्चिद्बन्दी हम्मीरप्रयाणं वर्णयति-यस्मिन्क्षणे वीरो हम्मीरचलितस्तस्मिन्नेक्षणे शत्रुगृहेषु लग्नोग्निः धहधहेति कृत्वा ज्वलति । नास्ति पन्था कुत्रापि । दिङ्मार्गोऽनलेन भृतः । तस्मिन्नेव च क्षणे सर्वदेशे प्रसृतः पदातिश्चलति । यः पदातिवर्गः धनीनां शत्रुवधूनां स्तनौ गृहान् जघनादि द्विधा करोति । 'धण' इति धण्णं स्तनौ इति सपदातिश्चलतीति । यस्य हम्मीरस्य भैरवभेरीशब्दे पतिते सति पलायमानवैरितरुणीगणाः श्रान्ताः सन्तो भयेन क्वचिन्निलीनाः । रिपुरपि मह्यां लुठति । शिरः पिट्टइ । आहन्तीत्यर्थः । त्रोटयति । केशानिति शेषः । उट्टवणिका यथा-15, IIS, II, I, II, III, III I, Is, (३२) ॥s, IN I, ss, II, III, ।। ||s, Is, (३२) ॥5, 05, IIs, | I, II, IIS, Is, us, (३२) ॥5, ||s, III I, IIs, ||s, ॥s, ||s, ||s, (३२)।
१९० अथ हरिगीताछन्दः
भो शिष्याः, गणांश्चतुरः पञ्चकलान् स्थापयत । द्वितीयस्थाने षट्कलं कुरुत । प्रतिपदमन्ते चैकं गुरुं कुरुत । छन्दः वर्णनेन सुतरां सर्वं लातीति तादृशम् । तत्र चरणेषु मात्रानियममाह-दश, चत्वारः, द्वौ, दश, पुनौं, एतत्सर्वं मिलित्वा पादे अष्टाविंशन्मात्रा इति आनयन्तु । तदेतच्छन्दो हरिगीतानामकं प्रसिद्ध पिङ्गलेन प्रकाशितं जानीत || भूषणेऽपि-'इन्द्रासनं प्रथमं विसर्जय तानु संचिनु षट्कलं ननु तदनु पञ्चकलत्रयं किल कुरु विराम कुण्डलम् । अष्टाधिकामिह विंशतिं च कला: कलावति सुन्दरं हरिगीतमिति हरिगीतकं वरवृत्तमतिरसमन्दिरम् ॥' इदमप्युदाहरणम् ॥
१९१ उक्तलक्षणमेवाह
द्वितीयस्थाने एकं षट्कलं कथयन्तु । अवशिष्टाश्चत्वारः पञ्चकला गणा देयाः । पिण्डसंख्यामाह-द्वादशोत्तरं शतं मात्राः । पादचतुष्टयेऽपि मानसमेकं गुरुमन्ते स्थापयत । तेन प्रतिपदमष्टाविंशतिर्मात्राः ॥
१९२ तामुदाहरति-जहा (यथा)
कश्चिद्बन्दी संकुलं युद्धमनुवर्णयति-गजा गजैर्युक्ताः, तरणिधूलिभरेण निलीनः तुरगास्तुरगैः सह युयुधिरे, रथा स्थैर्योजिताः । अत एव धरणी पीडिता । तस्मिन्समये आत्मीयाः परकीयाश्च न ज्ञाताः । अथ बलानि मीलिअ परस्परमेकीभूतानि । पदातयस्ततो धाविताः, अतएव पत्तिभरेण कम्पितानि च गिरिवरशिखराणि उच्छलति च सागरः । कातर्येण दीना दीर्णाः । कातरा इति वा । वैरमतिदीर्घ वर्धितम् । उट्टवणिका यथा- 1, 5 I, s, III , II, 5, (२८) ॥ ॥ ॥ ॥, ISI, sil, Ims, s, (२८) | I, IS, ISII, II III, 5, (२८) II, I, ISI, SIS, ||1, 5, (२८) ॥ यथा वा ग्रन्थान्तरस्थमुदाहरणम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org