________________
२२२]
प्राकृतपैंगलम्
१७६. अथाभीरच्छन्द:
यत्रैकादश मात्राः प्रतिपदं क्रियन्ते । यत्र चान्ते जगणो दीयते । एतच्छन्द आभीरनामकमिति जल्पति पिङ्गलः । भूषणेऽपिएकादशकलधारि कविकुलमानसहारि । इदमाभीरमवेहि जगणमन्तमभिधेहि ॥' इदमप्युदाहरणम् ।।
१७७. तामुदाहरति-जहा (यथा)geafurcht 499–511511SI, S1151151, 51151151, 51151151 १७८. अथ दण्डकला छन्दः
कुन्तकरः, धनुर्धरः, हयवरः, गजवरः, चतुष्कलाश्चत्वारो गणाः ततः षट्कलो गणः, ततः पदातिद्वयं चतुष्कलगणद्वयम्, अन्ते गुरुरिति द्वात्रिंशन्मात्राः पदेषु प्रसिद्धा जानीत बुधजना हृदयतले। समुदितमात्रासंख्यामाह-अष्टाविंशत्यधिकशतकला: संपूर्णा यस्मिस्तद्रूपं फणिपतिभाषितं भुवने लोके दण्डकलेति निरुक्तं गुरुसंयुक्तमिदं छन्दः पिङ्गगलो जल्पति । इदमप्युदाहरणम् ॥
१७९. तामुदाहरति-जहा (यथा)
कश्चिद्बन्दी काशीश्वराहितानां पलायनमनुवर्णयति-हे काशीपते, तवाहिता राजानो भग्नाः पलायिता अत एव दिक्षु लग्नाः । किं कृत्वा । हयगजगृहगृहिणी: परित्यज्य । अथ च तासां पुरंध्रीणां लोरहि-अश्रुभिः सरोवराः कासारा भृताः पूर्णाः । तन्मध्ये पट्टमहिषी काचिद् धरिण्यां लुठति, रोदिति, तनुमाहन्ति, पुनरप्युत्तिष्ठति, संभलिअ अवधार्य । कथंभूता । करे दत्तांगुलेबलस्य तनयस्य करयमले कद्धये करो यस्याः । स्वकरेण विधृतबालकद्धयेत्यर्थः । एवं जाते सति काशीश्वरो राजा स्नेहल: स्नेहयुक्तः कायो यस्य । करेण दण्डेन पुनर्माआं दयां स्थापयित्वा धृतवान् शत्रुराज्यभित्युपरिष्ठादेतेन दण्डं गृहीत्वा तांश्च राज्ये प्रतिष्ठापयामास । उट्टवणिका यथा51 555 III 555 III III III IN S, SII III III III III I SII SIII III 5, 115115111155115 III III III I 5, 551155SII 55ISSI151151
१८०. अथ दीपकछन्दः
आदौ चतुर्मात्रं गणं देहि । तस्यान्ते एकं लघु देहि । ततस्तयोश्चतुष्कलमध्ये त्रय बुध्यस्व । तदुक्तं भूषणे-'तुरगैकमुपधाय सुनरेन्द्रमवधाय । इह दीपकमवेहि लघुमन्तमभिधेहि ॥' इदमप्युदाहरणम् ।
१८१. जहा (यथा)
यस्य राज्ञो हस्ते करवालः खड्गः शोभते । कीदृशः । शत्रुकुलकालकल्पः । यस्य च शिरसि वरमुत्तमं छत्रं शोभते संपूर्णशशिवत् ॥ उट्टवणिका यथा-III SIS5I51, ISISI55115।
१८२. अथ सिंहावलोकच्छन्दः
भो गुणिगणाः, विप्रसगणाभ्यामेव प्रतिपदं षोडश मात्रा धृत्वा भणन्तु सिंहावलोकनं छन्दः । ध्रुवं निश्चितं बुध्यस्व । नागो भणति । अत्र जगणो न भगणो न च कर्णगणो भवति । व्यस्तसमस्ताभ्यां विप्रगणमेव षोडशकलं सिंहावलोकन छन्दो भवति । एतश्च शृङ्खलाबन्धनक्रमेण चरणान्तवर्णद्वयावलम्बनेन भवतीति ज्ञेयम् । तथा चोक्तं वाणीभूषणेऽपि-'शृणु सिंहावलोकितवृत्तवरं वरयमकमनोहरचरणधरम् । धरणीपतिमानसमधिकलितं किल वेदचतुष्कलगणललितम् । इदमप्युदाहरणम् ।
१८३. उक्तामेवोट्टवणिकां स्पष्टीकरोति
अत्र छन्दसि विप्रगणसगणावेव द्वौ गणौ पदे पततः । ततोन्ते हारं गुरुं विसर्जय । सगणास्यान्ते गुरुत्वात् सगण एव पदान्ते देय इत्यर्थः । छन्दसोऽन्वर्थकतामाह-पदान्ते यदक्षरद्धयं तदेवाग्रिमपदादौ देयमित्यर्थः । अत एव सिंहावलोकनमिति ॥
१८४. तामुदाहरति-जहा (यथा)
कश्चित्कर्णमुपवर्णयति-हतमुज्ज्वलमतिस्फीतं गुर्जरराज्यस्य दलं सैन्यम् । येन दलेन स्वसेनासमुदायेन दलितं चूर्णीकृतम्, अतएव चलितं महाराष्ट्राणां बलं कटकम् । येन बलेन बलात्कारेण मोटितमुत्खातं मालवराजस्य कुलम् । एवंविधः कुलोज्ज्वल: कलचुलिवंशोद्भवः कर्णः फुला स्फुरति । अथवा स्फुटं सत्यम् । कर्ण एव कलावतीर्ण इति भावः । उट्टवणिका यथा-||||||S, ॥ III II || 5, 15, 15, ||s, s, s, ॥ ॥ 55.
१८५ अथ प्लवंगमच्छन्दः
एतस्यैव चतुर्थचरणादौ परहा इति बन्दिनः पठन्ति (?) । हे मुग्धे, यत्र प्रथमं षण्मात्रो गणः पदे पदे दृश्यते । ततश्च पञ्चमात्रश्चतुर्मात्रो गणो नान्यत्र क्रियते । अथ संस्मृत्यान्ते पदान्ते लघुर्गुरुश्च एकैकस्य चरणस्यान्ते चाहए अपेक्षते । एवमुक्तलक्षणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org