________________
परिशिष्ट (२)
[२२१
१६६. अथ चुलिआलाछन्दः
तच्चुलिआलानामकं छन्दः । यदि दोहाया उपरि पञ्च मात्रा अधिका दीयन्ते । तदेवाह-पदे पदे उपरि शुद्धः कुसुमगण एको लघुः, ततो गुरुः, ततो लघुद्वयम् । एवंरूपं पञ्चकलं स्थापयन्तु । 'पदे पदे' इत्युक्ते दोहापदचतुष्ठयेऽपि पञ्चकलदानं आहसपञ्चकलो गणोऽन्ते द्विपदाप्रथमदलान्ते चरमदलान्ते च दीयते । एतेनार्धे ऊनत्रिंशन्मात्रा भवन्ति । एवं दलाम्यामष्टपञ्चाशन्मात्राश्चलिआलाछन्दसो भवन्ति ॥ इदमप्युदाहरणम् ॥
१६७. उक्तलक्षणमेवाह
दोहासंख्यां संस्थापयन्तु । उपरि पञ्चैव मात्राः । एवमष्टादशोपरि चत्वारिंशन्मात्राः संभूयष्टपञ्चाशन्मात्राभिचलिआला आख्याता ॥ भूषणैऽपि–'दोहादलशेषे यदा पञ्चकलो विमलोहि विराजति । फणिवरनृपतिः किल तदा चुलिआलामिह तामनुगायति ॥' इदमप्युदाहरणम्
१६८. तामुदाहरति-जहा (यथा)
हे मित्र, राजा [लब्धः, समाजः खलः, वधूः कलहकारिणी, सेवको धूर्तः एवं सति यदि जीवनं सुखरूपं प्रार्थयसे तहि गृहं परिहर । विरज्य संन्यासं कुरु । इति कंचिद् गृहस्थं प्रति मित्रमाह । उट्टवणिका यथा-555, |s, II, IIIS, , I, III, SIS, IS, II, II, II, I, II, इति चुलिआलाछन्दः ॥
१६९. अथ सोरट्ठा छन्द:
तां सोटुां जानीहि । या विपरीतैव दोहा स्थिता । तत्र च पदे पदे यमकं व्याख्येहि । इति नागराजपिङ्गलः कथयति । प्रथमचरणे एकादश, द्वितीये त्रयोदश, तृतीये एकादश, चतुर्थे त्रयोदशेति । भूषणेऽप्युक्तम्-'तत्सोद्धा वृत्तममलमुरगपतिरिति वदति। यद्दोहाविपरीतमिह जनहदि मुदमुपनयति ॥' इदमप्युदाहरणम् ।
१७०. तामुदाहरति-जहा (यथा)
कश्चित्कस्मैचिच्छ्लाध्यते स एव मान्यते पुण्यवान् यस्य तनयो भक्तः, अर्थापितुः, पण्डितश्च । यस्य च गृहिणी गुणवती स तु पृथिव्यामपि वर्तमानः स्वर्गनिलयोऽमरो भवति । उट्टवणिका यथा-ऽऽऽ।, (११) 5I515 (१३) IS (११) SIIIS (१३)
१७१. हाकलिछन्दः
यत्र सगणो गुर्वन्तश्चतुष्कलः भगणो गुर्वादिः, द्विजगणश्चतुर्लध्वात्मकश्च अत एव व्यस्तसमस्ता गणा भवन्ति । अन्ते वक्र गुरुरेकं संस्थाप्य मात्राश्चतुर्दश मिलित्वा वर्णाश्चैकादश पदे पदे उत्तरार्धे दश पतन्ति, तदिदं हाकलिच्छन्दोरूपं कथितम् । इदमप्युदाहरणम् ।।
१७२. उक्तलक्षणमेव साक्षरनियममाह
यत्र मात्राश्चतुर्दश पदे पतन्ति, एकादशवर्णैश्च पूर्वदलं दशाक्षरैरुत्तरदलम् यत्र तद्धाकलिच्छन्दः कथय ॥ वाणीभूषणे त्वक्षरनियमो नोक्तः । 'द्विजगणसगणभगणकलिता, भवति चतुर्दशकलकलिता । अन्ते गुरुमुपधाय सदा, हाकलिरेषा भवति तदा ।' इदमप्युदाहरणम् ॥
१७३. तामुदाहरति-जहा (यथा)
उच्चा छदि: विमलं गृहं विनयपरा तरुणी चेद् गृहिणी यस्य वित्तैः पूरितं मूलगृहं तस्य वर्षासमयाः सुखकरा भवन्ति । इति दरिद्रवचनं वयस्यं प्रति । उट्टवणिका यथा-ISS, IIIIIIs, ISISIS, |||Sus
१७४. अथ मधुभारच्छन्दः
यस्य पतति शेषे दलद्वयान्ते पयोधर एकः । जगण एकः । पततीत्यर्थः । तत्पश्चाच्चतुर्मात्रिका गणास्त्रयो यत्र तन्मधुभारच्छन्दः । वाणीभूषणे तु गणनियमो यद्यपि दर्शितस्तथापि चतुष्कलमात्रे पर्यवसन्नो ज्ञेयः । 'सगणं निधाय जगणं विधाय। श्रुतिसौख्यधाम मधुभारनाम ॥' इदमप्युदाहरणम् ॥
१७५. तामुदाहरति-जहा (यथा)
यस्य चन्द्रः शीर्षे । यस्य परिधानं दिशः । स शंभुरेव तुम्यं शुभं ददात्विति । उट्टवणिका [यथा]-15, ISI, SI, ISI, 55, ISI, IIS, II
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org