________________
२२०]
प्राकृतपैंगलम् च्छन्दः । तत्र यथाशशी रजन्यां शोभते रगणो नवद्विजगणोपरि शोभते । हे गजवरगमने, पुनरपि विरतिः पदद्वयेपि नव विप्रगणः पश्चाद् रगण इति खञ्जाछन्दः । वरः श्रेष्ठ फणिपतिर्भणति । [हे] बुधजनमनोमोहकं तत्स्मरेति । इदमप्युदाहरणम् ॥
१५८ एतदेव दोहाछन्दसा स्पष्टीकृत्याह
यदत्र दलद्वये नव गणा विप्राश्चतुर्लध्वात्मका पतन्ति । अन्ते जोहलं रगणं स्थापयतु । संभूयैकचत्वारिंशन्मात्राः खञ्जाछन्दसः पतन्ति गास्तत्र दश पतन्तीति जानीति । भूषणेऽपि-'द्विजवरनवगणमुपनय तदनु च विमलकमलदलमृदुलसुतनु रगणमिह खञ्जके। द्विदलममलमिति फणिवरनरपतिनिगदित [मिद]मतिशयगुणसहृद [यहृदयसुरञ्जके ॥' इदमप्युदाहरणम् ॥
१५९ तामुदाहरति-जहा (यथा)
कस्यचित्समरमनुवर्णयति-परकटकभारेणाहिः शेषो ललति चलति । स्थानभ्रष्टो भवतीत्यर्थः । अत एवावष्टम्भकाभावान्मही चलति । तस्मादेकगिरिः कैलाशः पतति । तदाश्रयो हरः स्खलति । अत एव शशी घूर्णते । घूर्णनेनामृतं वमति । अतोऽमृतसंपर्कादेव मृता अपि सुभटा जीवित्वोत्तिष्ठन्ति । ततश्च भूमिस्तादृशभारवती भवति । अतः शेषाहिः पुनरपि तरति । पुनः स्खलति, पुनर्ललति । पुनर्पूर्णते, पुनर्वमति । पुनश्च जीविता विविधाः परितः समरे दृष्टा भटाः । अत्र महीचलने शेषचलनं हेतुः । कैलासपतने महीचलनमित्युत्तरोत्तरं प्रति पूर्वस्य हेतुत्वमिति अलंकारः । उट्टवणिका यथा- I, III, III, II, , , IIII, II I, III I, 515 (४१) | I, III I, III I, II I, III I, III, II I, III, I, SIS (४१) = (८२) ।
१६०. अथ सिक्खा (शिखा) छन्दः
हे शशिवदने, हे गजगमने, यत्र पदे पदे द्विजगणषट्कं भवति । तदुपरि पयोधरेण जगणेन सशिखम् । उपरिस्थितजगणमित्यर्थः । एवंविधं प्रथमदलं पठ। पश्चाद्वाभ्यां द्वाभ्यां लघुभ्यां प्रकटितोऽधिक एको द्विजगणोः लभ्यते । तेन द्वितीये दले सप्तविप्रगणानन्तरं यत्र जगणो भवति स इति प्रसिद्धः । शेषस्तच्छिखानामक छन्दो भणति । इदमप्युदाहरणम् ॥
१६१ उक्तलक्षणमेव गाहूछन्दमाह
यत्राष्टाविंशतिर्मात्राः प्रथमे दले भवन्ति । द्वितीयदले द्वात्रिंशन्मात्राः । पदयोरन्ते लघुर्यत्र तच्छुद्धं शिखाछन्दो विजानीत ।। भूषणेऽपि-'द्विजवरमिह हि रसगुणितमुपनय तदनु जगणमपि विधेहि । स्वरगणितमिह परदलमधिकुरु फणिनरपति सुभणितरुचिरशिखा हि ॥' इदमप्युदाहरणम् ।।
१६२ तानुदाहरति-जहा (यथा)
काचित्प्रोषितभर्तृका सखीमाह-हे सखि, पुष्पिता मधुका भ्रमराः । स्थिताः पुष्पेषु इति शेषः । किंच रजनीप्रभोश्चन्द्रस्य किरणा बहवो विशेषत: अव इदानीं पुनर्वसन्त इत्यर्थः । परमसंतापका इति भावः । अथ च मलयाचलकटककोटरमभिव्याप्य पवनो वहति । अत एवैतत्सर्वं सोढव्यं कथमिति त्वमेव भण । निकटे नास्ति कान्तः । अतो यदुचितं भण ॥ उट्टवणिका यथा- I, II I, III I, III, II, II, III, III I, III, II, III I, III, II, IsI.
१६३. अथ मालाछन्दः
हे शशिवदने, हे मृगनयने कर्णो गुरुद्वयात्मको गणो भवति । शेषं द्वितीयचरणं गाथाया अर्धं यस्मिस्तन्मालाछन्दः पिङ्गलनागो भणति ॥ इदमप्युदाहरणम् ॥
१६४ उक्तलक्षणमेव दोहाच्छन्दमाह
यत्र प्रथमं नव विप्रगणाः ततो जोहलं रगणः पुनर्गुरुद्वयम् । एवं पञ्चचत्वारिंशन्मात्राः पश्चाद्गाथायाः अर्धं सप्तविंशतिर्मात्रा: उत्तरार्धे यत्र तन्मालाछन्दः ॥ तथा चोक्तं वाणीभूषणे-'द्विजवरनवगणमतिशयसुरुचिरमिह कुरु तदनु रगणमपि कलय कमलमुखि कर्णवच्छेषे ॥ अपरदलं गाथाया मालावृत्तं विचित्रं तत् ॥' इदमप्युदाहरणम् ॥
१६५ तामुदाहरति-जहा (यथा)
काचित्प्रोषितभर्तृका वर्षासमयमालोक्य सखीमाह-हे सखि, वर्षति जलम् । भ्रमति घनः । शीतलः पवनो मनोहरणः । वहति इति शेषः । किं च [क] नकपीता नृत्यति विद्युत् । नीपा: [फुल्लिता:] एवंविधेऽपि समये जाते प्रस्तरविस्तारहृदयो महापाषाणहृदयः प्रिय इदानीमपि नायाति । अतः किं विधेयमुपदिशेति व्यज्यते ॥ उट्टवणिका यथा- I, III I, IIII, MI, ।। |I, II, II, I, Is, 55, (४५) I, I, 15, 15, 15, 5 (२७) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org