________________
२१८]
प्राकृतपैंगलम् एतेषामुदाहरणानि सुबुद्धिभिः स्वयमूह्यानि । इति रड्डाप्रकरणम् ।
१४४ अथ पद्मावती छन्दः
यस्याः स्थाने स्थाने चतुर्ध्वपि चरणेषु चतुर्मात्रिकाश्चतुष्कला गणा अष्टौ भवन्ति । तां पद्मावती भण । के के गणा इत्याहकर्णः गुरुद्वयात्मको गणः । करतल: गुर्वन्तश्चतुष्कलः । विप्रः चतुर्लध्वात्मको गणः । चरणः आदिगुरुर्भगणाख्यः । ध्रुवं निश्चितम् । एत एव गणाः पौर्वापर्येण वसुसंख्याकाः पादे पादे उत्कृष्टाः कार्याः । अत्र 'ध्रुवधम्मो' इति क्वचित्पाठः । तत्र धर्मो युधिष्ठिरः, तेन कुन्तिपुत्रत्वाद्गुरुद्वयं विवक्षितम् । अत्र यदि पयोधरो जगणः पतति तदा किमियं मनोहरा, (मनोहरा) न भवतीत्यर्थः । अथ च यस्य कवित्वं क्रियते तस्य नायकस्य तथा गुणं पीडयति, पितरं त्रासयति, कवित्वस्य पिता कविरेव विवृणोति-कविमुद्रासयति, तस्मादत्र छन्दसि अयं जगणश्चण्डालचरित्रः सर्वथा त्याज्यः । उक्तं च भूषणे-'यद्यष्टचतुष्कलगणनिर्मितपदकरपदकर्णद्विजविहिता, सा पद्मावतिका विबुधसुमहिता जगणविरहिता सुकविहिता । इह दशवसुभुवनैर्भवति विरामः । सकलाभिमतफलाय तदा, फणिनायकपिङ्गलभणितसुमङ्गलरसिकमन:संविहितमदा ॥'
१४५ पद्मावतीमुदाहरति-जहा (यथा)
कश्चित्कवि: काशीश्वरस्य राज्ञो विजयप्रयाणमनुवर्णयति-वंगा वंशदेशीया भयेन पलायिताः । अथ च कलिंगाः कलिंगदेशस्थाः तेऽपि भग्नाः । तैलंगा अपि रणं त्यक्त्वा चलिताः । धृष्टा महाराष्ट्राः । एकत्रीभूय लग्नाः काष्ठाः । लग्नाः दिश इत्यर्थः । सौराष्ट्रा: भयेनागत्य पादे पतिताः । अथ च चम्पारण्यदेशीयानां कम्पो जातः । पार्वतीया उत्थी उत्थी उपर्युपरि जीवानां मनुष्याणां हरे गृहे एव झम्पा निलीनाः । जीवगृहे गोप्यस्थले झम्पा निलीना इति वा । एतत्प्रतापतपनभयादुलूका इव स्थिता इत्यर्थः । उट्टवणिका यथा-us, us, 55, us, ss, ss, IIs, Is, Is, ss, ss, ||s, ss, ss, us, us, 55, ||s, 55, 05, 55, 55, ss, Is,
१४६ अथ कुण्डलिकाछन्दः
प्रथमं द्विपथालक्षणं पठित्वा काव्येनार्धं निरुक्त्वा कुंडलिकां जानीत । कीदृशीम् । उल्लालेन संयुक्ताम् । उल्लालनमेव उल्लाल: परावर्तनं, तेन युक्तमेव पदं पुनः पठेदित्यर्थः । ननु षट्वदवदुल्लालेन छन्दसा युक्तामिति, तस्मात् सिंहावलोकनन्यायेन निकटवर्तिना पदेन शुद्धं यमकं श्लाघ्यते । तत्राष्टसु पदेषु कियत्यो मात्रा इत्याकाक्षायामाह-चतुश्चत्वारिंशदधिकं शतं मात्रा यत्र भवन्ति । सुकविना दृढो बन्धः कथ्यते । दोहाया अष्टचत्वारिंशत्, काव्यस्य षण्णवतिमिलित्वा चतुश्चत्वारिंशदधिकशतं कला: तनुभूषणशोभा यस्यास्तां कुण्डलिकां मुणहु जानीत । एतेनाष्टपदी कुण्डलिकेति तात्पर्यार्थः । तथा चोक्तं भूषणे
कुण्डलिका सा कथ्यते प्रथम दोहा यत्र । भेलाचरणचतुष्टयं प्रभवति नियतं तत्र ॥ प्रभवति नियतं तत्र पदं प्रति सुललितयमकम् । अष्टपदी सा भवति विविधकविकौशलगमकम् ॥
अष्टपदी सा भवति सुखितपण्डितमण्डलिका । कुण्डलिनायकभणितविबुधकर्णे कुण्डलिका ॥' इदमप्युदाहरणम् ।। १४७ तामुदाहरति-(जहा) यथा
कश्चिद्वन्दी वीरहम्मीरप्रयाणमनुवर्णयति-यदैव दिल्लीमध्ये प्रयाणडिण्डिमः समाहतस्तदानीमेव मूच्छितं म्लेच्छशरीरैः । अनन्तरं च पुरस्कृतजज्जलमन्त्रिवर: चलितो वीरहम्मीरः । ततश्च हस्त्यश्वपदातिचरणभरेण मेदिनी कम्पते । दिङ्मार्गे नभसि चान्धकारः स्फुरति । धूलिः सूर्यरथमाच्छादयति । एवं दिङ्मार्गे नभ:पथे चान्धकारो विस्तृतिमानीतः । खुरासानस्य ओलो दण्डः, हे राजन् त्वं चरणमद् (द) नेन दमसि (दाम्यसि) विपक्षान् । किमुत संग्रामेण । एवं यस्य तवाहतो डिण्डिमो दिल्लीमध्ये इति । उट्टवणिका यथा-555, ॥s, , Is, ||s, I, Iss, 55, I, 51, 55, I, Is1, 55, 11, ॥s, s, ॥ ॥ , 55, ISI, SI, Is, ॥, ॥ 1, 55, 151, 5, ||s, 5, , |s, I51, 55, ||s, 5)
१४८ उट्टवणिकामेव स्पष्टीकरोतिप्रथममेव द्विपथाचतुष्पदं ततश्चतुष्पदं काव्यस्य दत्थ । एवं कुण्डलिकामष्टपदी पदे पदे यमकं च कुरुत । दोहाच्छन्दः ॥
पशुपतिस्तु आदौ दोहा । ततः सोद्धा, अर्थाद्विपरीतदोहा । ततः काव्यमिति कुण्डलिकालक्षणमाह । तस्मिन्पक्षे एकशतं द्विनवतिर्मात्रा भवन्ति ॥ .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org