SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट (२) [२१७ १३१ अथ चउबोलाछन्द:षोडशमात्राभिट्ठौं चरणौ प्रथमतृतीयको प्रमाणयत । द्वितीये चतुर्थे चरणे च चतुर्दशमात्राः । एवं षष्टिमात्राभिश्चतुष्पदं जानीत ।। १३२ चउबोलामुदाहरति कस्यांचित्तरुण्यामासक्तस्य [कस्यचित्] वचनम्-हे धणि हे वनिते, मत्तमतङ्गजगामिनि, हे खञ्जनलोचने, हे चन्द्रमुखि, यतश्चञ्चलमिदं यौवनं हस्तस्थितजलमिव गच्छन्न जानासि । अतः छइलेभ्य अस्मदादिविटेभ्यः कुतो न समर्पयसि । अहो ते भ्रम इति भावः ॥ उट्टवणिका यथा-||||||||||s, ISISI, || १३३ अथ रड्डाछन्दः प्रथमे पदे पञ्चदश मात्रा विरचय । पदे द्वितीये द्वादश । तृतीयस्थाने पञ्चदशमात्रा जानीत । चतुर्थे एकादशमात्राः । पञ्चमे पञ्चदशमात्रा आनयन्तु । एवं पञ्चपदेषु अष्टषष्टिं मात्रा पूरयन्तु । अग्रे दोहां दत्थ । राजसेनो नाम राजा सुप्रसिद्धामिमां रड्डां भणति । इदमप्युदाहरणम्। १३४ एतस्या एव गणनियममाह विषमे पदे प्रथमतृतीयपञ्चमे प्रथमं त्रिकलं स्थापयन्तु । ततस्त्रयः पदातयः चतुष्कलगणाः क्रियन्ताम् । अत्र प्रथमपादस्यान्ते नरेन्द्रो भगणः । किंवा विप्रगणं चतुर्लध्वात्मको भवति । ततोऽपरत्र समे द्वितीये चतुर्थे च द्वे मात्रे प्रथमतो दत्वा त्रयः पदातयः चतुष्कलास्त्रयोगणाः, पूर्वस्थापितमात्राद्वयेन सह कर्तव्या इत्यर्थः । सर्वेषु पदेषु लघुमन्ते विसर्जयन्तु । चतुर्थे चरणे विचारयित्वा कार्यः । उट्टवणिकां विधाय तुरीयचरणे एकं लघुमाकृष्य गृह्णन्तु । तेन चतुर्थे चरणे एकादशैव कलाः । अतस्तृतीयो गणस्त्रिकलस्त्रिलध्वात्मको भवति, इत्येवं पञ्चसु पादेषु उट्टवणिकां कृत्वा अष्टषष्टिमात्राश्च पूरयित्वा वस्तुभूतं तच्छन्दसो नाम पिंगलः करोति । 'वस्तु' इप्येतस्यैव नामान्तरम् । वापां (?) स्थापयित्वा दोषहीनं दोहाचरणं राजसेनो नाम राजा रड्डामिति भणति । षट्पदीच्छन्दः ।। १३५ तामुदाहरति-जहा (यथा) काचित्प्रोषितभर्तका समागतं वसन्तमवलोक्यात्मानं शोचति-यथा हे सखि, मधुकरो भ्रमरो भ्रमति । स्फुटितमरविन्दम् । विकसितमित्यर्थः । नवकिंशुककाननं च पुष्पितम् । अथ च सर्वदेशे पिकः पञ्चमं कूजति । शीतलपवनो मलयानिल: मलयकुहरस्थनववल्लीमभिनवलतां प्रेरयित्वा लघु मन्दं वहति । एवं वसन्ते जाते सति चित्तं च मनोभवशरो हन्ति । दूरे दिगन्तरे कान्तः । कथमिदानीमात्मानं स्थापयिष्यामि । एवं पतितं दुरन्तं दुःखमिति । एतस्या एवान्यत्र नवपदमिति नामान्तरम् । उट्टवणिका यथाIII, III I, II, ISI, IIs, ISI, III I, SI, II, ISI, SI, I, II I, III, III, I ॥, 151, 5I, SIS, II, III, SIS, ॥७, I, Is, s, , , is, १३६ अर्थतस्य छन्दसः सप्तभेदा भवन्तीति नामतस्तानुद्दिशति करभी, नन्दा, मोहिनी, चारुसेना, भद्रा, राजसेना, तालकिनी इति प्रिये सप्त भेदा वस्त्वपरनामकरड्डाच्छन्दसो निष्पन्नाः । दोहाच्छन्दः ॥ १३७ तेषां लक्षणमाह प्रथमतृतीयपञ्चमपदेषु यस्यास्त्रयोदश मात्राः । अथ च द्वितीयचतुर्थयोरेकादश मात्राः । एवं पञ्च पदानि, एतदग्रे दोहा यस्यास्तां करभी भणति । दोहाच्छन्दः ॥ १३८ यस्याः प्रथमतृतीयपञ्चमपादेषु चतुर्दश मात्रा । द्वितीयचतुर्थयोरेकादश, तां विचार्य दोहां च दत्वा नन्दा भणति । दोहाच्छन्दः ॥ १३९ प्रथमतृतीयपञ्चमपदेषु नव दश ऊनविंशतिर्मात्राः यस्या द्विचतुर्थे एकादश । अग्रे दोहा यत्र तां मोहिनी जानीहि । दोहाच्छन्दः ॥ १४० प्रथमतृतीयपञ्चमपदेषु मात्राः पञ्चदश । द्वितीयचतुर्थयोरेकादश । सदोहां तां चारुसेनां जानीहि । दोहाच्छन्दः ।। १४१ प्रथमतृतीयपञ्चमपदेषु पञ्चदश । द्वितीयचतुर्थयोदश मात्रा दत्वा दोहां भद्रानाम्नी कथय । दोहाच्छन्दः । १४२ प्रथमतृतीयपञ्चमपदेषु पञ्चदश मात्राः, द्वितीये द्वादश, चतुर्थे एकादश, तस्यान्ते दोहा, तां राजसेनां भण ॥ १४३ प्रथमतृतीयपञ्चमपदेषु षोडश मात्रा:, द्वितीये द्वादश, चतुर्थे एकादश, अन्ते दोहा यस्यास्तां तालङ्किनी भणेति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001440
Book TitlePrakritpaingalam
Original Sutra AuthorN/A
AuthorBholashankar Vyas, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Text Society Ahmedabad
Publication Year2007
Total Pages690
LanguagePrakrit, Sanskrit, Hindi, Apbhramsa
ClassificationBook_Devnagari & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy