SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ २१६] १४० लघु १४२ लघु १४४ लघु १४६ लघु १४८ लघु प्राकृतपैंगलम् १४६ अक्षर १४७ अक्षर १४८ अक्षर १४९ अक्षर १५० अक्षर ६ गुरु ५ गुरु ४ गुरु ३ गुरु २ गुरु १ गुरु ० गुरु इति ज्ञात्वा मनसि विचारयित्वा नागराजः पिङ्गलः कथयति । इत्येकसप्ततिः षट्पदानां नामानि । छन्दस्कारः प्रस्तार्य लभते । नामभेदानिति शेषः ॥ १५० लघु १५२ लघु १५१ अक्षर १५२ अक्षर (१५२ मात्रा) भ्रमरः । शेखरः । Jain Education International कुसुमाकरः । दीपः । शंखः । वसुः । शब्दः । १२४ षट्पदछन्दसि नामसंख्यानयनप्रकारान्तरमाह यावन्तः सर्वे लघवो भवन्ति । द्विपञ्चाशदधिकशतकला इत्यर्थः । तासु कलास्वर्धं विसर्जय । अवशिष्टा षट्सप्ततिः । तास्वपि शरसंख्यां विसर्जय । एवं सति यावत्योऽवशिष्यन्ते । प्रकृते एकसप्ततिः । एतत्प्रमाणाणि नामानीति दोहाछंदः । एतेषामुदाहरणान्युदाहरणमञ्जरीतोऽवगन्तव्यानि क्रमेण । षट्पदं निवृत्तम् ॥ १२५ अथ पज्झडिआ (अथ पज्जटिका छन्दः) - चतुर्मात्रिकांश्चतुरो गणांश्चतुः स्थाने चतुश्चरणे स्थापयित्वा नियमेन पयोधरं चतुष्कलं चतुर्थं स्थापयित्वा । एवं पदचतुष्टयेन चतुःषष्टिभिः (ष्ट्या) मात्राभिः पज्जटिका भवति । यथा इन्दुश्चन्द्रमाः षोडशकलाभिरमृतं क्षरति तथा षोडशमात्राभिरेकचरणोऽस्याः पीयूषवर्षी भवतीति भावः । तथा सति षोडशकलैव पज्जटिकानामकं छन्दो निष्पाद्यते इति । भूषणेऽप्युक्तम्- 'चत्वारि चतुष्कलानि देहि, तत्रापि जगणमंते विधेहि । भणिता फणिनायकपिङ्गलेन, पज्जटिकेयं षोडशकलेन ।' इदमप्युदाहरणम् ॥ ● १२६ पज्जटिकामुदाहरति- जहा (यथा) - कश्चित्कविः कर्णं स्तौति - कर्णस्य पराक्रमं कोऽपि बुध्यते । अपि तु न कोऽपि । येन गञ्जितो गौडाधिपतिः । यस्य भन उद्दण्ड उद्गतदण्डोऽपि उट्टइसो उत्कलेशः पलायितः । गुरुविक्रमो यस्यैवं विक्रम जितः । तस्मात्कस्तव पराक्रमं जानीयादिति भावः । उट्टवणिका यथा - 55, 15, 511, 151, 55, 151, III 1, 151, 15, 15, III 1, 151, 55, 15, 15, 15 १२७ अथाडिल्लाछन्दः अत्र षोडशमात्राः पादे लभ्यन्ते । द्वयोरपि दलयोर्यमकौ भवत इति कलया भवति । न पयोधरः जगणः कथमपि । अन्तेषु चतुर्ष्वपि चरणेषु सुप्रियो लघुद्वयात्मको गणो भवति यत्र तच्छन्दोऽडिल्लानामकमित्यर्थः । भूषणेऽप्युक्तम्- 'छन्दसि षोडशकले विलासिनि, प्रतिपदमन्ते यमकविलासिनि । अडिल्लनामपयोधरधारिणि, शेषे नियत लघुद्वयधारिणि ॥ इदमप्युदाहरणम् । १२८ तामुदाहरति- जहा (यथा) - येन कर्णेन [आ]सावरी देशः मार्गणेभ्यो दत्तः । येन च सुस्थिरं डाहरराज्यं पार्वतीयान्विजित्य गृहीतम् । येन च कालंजरे दुर्गे कीर्तिः स्थापिता । येन च धनमावर्ज्य धर्मार्थमेवार्पितमर्थिभ्यः । स कर्णो जयतीति वाक्यशेषः ॥ उट्टवणिका यथा - IIS, SI, 55, SII, SII, SII, 55, 511, 55, III, 55, 5II, IIS, SI, SII, SI १२९ अथ पादाकुलकं छन्दः यत्र लघूनां गुरूणां वा एकोऽपि नियमो नास्ति । पदे पदे उत्तमरेखा भवन्ति । अन्तरान्तरा लघुर्गुरुश्च भवतीत्यर्थः । अथ च सुकवेः फणीन्द्रस्य पिंगलस्य कण्ठवलयं कण्ठाभरणं षोडशमात्रं पादाकुलकं छन्दो भवतीति । भूषणेऽपि - अक्षरगुरुलघुनियमविरहितं, भुजगराजपिंगलपरिभणितम् । भवति सुगुम्फितषोडशकलकं, वाणीभूषण पादाकुलकम् ।।' इदमप्युदाहरणम् । For Private Personal Use Only १३० तदुदाहरति- जहा (यथा) - कस्यचिद्विदूषकस्य वचनम् - सेरमात्रं यदि प्राप्यते घृतं तथा मण्डकान् विंशतिं पचामि नित्यम् । तत्र टङ्कमात्रं यदि सैन्धवं लवणं प्राप्तं तदा य एवाहं रङ्कः स एवाहं राजा । उट्टवणिका यथा - SIS II | SSS SSS || 5 || || || || || |555 यथा वा - मलयपवनहृतकुसुमपरागः, परभृतनिभृतरणितवनभागः । चिरतरसंचितमानदुरन्तः, कस्य न मुदमुपनयति वसन्तः ॥' www.jainelibrary.org
SR No.001440
Book TitlePrakritpaingalam
Original Sutra AuthorN/A
AuthorBholashankar Vyas, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Text Society Ahmedabad
Publication Year2007
Total Pages690
LanguagePrakrit, Sanskrit, Hindi, Apbhramsa
ClassificationBook_Devnagari & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy