SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ २१२] प्राकृतपैंगलम् वा विप्रगणश्चतुर्लध्वात्मको गणः । तत्काव्यं छन्दः । एतल्लक्षणं बुध्यस्व । यदा काव्याभिधेयमेव छन्दः क्रियते तदैव जगणस्तुतीयो भवति । लघूल्लालेन समं क्रियते तदा न नियमः । तत्र एकादशसु विश्राम इत्याशयः । दोहा छन्दः ॥ ११० अथानन्तरं लघुद्वयासेनैकैकगुरुवृद्ध्या काव्यस्य पञ्चचत्वारिंशद्भेदान् दर्शयिष्यन् सर्वलघुकं शक्रनामकं वृत्तमाह चतुरधिकाश्चत्वारिंशद्गुरव एकैकगुरुवृद्धिक्रमेण दातव्याः । यद्गुरुहीनं सर्वलघुकं तच्छकनामकं छन्दः । ततो लघुद्वयासेन एकैकगुरुवृद्ध्या नामग्रहणं कुरुत । दोहा छन्दः । १११ शकमुदाहरति-जहा (यथा) कश्चिद्भक्तः शिवं प्रार्थयते-यस्य तव करे फणिपतेः शेषस्य वलय: कंकणं विलसति । तनुमध्ये वरतरुणी पार्वती विलसति । नयने अलिकस्थतार्तीयलोचनेऽनलो ज्वलति । गले च गरलं विलसति । विमल: शसी निष्कलङ्कश्चन्द्रो यस्य तव शीर्षे निवसति सुरसरिन्मन्दाकिनी शिरसि वसति । एवंविध, हे सकलजनदुरितदलनकर, शशिधर, हे हर, मम दुरितं हर । अथ च अतुलमभयवरं हसित्वा वितर । येनाहं कृतकृत्यो भवेयमिति भावः । अत्र प्रतिचरणं चतुर्विंशतिः कलाः संभूय षण्णवत्यो मात्राः ९६ ज्ञातव्याः । विरतिरेकादशे त्रयोदशे च । लघुकं शक्रनामकं छन्दः ।। ११२ पुनः सौकर्यार्थं सावधिकं भेदमाह यथा यथा वलयो गुरुर्वर्धते तथा तथा नामानि भेदान् कुरु । शंभुमारभ्य गणभृङ्गमवधीकृत्य गणय । चतुश्चत्वारिंशन्नामानि जानीहि । दोहा छन्दः ॥ ११३, ११४ नामान्येवाह-जहा (यथा)यानि गुरुवृद्ध्या नामानि तानि । कथ्यन्ते इति शेषः । यथा० गुरु ९६ लघु शकः । ९४ लघु शंभु । ९२ लघु सूर्यः । ९० लघु गण्डः । ८८ लघु स्कन्धः । ८६ लघु विजयः । ८४ लघु दर्पः । ८२ लघु तालाङ्कः । ८० लघु समरः । ७८ लघु सिंहः । १० गुरु ७६ लघु शेषः । ११ गुरु ७४ लघु उत्तेजाः । ७२ लघु प्रतिपक्षः । ७० लघु परिधर्मः । ६८ लघु मरालः । ६६ लघु मृगेन्द्रः । ६४ लघु दण्डः । ६२ लघु मर्कटः । ६० लघु मदनः । महाराष्ट्र: । वसन्तः । २१ गुरु ५४ लघु कण्ठः । २२ गुरु ५२ लघु मयूरः । arm3w, vo ५८ लघु ५६ लघु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001440
Book TitlePrakritpaingalam
Original Sutra AuthorN/A
AuthorBholashankar Vyas, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Text Society Ahmedabad
Publication Year2007
Total Pages690
LanguagePrakrit, Sanskrit, Hindi, Apbhramsa
ClassificationBook_Devnagari & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy