________________
परिशिष्ट (२)
[२११
१०४ घत्तानन्दमुदाहरति-जहा (यथा)
यो वन्दितः शीर्षो गङ्गया । येन हतोऽनङ्गः । यश्चार्धा) परिकरं कलत्रं धृतवान् । अत एव युवतिजनचित्तहरः । स शिवो जयतीति भावः । कीदृशः । दुरितशङ्काहरः । स्मरणमात्र इति भावः । पुनश्च यः शीर्षस्थितयापि गङ्गया वन्दित इत्युत्कर्षः सूचितः । पुनर्येन अनङ्गः कंदर्पो हतः । यस्त्वधिक्षिप्य हन्यते स पूर्वं लक्षया ताड्यत इति भावः । पुनः पश्चादर्घाङ्गे परिकरधरः पार्वती धृतवान् उट्टवणिका यथा-551, 5, , , 551, I, II, 5ss, us, ॥ I, II, 551, II, II, घत्ता णिव्वुत्ता ॥
१०५ अथ छप्पअ-(अथ षट्पदच्छन्दः)
इतश्च षट्पदप्रकरणमारभ्यते-षट्पदं छन्दो विदग्धाः शृणुत । अक्षरसंयुक्तम् । एकादशकलासु तस्य विरतिः । तदनन्तरं त्रयोदशसु कलासु विश्रामो निर्धमम् । द्वे मात्रे धृत्वा प्रथमं ततः पुनश्चतुश्चतुष्कलाः क्रियन्ते । मध्यस्थित एको गणः । एवं चतुष्कलाः पञ्च । हेट्ठ चरणान्ते सर्वत्र लघुद्वयं दीयते । पश्चादुल्लालचरणयोर्वाभ्यां पञ्चदशभ्यां विरतिः । अष्टाविंशतिमात्रिकौ च चरणौ भवतस्तौ। अत्र सर्वत्रानुक्तस्थले उर्वरितकलासु विश्रामसंख्या ज्ञेयेति । एवं जानीत । गुणयन्तु षट्पदपदे मदुक्तलक्षणादन्यथात्र न किमपि भवति । अयमर्थः-पूर्व मात्राद्वयम् । ततश्चतुष्कलाः पञ्च । अधस्तु मात्राद्वयम् । एवं पदचतुष्टयं विधेयम् । अनन्तरमुल्लालछन्दसि पञ्चदशसु मात्रासु त्रयोदशसु विश्रामः तादृशं पदद्वयमष्टाविंशतिकलात्मकम् । एवं काव्यं पदचतुष्टयेन उल्लालपदद्वयेन द्वाभ्यां छन्दोभ्यां षट्पदं भवति । इदमप्युदाहरणम् ।।
१०६ षट्पदमुदाहरति-जहा (यथा)
कश्चित्कविर्वीरहम्मीरसुभटस्य जज्जलाख्यस्य सोत्साहं प्रतिज्ञामुपवर्णयति-यथा मया परिधृतो दृढः संनाहः । तुरगोपरि संनाहं दत्त्वा, बन्धून् संभावयित्वा, एषोऽहं रणेऽवतीर्णः, साहिहम्मीरवचनं गृहीत्वा, उडुपेऽन्तरिक्षे नभ:पथे भ्रमामि । खड्गेनानेन रिपुशीर्षाणि प्रति क्षयामि । संनाहेनैव संनाहमपहस्तयित्वा पर्वतानप्यास्फालयामि । हम्मीरकृते जज्जलो राजपुत्र एवं वदति । कोपानलमध्येऽहं ज्वलामि । सुलतानः सुरत्राणोऽल्लावदीनः (जल्लालदीन्द्रः) तच्छीर्षे करवालं दत्त्वा त्यक्त्वा च कलेवरं दिवं चलामीति प्रतिज्ञा करोमीति जज्जलस्य वचनम् । उट्टवणिका यथा-II 1, 55, ISI, SI, II, II, II, II, II, 55, III I, II, II I, III, 151, 15, 15, ॥, Is, ॥s, ISI, 50, 55, 0, 55, ISI, 55, III, 55, | I, II, I, II, ISI, IIS, II, 51, 551,
१०७ एतस्यैव प्रकारान्तरेण लक्षणमाह
पदे पदे प्रतिचरणाधस्तान्निबद्धमात्राश्चतुर्विंशतिः क्रियन्ते । अक्षराडम्बरः सदृश एव भवति । इत्यमुना प्रकारेण कृतं छन्दः शुद्धं भण्यते । तत्र गणनियममाह-आदौ षट्कलो गणो भवति । ततश्चत्वारश्चतुष्कला निरुक्ताः । द्विकलं चान्ते स्थापयन्तु । शेषकविना तद्वस्त्विति नामान्तरं निरुक्तम् । मात्रासंख्यामाह-संभूय द्विपञ्चाशदधिकं मात्राशतकं १५२ जानीत । उल्लालेन सहैव गणयन्तु । एतेन काव्यस्य षण्णवत्या ९६ उल्लालस्य षट्पञ्चाशता ५६ संभूय द्विपञ्चाशदधिकं शतमित्यर्थः । भोः शिष्याः, किमिति ग्रन्थग्रन्थनं कृत्वा म्रियध्वमिति । भूषणेऽपि-'षट्कलयादौ तदनु चतुस्तुरगं परिसंतनु, शेषे द्विकलं कलय चतुष्पदमेवं संचिनु, छन्दः षट्पदनाम भवति फणिनायकगीतम्, रुद्रे विरतिमुपैति तु पतिसुखकरमुपनीतम् । उल्लालयुगलमत्र च भवेदष्टाविंशतिकलमिदम्, शृणु पञ्चदशे विरतिस्थितं पठनादपि गुणगणहितम् ।' इदमप्युदाहरणम् ॥
१०८ वस्तुनामकं षट्पदमुदाहरति-जहा (यथा)
यथा शारदः शशिबिम्बः, यथा हरहारहंसस्थितिः, यथा फुल्लं सितकमलम्, यथा खण्डीकृतः श्रीखण्डः, यथा [गङ्गा] कल्लोलः, यथोज्ज्वलीकृतं रौप्यम्, यथा दुग्धवरे मुग्धफेनः । 'फफाइ' इत्यनुकरणम् । ऊर्ध्वं गत्वा स्फुरति । प्रियात्प्राप्य प्रसाददृष्टिं पुन: स्मित्वा हसति यथा तरुणीजनः । तथा हे चण्डेश्वर, राज्ञो वरमन्त्रिन्, तव कीतिः स्फुरति । इति तथ्यं पश्य । हरिब्रह्मनामको कविर्भणति । क्वचित् 'पुणु विहसि' इति स्थले 'पिलु णिहुइ' इति पाठः, तत्र दृष्टि पातयित्वा अर्थात्प्रिये निभृतं यथा स्यात्तथा हसतीति । उट्टवणिका यथा-15III, IIS, Is, ||S, II, II, ISSI, III I, IIs, us, ISI, II, IS51, 5s, ||s, 55, 5, II, I551, IS, I51, 55, ॥s, ||s, II, IIs, ss, III, III I, II, III, Is, Is, ||s, IS, I51, |S, II, षट्पदच्छन्दः खलु छन्दोद्वयेन भवति । काव्यपदचतुष्टयेनोल्लालपदद्वयेनेति ।।
१०९ काव्यमात्रालक्षणमाह- . आदावन्ते च यत्र षट्कलगणो गणद्वयस्थाने । मध्ये यत्र तुरंगमाश्चतुष्कलास्त्रयो गणाः, तत्र तृतीयो जगणो भवति । किं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org