________________
२१०]
प्राकृतपैंगलम् एवं कर्णे चलति दिक्चकं चलति । तथा त्रिभुवनं चलति । इततस्तो भ्रमतीत्यर्थः । उट्टवणिका यथा-51, 55, 5॥ml, s, SI, 55, ।। ।।, , 5, 11, 5s, I, II, Is, 51, 05; SIII, , Is, गन्धाणा निवृत्ता ।
९७ अथ चउपइआ छंदा-अथ चतुष्पदीछन्द:
चतुष्पदीछन्दो भणति फणीन्द्रः । चतुर्मात्रकान्सप्त गणान्पादे सगुरून्कृत्वा त्रिंशन्मात्रा धृत्वा चतुःशतमशीतिश्च निरुक्ता । चतुर्दा छन्दःसु योजनीयमेकं न करणीयम् । को जानात्येनं भेदम् । कविः पिङ्गलो भाषते । मृगनयनेऽमृतमेतत् । अयमर्थ:-चतुष्पदीछन्दः एतत्पदचतुष्टययुक्तमेकं चरणम्, एतादृशपदचतुष्टयं तादृशं छन्द इत्यभिप्रायः । तत्र चतुर्मात्रिका: सप्तगणा भवन्ति, पादान्ते' च सर्वत्र गुरु: कर्तव्यः । एवं च त्रिंशन्मात्राः पादे भवन्तीति फलितोऽर्थः । एवं च सति विंशत्यधिक मात्राशतकं चरणचतुष्टयेऽपि भवति । तत्सर्वमेवैकमेव चरणं तदभिप्रायेणात्र मात्राणां चतुःशती साशीतिनिरुक्ता, तदेकलं न कर्तव्यं चतुश्छन्दोयुक्तमेव कर्त्तव्यमिति । वाणीभूषणे तु विंशत्युत्तरं शतमात्रात्मकमेवोक्तम्-'चौपइयावृत्तं त्रिशन्मानं फणिपति पिङ्गलगीतं, कुरु सप्ततुरंगममतिहृदयङ्गममन्ते गुरुमुपनीतम् । यदि दशवसुरविमिश्छन्दोविद्भिः क्रियते यतिरभिरामं, सपदि श्रवसमये नृपतिः कवये वितरति संसदि कामम् ॥' इदमप्युदाहरणम् ।
९८ ग्रन्थगौरवभयाच्चतुष्पदिकायाः पादमेकमुदाहरति-जहा (यथा)
स इति प्रसिद्धो भवानीकान्तो युष्मभ्यं संपदं ददातु । बहुसुखं च करोतु । स कः । यस्य शीर्षे गङ्गा स्फुरति । यस्यार्धाङ्गे गौरी वसति । येन ग्रीवायां परिधृतः फणिहारः । यश्च कण्ठस्थितविषः । यस्य पिधानं वासो दिक् । दिगम्बर इत्यर्थः । संतारितस्तारकोपदेशात् संसारो येन तथाभूतः । यश्च किरणावलीनां दीप्तिकदम्बानां कन्द उत्पत्तिस्थानम् । 'यद्भासा सर्वमिदं भासते' इति श्रुतेः । नन्दित आनन्दितो हर्षयुक्तश्चन्द्रो यस्मिन् । यस्य नयने भालस्थतार्तीयलोचने अनलो ज्वलनः स्फुरन् । अस्ति इति शेषः । उट्टवणिका यथा-15, , 55, ॥s, , ।, ॥5, 5, 55, Is, 55, 05, 55, 51, 55, 5, 15, 15, 55, 05, 5॥, ॥ I, s, s, ss, IIS, , ॥s, s, Is, 55, 5, चौपइया निवृत्ता ।
९९ पिङ्गलकविना द्वाषष्टिमात्राकया कृत्वा अत्युत्कटं घत्तानामकं छन्दो दृष्टम् । अत्र चतुर्मात्रिकान् सप्तगणान् द्वयोरपि पादयोस्त्रीस्त्रील्लघूनन्ते धृत्वा भण । अयमर्थः-घत्ता द्विपदी तत्र चतुष्कलाः सप्तगणास्त्रिलघ्वन्ताः । द्वयोरपि चरणयोः समुदिता मात्राश्चतुःषष्टिः कर्तव्या इति । भूषणेऽपि 'इह चतुष्कलगणनिर्मितपदं त्रिलघुविरामं भवति यदि । नागाधिपपिङ्गलभणितसुमङ्गलघत्तावृत्तमिदं द्विपदि ॥' इदमप्युदाहरणम् ॥
१०० एतस्यैव सविश्रामं लक्षणान्तरमाह
प्रथमे चरणे प्रथमं दशसु मात्रासु विश्रामः । द्वितीयस्थले अष्टसु । तृतीयस्थले त्रयोदशसु मात्रासु विरतिः । इत्येकत्रिंशत्कलात्मकः प्रथमश्चरणः । एवं द्वितीयोऽपि । संभूय द्वाषष्टिः कला इत्यर्थः । गाहू छन्दः ।।
१०१ घत्तामुदाहरति-जहा. (यथा)
रणदक्षः संग्रामकुशलः, दक्षस्य हन्ता, जितकुसुमधन्वा जितकंदर्पः । अन्धकस्यासुरस्य गन्धस्यापि विनाशकरः । गौरीनारीमर्घाने धारयति यः । तादृशोऽसुरभयंकरः स शंभुर्युष्मानक्षतु । उट्टवणिका यथा-15, ISI, ||s, MI, IIs, us, us, m, 55, IIS, I, II, IIS, I51, 55, III, घत्ता निवृत्ता ॥
१०२ अथ त्रिभेदेन घत्तानन्दमाह
ततश्छन्दो घत्तानाम । सच्छन्दःसु कुलेन सारं जातिश्रेष्ठम् । मात्रात्मकमित्यर्थः । 'जातिर्मात्राकृता भवेत्' इत्युक्तत्वात् । तत्किम् । यत्र प्रथममेकादशसु मात्रासु विश्रामः । पुनरपि सप्तसु । ततस्त्रयोदशसु मात्रासु विश्रामो भवति । तत्कीर्त्या अपार:, अपारकीर्तिर्वा, नागराजः पिङ्गलो घत्तानन्दनाम कथयतीति योजना । वाणीभूषणेऽपि–'एकादशविश्रामि तुरगविश्रामि यदि घत्तावृत्तं भवति । छन्दो घत्तानन्दमिदमानन्दकारि नागपतिरिति वदति ॥' इदमप्युदाहरणम् ॥
१०३ अत्रैव गणनियममाह
आदौ षट्कलं गणं स्थापयतु । ततस्त्रींश्चतुष्कलान्दत्थ । तदनन्तरं पञ्चकलं चतुष्कलयुगलं च गणं दत्वा घत्तानन्दं छन्दो जानीत । दोहा छन्दः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org