________________
परिशिष्ट (२)
[२०९
७८ लघु
EEEEEEEEEE
१२ लघु
९१ अथ रोलाछन्दः
पिङ्गलो ब्राह्मणोऽभवद्यः शेषनागस्तेन रोलाख्यं छन्दो विवृतम् । अत्र रोलाच्छन्दसि एकादश हारा गुरवो योज्यन्ते । एकैकगुरुहासेनान्योऽन्यो लघुर्वर्धते । अत्र च यथाकथंचित्प्रतिचरणं चतुर्विंशतिः कलाः कर्तव्या इति । वाणीभूषणेऽपि–'रोलावृत्तमवेहि नागपतिपिङ्गलभणितं, प्रतिपदमिह चतुरधिककलाविंशतिपरिगणितम् । एकादशमधिविरतिरखिलजनचित्ताहरणं सुललितपदमदकारि विमलकविकण्ठाभरणम् ॥' इति । इदमप्युदाहरणम् ।।
९२ रोलामुदाहति-जहा (यथा)
कश्चित्कविर्वीरहम्मीरप्रयाणमनुवर्णयति-पदभरेण मर्दिता धरणिस्तरणिः सूर्यः स्थितस्तदा धूल्या समाच्छादितः । 'तरणिरथः' इति वा । कमठपृष्ठमध: पतितम् । अतिभारादादिकूर्मोऽप्यधस्ताद् गत इति भावः । मेरुमन्दरयोरपि शिर: कम्पितम् यदा कोपेन चलितो हम्मीरवीरो गजयूथसुयुक्तस्तदा कृतो हाकष्टाकन्दः, मूच्छितं च म्लेच्छानामपि पुत्रैरिति ।
९३ यथास्यैकैकगुरुह्रासेन लघुद्वयवृद्ध्या त्रयोदशभेदास्तानुद्दिशतियथा१३ गुरु ७० लघु
९६ मात्रा
कुन्दः । ७२ लघु ९६ मात्रा
करतलः । ७४ लघु ९६ मात्रा
मेघः । ७६ लघु ९६ मात्रा
तालाङ्कः । ९६ मात्रा
कालरुद्रः । ९६ मात्रा
कोकिलः । ९६ मात्रा
कमलम् । ९६ मात्रा ८६ लघु ९६ मात्रा
शंभुः । ८८ लघु ९६ मात्रा
चामरः । ९० लघु ९६ मात्रा
गजेश्वरः । २ गुरु ९२ लघु
९६ मात्रा
सहस्राक्षः । १ गुरु ९४ लघु
९६ मात्रा
शेषः । इति त्रयोदश भेदान् भणति नागराजः । फणीश्वरो जल्पति । त्रयोदशगुरुसंख्यामानय । एकादश गुरून्दत्थ । द्वौ द्वौ लघू प्रतिचरणाभिप्रायेणापीति भावः । अथवा त्रयोदशाक्षरेषु गुरुषु अक्षरमक्षरमेकैको गुरुर्यदि पतति लघुद्वयं च वर्धते तदा तत्तन्नाम जानीत । एतेषामुदाहरणानि द्रष्टव्यानि । रड्डा छन्दः ॥
९४ अथ गन्धा छन्दः
भोः सुजनाः, सप्तदशवर्णान् प्रथमचरणे भणत । तथा द्वितीयचरणेऽष्टादशभिर्वणैरुपलक्षिता यमकयुगचरणा । यमकद्वययुक्तचरणेत्यर्थः । एतादृशमेव द्वितीयदलं कुरुतेति भणति पिङ्गलः । गन्धाना नाम रूपकं पण्डितजनचित्तहरं भवति । अत्र यमकत्वाद्रलयोरैक्यमिति । वाणीभूषणेऽप्युक्तम्, 'दशसप्तवर्णमिह रचय प्रथम चरणं' द्वितीयमष्टादशकलितमिति हृदयहरणम् । ईदशमुत्तर दलमपि हृदयसंधानकं, नागपतिपिङ्गलभणितमिति शृणु गन्धानकम् ॥' इदमप्युदाहरणम् ।।
९५ पुनरपि शिष्यबोधनाय गन्धानकमेव स्पष्टीकृत्याह
गन्धानाख्ये छन्दसि सप्तदशाक्षराणि स्थापयत प्रथमचरणे द्वितीयचरणे पुनर्यमकं दत्वाष्टादशाक्षराण्येव विजानीत । दोहा छन्दः ।।
९६ गन्धाणामुदाहरति
कश्चित्कविः कर्णनरपतिं स्तौति-कर्णे राजनि सङ्ग्रामार्थं चलति सति कूर्मः पुनरशरणः संश्चलति स्थानभ्रष्टो भवति । तस्मिश्चलति भुवनभयंकरा मही चलति । मह्यां चलन्त्यां महीधरा मेर्वादयश्चलन्ति । तथा च सति तदाश्रिताः सुरजना: देवसंघाश्चलन्ति ।
८४ लघु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.