________________
२०८]
प्राकृतपैंगलम् ८२ अथ भ्रमरं प्रथममुदाहरति-जहा (यथा)८३ अथ लघुसंख्याभेदेन द्विपथाया वर्णभेदमाह
चतुर्लघुमारभ्य द्वादशलघुपर्यन्ता द्विपथा विप्रा ब्राह्मणी भवति । तथा त्रयोदशलघुकमारभ्य द्वात्रिंशत्या लघुकैः क्षत्रिया भणिता। त्रयोविंशतिलघुकमारभ्य द्वात्रिंशत्या लघुकैर्वैश्या भवति । या इतरा सा सर्वा शूद्रा भवति । गाथा छन्दः ॥
८४ विषमचरणस्थजगणाय दोषमाह
यस्या दोहायाः प्रथमे तृतीये च पादे ण ननु जगणा दृश्यन्ते सा दोहा चाण्डालगृहस्थितेव दोषं प्रकाशयति । यद्वा प्राकृते पूर्वनिपातानियमाद्गृहस्थितचाण्डालेव दोषावहा भवति । गाथा छन्दः ॥
८५ दोहायां गणनियममाह
षट्कलश्चतुष्कलस्त्रिकलश्चानया रीत्या त्रयोऽमी गणा विषमे तृतीये च चरणे पतन्ति । समे पादे तृतीये चतुर्थे च चरणे षट्कलचतुष्कलस्थापनानन्तरमेकामेव कलां निवृत्तां कुर्वित्यर्थः । वाणीभूषणेऽपि
'षट्कलातुरगौ त्रिकलमपि विषमपदे विनिधेहि । समपादान्ते चैककलमिति दोहामवधेहि ॥' दोहा णिव्वुत्ता (दोहा निवृत्ता) । ८६ अह रसिआ (अथ रसिका छन्दः)
प्रथमं द्विजवरगणयोश्चतुर्थलघुकगणयोर्युगलं धारय । पुनरपि च त्रिलघुको गणः पतति । अनेन विधिना बिम्बितानि षट्पदानि यत्र तत्र छन्दः शोभते । यथा सुशशी रजन्यां तथा रसिअउ रसिकानां मध्य एतदेकादशकलं छन्दः । हे मृगनयने हे गजगमने शोभते इति । भूषणे तु-ललितमिति नामान्तरम् । यथा-द्विजवरयुगलमिह रचय, त्रिलघुकगणमिह कलय, सुललित कलितरसपदि, सरसिजमुखि भवति यदि, जगति विदितललितमिति, वरफणिपतिरिति वदति ॥' इदमप्युदाहरणम् ॥
८७ रसिकामुदाहरति-जहा (यथा)
कश्चित्कस्याचिदग्रेऽचलनरपतेः समराङ्गणादपमानमनुवर्णयंस्तत्कटकक्षोभमुपवर्णयति-विमुखं पराङ्मुखं चलितो रणादचलाख्योऽपि परिहत्य हयगजबलं तदानीमेव मलयनरपतिरपि हलहलित आकस्मिकसंजातसाध्वसोऽभूत् । यस्य यशस्त्रिभुवनं पिबति । व्याप्नोतीत्यर्थः । अथ च वाराणसीनरपतिरपि लुलितः पराङ्मुखो बभूव । सकलस्य लोकस्योपरि यस्य यशः पुष्पितम् । विकसितमित्यर्थः उट्टवणिका स्पष्टा ।
८८ अर्थतस्य छन्दस उक्वच्छेति नामान्तरमाह
सर्वलघुकं रसिकाछन्दः आदिकाव्यमर्थात्प्रथमं भेदं कृत्वा 'उक्कच्छा' इति णाम किउ कृतम् । छन्दोविद्भिरिति शेषः । कीदृशम् । लोहंगिण्यामेतस्यैवापरभेदे छन्दसि सारभूतम् । उत्कृष्टमित्यर्थः । अत्र च यदा गुरुर्वर्धते द्वौ लघू हसतस्तदा तत्तन्नाम विचारय । दोहा छन्दः ।
८९ लघुद्वयह्रासेनैकगुरुवृद्ध्योक्कच्छाया अष्टौ भेदास्तानुद्दिशति
लोहंगिणी, हंसी, रेखा, तालङ्किणी, कम्पिणी, गम्भीरा, काली, कालरुद्राणी, इत्यष्टावुक्कच्छाया नामानि । भेदा इत्यर्थः । गाहा छन्दः ॥ - ९० अथाष्टभेदानयनप्रकारमाह
लोहंगिणी सर्वलघुका । यत्रैको गुरुर्भवति सा हंसी। एवं लघुद्वयह्रासेनैकैकगुरुवृद्ध्या यन्नाम यत्र तन्नाम तत्र । अत्र सर्वत्र षट्षष्टिमात्राः । ते यथा-६६ मात्रा सर्वलघुका लोहंगिणी । ६४ लघु १ गुरु
६६ मात्रा
हंसी। ६२ लघु २ गुरु
६६ मात्रा
रेखा । ६० लघु ३ गुरु
६६ मात्रा
तालङ्किणी । ५८ लघु ४ गुरु
६६ मात्रा
कम्पिणी । ५६ लघु
६६ मात्रा
गम्भीरा । ५४ लघु ६ गुरु
६६ मात्रा
काली। ५२ लघु ७ गुरु
६६ मात्रा
कलरुद्राणी। एतेऽष्टावुक्कच्छाया भेदाः । गाहा छन्दः ॥
Focus
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org