________________
परिशिष्ट (२)
[२०५ सुखग्राह्या भवति । नायकहीना रण्डा भवति । बहुनायका गाथा वेश्या भवति । द्वितीयार्थः स्पष्टः । गाथा छन्दः ॥
६४ अथ लघुसंख्याभेदेन गाथाया वर्णभेदमाह
त्रयोदशवर्णा लघुका यस्यां सा तदवधिका विप्रा । ब्राह्मणी भवतीत्यर्थः । एकविंशतिभिर्लघुकैः क्षत्रिया भणिता । सप्तविंशतिभिलघुकैर्गाथा वैश्या भवति । शेषा तु ऊनत्रिंशदारभ्य शेषैर्लघुकैः शूद्रा भवति । गाथा छन्दः ।
६५ विषमस्थानदत्तजगणाया गाथाया दोषमाह
या गाथा प्रथमतृतीयपञ्चमसप्तमस्थाने ननु गुरुमध्या जगणयुक्ता भवति गुर्विणीव गुणरहिता सकलकार्यक्षमा सा गाथा दोषं प्रकाशयति । अतो विषमस्थानस्थनायका सा न कर्त्तव्येत्यर्थः । गाथा छन्दः । गाथा निवृत्ता ।
६६ विग्गाहा छन्दः
विगाथायाः पूर्वार्धे सप्तविंशतिर्मात्रा भवन्ति । चरमदले उत्तरार्धे ननु त्रिंशन्मात्रा भवन्तीति जल्पितं पिङ्गलेन नागेन । गाथादलवैपरीत्येन विगाथा भवतीत्यर्थः । इदमप्युदाहरणम् । भूषणे तु-'गाथा द्वितीयतुर्यों पादौ भवतस्तु विपरीतौ । सेयं भवति विगाथा फणिनायकपिङ्गलेन संप्रोक्ता ॥' इति ।
६७ विगाथामुदाहरति जहा
मानवती नायिका प्रति धृष्टस्य नायकस्य वचनम् । यथा हे मानिनि, मानं परिहर त्यज । प्रेक्षस्व नीपस्य कदम्बस्य कुसुमानि। . युष्मत्कृते खरहृदयोऽत्यन्तं कठोराशयः कामोऽस्मिन्वर्षासमये शेषपुष्पाणामभावात् किल गुटिकाधनुर्गृह्णाति । अतस्त्यजनं मानमिति भावः । अथ वा तादृशीं कान्तकृतानुनयमगृह्णती नायिका प्रति दूत्युक्तिः ॥ उट्टवणिका यथा- 1, 5, 55, SI, IIS, I, 55, 5I, SI, SI, SI, us, I, , II, IIs, 5, विगाहा निवृत्ता ॥
६८ अथोद्गाथा छन्दः
पूर्वार्धे उत्तरार्धे च यत्र मात्रास्त्रिंशत्सम्यग्भणिता । सुभगेति मात्राविशेषणम् । सा पिंगलकविदृष्टा षष्टिमात्राङ्गा कलाषष्टिशरीरा उद्गाथा वृत्ता । अत्र सर्वत्रावहट्टभाषायां लिङ्गव्यत्ययः प्रातिपदिकनिर्देशो वा न दोषाधायक इति गुरवः । इदमप्युदाहरणम् । इयमेव ग्रन्थान्तरे आर्यागीतिरित्युच्यते । भूषणे तु-'गाथा द्वितीयतुर्यावष्टादशमात्रको भवतः । मात्राषष्टिशरीरा प्रोक्ता सा गीतिरिह हि फणिपतिना ।।
६९ उद्गाथामुदाहरति-जहा
चेदिपतावनुरक्ता काचिद्दर्शनोत्कलिकाकुला कुलवधूका निजसखीमाह-यन्नामश्रवणेनापि सात्विकभावाविर्भावादश्रुपातस्तद्वदनदर्शनमतिदूरापास्तमित्युत्कलिकाकुलाहं वीरस्य चेदिपतेः कथं मुखं प्रेक्षिष्यामीति सामुक्त्वावाचः (?) । उट्टवणिका यथा-ऽऽ, ISI, 55, 55, Is, , 55, SI, , II, s, ss, us, I51, 55, 5, उद्गाथा निवृत्ता ॥
७० अथ गाहिनीसिंहिन्यौ
यत्र पूर्वार्धे प्रथमदले त्रिंशन्मात्रा भवन्ति उत्तरार्धे चरमदले द्वात्रिंशन्मात्राः संभूय द्वाषष्टिर्यत्र भवन्ति, पिङ्गलः प्रभणति मुग्धे शृणु सा गाहिनी छन्दः । तद्विपरीतां सिहिनी सत्यं भण । कथयेत्यर्थः । अत्र पूर्वार्धे द्वात्रिंशन्मात्रा उत्तरार्धे च त्रिंशन्मात्रा इति विपर्ययार्थः । वाणीभूषणेऽपि-'यदि गाथातुर्यपदं विंशतिमात्रं च गाथिनी भवति । फणिपतिपिङ्गलभणितं तद्विपरीतं तु सिंहिनीवृत्तं स्यात् ॥' इदमप्युदाहरणम् ।
७१ गाथिनीमुदाहरति-जहा
संग्रामयात्रायां चरणपतितां पत्नी प्रति हम्मीरवचनम्-मुञ्च सुन्दरि पादम् । विघ्नं मा कुर्वित्यर्थः । हे सुमुखि, अर्पय हसित्वा मम खड्गम् । खड्गग्रहणानन्तरं प्रतिजानीते-कल्पयित्वा छेदयित्वा म्लेच्छशरीरं प्रेक्षते वदनानि युष्माकं ध्रुवं हम्मीरः । अनिकृत्तम्लेच्छशरीरो भवन्मुखं नावलोकयितुं सहिष्य इति भावः ॥
७२ सिंहिनीमुदाहरति-जहा
कश्चित्कविविक्रमादित्यं स्तौति । अयमर्थ :-अयं कनकस्य वृष्टिं वर्षति, इन्द्रस्तावज्जलवृष्टिः वर्षति । असौ भवनानि तपति सूर्यबिम्बं भुवनं तपति । इन्द्रः सूर्यो वा दिवसे जागति, अयं तु दिवानिशं जाग्रदेवावतिष्ठत इत्यर्थः । उट्टवणिका.उभयोर्यथा-1, SI, 55, 5॥ ॥, || 1, 55, SI, SI, 50, 5s, II, s, ISII, ss, S, I I, I 1, 55, I, IIS, II, 55,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org