________________
परिशिष्ट (२)
[२०३ यत्र च हस्ती अवरुध्यते बध्यते चित्तं च सूत्रसदृशम् । तां मात्रां मर्कटिकां दृष्ट्वा च को न बध्यते सुकविः ॥' को नासक्तो भवतीत्यर्थः । एतत्करणं कौतुकार्थमित्याह-नट्टेति । 'नष्टोद्दिष्टं यथा वा मेरुयुगलं यथा पताका वा । मर्कटिकापि तथैव कुतूहलकारिणी भणिता ।। उक्तमुपसंहरति-इऐति । इति लक्ष्मीनाथकविना रचिते रुचिरे प्रबन्धेऽस्मिन् । प्रत्ययपञ्चकबन्धं पश्यत छंदसः सर्वस्वम् ॥'
५० अथैकाक्षरादिषड्विंशत्यक्षरपर्यन्तं समस्तवर्णप्रस्तारपिण्डीभूतसंख्यामाह
'अङ्कानां वामतो गतिः' इति न्यायेन त्रयोदश कोटयः द्विचत्वारिंशल्लक्षाणिसप्तदशसहस्राणि सप्तशतानि षड्विंशतिश्च । संभूयैकाक्षरादिषड्विंशत्यक्षरावधिप्रस्तारस्य पिण्डसंख्येत्यर्थः । अङ्कतोऽपि १३४२१७७२६ । 'एकदशशतसहस्रायुतलक्षप्रयुतकोटयः क्रमशः | अर्बुदमब्जे खर्वनिखर्वमहापद्मशङ्कवतस्मात् ॥ जलधिश्चान्त्यं मध्यं परार्धमिती दशगुणोत्तराः संख्याः ।।' ' ५१ अथ 'पद्यं चतुष्पदी तच्च वृत्तं जातिरिति द्विधा । वृत्तमक्षरसंख्यातं जातिर्मात्राकृता भवेत् ॥ इति प्रथमं मात्राकृतां जातिमभिधास्यन् गाहूप्रभृतीनां जातीनां कलागणनामुद्देशकमेणाह
चतुष्पञ्चाशन्मात्रा गाहू भवति । गाथायाः सप्तपञ्चाशन्मात्रा भवन्ति । तथा विगाथा परावृत्त्य क्रियते । मात्राः परं सप्तपञ्चाशदेव । उद्गाथापि षष्टिकलाः । गाथिन्याश्च द्वाषष्टिकलाः । तथैव परावर्तते सिंहिणी । मात्रा द्वाषष्टिरेव । तानि सप्तरूपाणि अन्योन्यं चतुर्मात्रगणानि भवन्ति । स्कन्धके चतुःषष्टिर्मात्रा भवन्ति । अत्र सर्वत्र सार्धसप्तगणाः स्कन्धके त्वष्टौ गणाः । रड्डा छंदः ।।
५२ अथ गाहू छन्दः
परमध्ये दलद्वयमध्ये मेरुयुगलं भवति । दलद्वयेऽपि षष्ठो गण एकलघ्वात्मको भवतीत्यर्थः । मेरुरिति लघोर्नाम । एतादृशं गाहूछंदो भवति । इदमप्येतस्योदाहरणम् । तथा च वाणीभूषणे–'गाथोत्तरदलतुल्यं पूर्वदलं भवति यदि बाले । तामिह फणिपतिभणितामुपगीति वर्णयंति बुधाः ॥' उट्टवणिका यथा-5s, su, 55, SI, 55, I, 55, 5, II, ऽऽ, || I, ss, II, 55, I, 55, 5,
५३ गाहूमुदाहरति-जहा-(यथा)
चन्द्रश्चन्दनहार एते तावदेव रूपं स्वात्मनः श्वैत्याभिमानेन प्रकाशयन्ति चण्डेश्वरस्य राज्ञः कीर्तिर्यावदात्मानं न दर्शयति । ततोऽप्येतस्य कीतिरत्यन्तधवलेत्यर्थः । गाहू निवृत्ता ।
५४ अथ गाथा छन्दः
यस्याः प्रथम चरणे द्वादशमात्रास्तथा द्वितीयेऽष्टादशभिः संयुक्ता भवन्ति । यथा प्रथमं तथा तृतीयं द्वादशमात्रम् । या चतुर्थे चरणे पञ्चदशभिर्मात्राभिर्भूषिता भवति सा गाथेत्यर्थः । भूषणेऽपि-'आदितृतीये द्वादश दशाष्टमात्रा तृतीयचरणे च । तुर्ये पञ्चदश स्युर्गाथेयं पिङ्गलेनोक्ता ॥' प्राकृते गाथा संस्कृते आर्येति नामभेदः । इदमप्युदाहरणम् ।
५५ गाथामुदाहरति-जहा
कस्याश्चित्कलहान्तरितायाः सखीं प्रति वचनम् । येन विना न जीव्यते स कृतापराधोऽप्यनुनीयते । उक्तमर्थमर्थान्तरेण दृढीकर्तुमाह-प्राप्तेऽपि नगरदाहे भण कस्य न वल्लभोऽग्निः । अपि तु सर्वस्य । उट्टवणिका यथा-51, 51, sh, Is, I51, 55, 5I, ss, ।, 55, 5, 1, 55, 5.
५६ अथ गाथायां गणनियममाह
अत्र चतुष्कलाः सप्त गणा दीर्घान्ता गुर्वन्ता इत्यर्थः । अत्र गणो जगणो भवति नगणलघू वा भवत इति नियमः । इह विषमे स्थाने प्रथमतृतीयपञ्चमसप्तमस्थाने जगणो न भवति । तथा गाथाया द्वितीयेऽर्धेऽपि षष्ठं गणमेकलघ्वात्मकं विजानीत । भूषणेऽपि-'सप्ततुरगा: सदीर्घा: सदी? जगणो द्विजो()ऽथवा भवति । षष्ठं लघूत्तरदले विषमे जगणो न गाथायाः ॥' गाथा छन्दः ॥
५७ सर्वगाथासु सामान्यलक्षणमाहसर्वस्या गाथायाः सप्तपञ्चाशन्मात्रा भवन्ति । तत्र विवेक:-पूर्वार्धे त्रिंशत् सप्तविंशतिमात्राः परार्धे च । गाथा छन्दः । ५८ अथ गाथायाः सप्तविंशतिभेदेषु लक्ष्मीनाम्नीमाद्यां गाथामुपलक्षयति
यस्यां गाथायां सप्तविंशति गुरवः श्लाघ्यास्तिस्रश्च रेखास्त्रयो लघवः । पूर्वार्धे षष्ठजगणरेखाद्वयमुत्तरार्धे च षष्ठलघ्वात्मकरेखामानं मिलित्वा रेखात्रयं यस्यां सा ग्रन्थानां मध्ये आधा त्रिंशदक्षरा सप्तविंशतिगुरुकलघुत्रयवती लक्ष्मीनामधेया भवति । गाथा छन्दः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org