________________
२०२]
प्राकृतपैंगलम् देयमिति मात्रामर्कटीविरचनप्रकाशे लिख्यते-'या पिङ्गलेन कविना न निबद्धा आत्मनो ग्रन्थे । तां मात्रामर्कटिकां लक्ष्मीनाथेन विरचितां भणत ॥ तत्र तद्विरचनप्रकारे सार्धेन द्विपथ छन्दसा प्रथमपंक्तिसाधनोपायमाह-'मात्रासंख्यया कोष्ठं कुरु पंक्तिषट्कं प्रस्तारयित्वा । तत्र तत्र द्वादिकानान्धारय प्रथमपंक्तौ विचारयित्वा ।। आद्याक्षं परित्यज्य सर्वपंक्तिमध्ये । भो शिष्य, स्वाभिमतमात्रासंख्यया पंक्तिषट्कं यथा स्यात्तथा कोष्ठकं कुरु प्रथमपंक्तौ वृत्तपंक्तौ यावदित्थं क्रमेण व्यादिकानङ्कान्स्थापय । सर्वासां पंक्तीनां मध्ये प्रथमाएं परित्यज्य। अत्रैवं च प्रतिभाति सर्वकोष्ठेषु प्रथमाङ्कत्यागो न सर्वकोष्ठत्यागपर: किं तु षष्ठगुरुपंक्तिप्रथमकोष्ठत्यागपर इति तत्र गुरोरभावात् अतश्च संप्रदायात्पञ्चसु कोष्ठेसु प्रथमाङ्कविन्यासोऽवश्यं कर्तव्य एव । अन्यथा वक्ष्यमाणाङ्कविन्यासभङ्गापत्तेः । एवं कृते प्रथमा वृत्तपंक्तिः सिद्ध्यतीति । अथ द्वितीयां प्रभेदपंक्ति: साधयति चरमार्धेन-'पूर्वयुगलसदृशानान्धारय द्वितीयपंक्तौ विचारयित्वा।' एवमुक्तं भवति-एकद्वित्रिपञ्चाष्टादीश्रृङ्खलाबन्धन्यायेन क्रमतो धारय । एवं कृते द्वितीयप्रभेदपंक्तिः सिद्ध्यतीति । अथ तृतीयां मात्रापंक्ति: साधयति-पढमेति । प्रथमपंक्तिस्थितार्केद्वितीयां पंक्तिः गुणय यो योऽङ्को यत्र पतति तं तमेव तृतीयपंक्तौ भण । एवंकृते तृतीया मात्रापंक्ति सिद्ध्यतीति । द्विपथाछन्दांसि । अथ क्रमप्राप्तां चतुर्थी वर्णपंक्तिमुल्लङ्घय युगपदेव चतुर्थषष्ठपंक्त्योः साधनार्थं तन्मूलभूतां प्रथमं तावत्पंक्तिः साधयति-पढमेति । तत्र प्रथमे द्वितीयमङ्कं षट्ष्वपि पंक्तिषु प्रथमकोष्ठत्यागाद्वितीयकोष्ठमेवात्र प्रथम कोष्ठकम् । अतोऽस्मिन्नेव द्वितीयमद्धं तदपेक्षया द्वितीयकोष्ठके च पञ्चमाकं दत्त्वा ततो बाणद्विगुणं दश तद्विगुणं विंशतिश्चेत्येतौ द्वावङ्की तृतीयचतुर्थयोः कोष्ठयोर्दत्थ । विन्यसतेत्यर्थः । अथ तत्र पञ्चमकोष्ठपूरणप्रकारमाह-काऊणेति । पञ्चमकोष्ठे स्थितान्द्व्यादीनङ्कानेक-भावं कृत्वा एकीकृत्य तस्मिन्नेकीकृताङ्के एकमधिकं दत्त्वा ततश्च निष्पन्नेष्टत्रिंशता पूर्वापेक्षया पञ्चमं कोष्ठकं पूर्ण कुरु । अत्रत्यषष्ठकोष्ठपूरणप्रकारमाह-तज्जिअ इति । पूर्वास्मिन्व्यादिके पञ्चकोष्ठकस्थिताङ्के एकीकृते सत्येतस्मिन्पञ्चममकं त्यक्त्वा पुनस्तत्रैकमधिकं दत्त्वा पूर्वज्जातेनैकसप्तत्या षष्ठं कोष्ठं परिपूर्णं कुरु । अथ सप्तमकोष्ठकपूरणोपायमाह-काऊणेति । पञ्चपंक्तिस्थितानां व्यादीनामेकभावमैक्यं कृत्वा तेषु पञ्चमपंक्तिं त्यक्त्वा ततस्तेष्वपि चैकं हित्वा सप्तमकोष्ठं त्रिंशदुत्तरेण शताङ्केन पूर्ण कुरुष्वेति शेषः । अष्टमकोष्ठपूरणप्रकारमाहव्यादित्वात्सप्तमपंक्तिस्थितानङ्कानेकीकृत्य तेष्वेकचत्वारिंशदधिकं (शतं) परित्यज्य जातेन पञ्चत्रिंशदधिकेन शतद्वयेनाष्टमं कोष्ठं परिपूर्ण कुरु । नवमकोष्ठपूरणप्रकारमाह-व्यादिकानष्टपंक्तिस्थितानङ्कानेकीकृत्य तेषु नवत्यत दूरीकुरु । ततो निष्पन्ने विंशत्यधिकचतुःशतांकेन नवमकोष्ठपूरणं कुरु । दशमकोष्ठपूरणप्रकारमाह । व्यादिकान्नवपड्क्तिस्थितानङ्कानेकीकृत्य तेषु सप्ताशीत्युत्तरशतांकं दूरीकुरु । ततो निष्पन्नेन चतुश्चत्वारिंशदधिकसप्तशताङ्केन दशमं कोष्ठं पूरय । एवं कृते चतुर्थपक्तिगर्भा पञ्चमी लघुपक्ति सिद्ध्यतीति संक्षेपः । "एवं निरवधिमात्राप्रस्तारेऽङ्कपरम्परा । भवतीति तेन कविना न कृतोऽङ्कानां विस्तारः ॥' अथ षष्ठगुरुपङ्क्तिपूरणप्रकारमाह-तत्र गुरुस्थानीयं प्रथमं कोष्ठकं विहाय अग्रिमकोष्ठे प्रथममेकाएं दत्वा पञ्चमपङ्क्तिस्थितैद्वितीयादिभिरकैः षष्ठी पङ्क्तिः पूरय । एवं कृते षष्ठी गुरुपक्तिः सिद्ध्यतीति । अथोर्वरितचतुर्थपंक्तिपूरणप्रकारमाह-काऊणेति । पञ्चमषष्ठिपंक्तिस्थितान्द्वये कादीनङ्का-प्रतिकोष्ठमेकीकृत्य चतुर्थी पङ्क्ति पूरय । अत्र षष्ठपंक्तावादिकोष्ठेऽङ्काभावाच्चतुर्थपंक्तिप्रथमकोष्ठे प्रथमाङ्क एव दातव्यः । एवं कृते चतुर्थी वर्णपंक्तिः सिद्ध्यतीति । अत्र लघुगुरुपंक्तिपूरणप्रकारं सबीजं सुगुप्तं च हरिशंकरः पादाकुलकद्वयेनाह
"पहिलेपाँती लहुदुइ आणहु, सोई ले गुरु दुसरे जाणहु । गुरु दुण्णा सो मत्ता सेख, सो लहु दुसरें पिङ्गल लेख ।। इम परिपाटी लहुगुरु आणहु, गुरुलहु जोरि वण्ण पुण जाणहु ।
मत्ताभीतर गुरु हि मिटावहु, तेहु सों पुणि वण्णह जाणहु ॥" लघुपंक्तेः प्रथमकोष्ठे द्वितीयाङ्कमानय । अत्र प्रथमपदं द्वितीयकोष्ठमेव लक्षयति । षट्स्वपि पङ्क्तिषु प्रथमकोष्ठत्यागादेकाङ्के गणनाभावात्तु गुरुकोष्ठानुपयोगाच्च । तमेव द्वितीयाङ्कमादाय गुरुपक्तेद्वितीयकोष्ठे आनयत । तत्रापि द्वितीयपदं तृतीयकोष्ठपरं ज्ञातव्यम् । अत्र गुरोः प्रथमकोष्ठे प्रथमाङ्क एव देयः । द्वितीयाङ्कस्याग्रे संचारितत्वात् । प्रथमकोष्ठे एकगुरुत्वाच्च । अथ लघुपङ्क्तेद्वितीयकोष्ठे पूरणप्रकारमाह-गुरुदुण्णेति । गुरुकोष्ठस्थितानङ्कान्द्विगुणीकृत्य तत्समानमात्राकोष्ठस्थितेष्वङ्केषु .लोपय । तच्छेषांकं लघुद्वितीयकोष्ठेषु लिखेति पिङ्गलो भणितवान् । तद्यथा गुरुपङ्क्तेद्वितीयकोष्ठे द्वितीयाङ्कस्तद्विगुणश्चतुर्थाङ्कस्तं तत्समानमात्राकोष्ठस्थे नवमाङ्के लोपय । तच्छेषांका दश तान् लघुद्वितीयकोष्ठे लिख । एवमेकगुरुद्वितीयकोष्ठे पञ्चमांकस्तद्विगुणं दश तांस्तत्समानमात्राकोष्ठस्थे विंशतिरूपे लोपय । तच्छेषाङ्का दश तान् लघुतृतीयकोष्ठे लिख । अनया परिपाट्या यथेच्छं लघुपंक्तिकोष्टाङ्कानगुरुपङ्क्तिकोष्टाङ्कांश्चानय। एवं लघुपंक्ति च संपाद्योर्वरितां वर्णपंक्तिः साधयति-गुरुलघुपंक्तिस्थितानङ्कानेकीकृत्य तत्समानवर्णपंक्तिकोष्ठकेषु यावदिच्छं लिख। अथ वर्णपंक्तिसाधने प्रकारान्तरमाह-मत्त इति । मात्रापंक्तिस्थिताङ्केषु तत्समानगुरुपंक्तिस्थितानकाल्लोपय । तच्छेषाङ्करपि वर्णपंक्ति: सिद्ध्यतीति जानीहि । इति गुरुणा गोपितोऽपि मया शिष्यबोधाय विविच्य प्रकाशितः । एवं पंक्तिषट्कं संसाध्य मात्रामर्कटीफलमाह-वित्तमिति । 'वृत्तं भेदो मात्रा वर्णा लघुकास्तथा गुरुकाः । एते षट्पंक्तिकृताः प्रस्तारा भवन्ति विस्ताराः ॥' मात्रामर्कटीमाहात्म्यमाह-जत्थ इति ।
Jain Education International
For Private & Personal use only
www.jainelibrary.org