________________
परिशिष्ट (२)
[२०१ सर्वत्रैकैकाङ्कस्थले सर्वगुरुरिति शिवम् । वाणीभूषणेऽप्युक्तम्-'द्वयं द्वयं समं कोष्ठं कृत्वा तेष्वेकमर्पयेत् एवं व्येकत्र्येकचतुःक्रमेण प्रथमेष्वपि । शीर्षाङ्काप्तपराङ्काभ्यां शेषकोष्ठान्प्रपूरयेत् । मात्रामेरुरयं दुर्गः सर्वेषामतिदुर्गमः ॥' दोहापादाकुलकच्छन्दसी ॥
४८ अथ मात्रापताकामाह
उद्दिष्टसदृशा अङ्काः स्थाप्याः । ते यथा-एकद्वित्रिपञ्चाष्टत्रयोदशाद्याः । ततो वामावर्तेन सर्वान्तिममकं तत्पूर्वेणाङ्केन लोपयेदित्यर्थः । एकेनाङ्केनाग्रिमाङ्कलोपे कृते एकगुरुरूपमानय अन्तिमलोपे द्विगुरुरूपमानय त्रिभिरन्तिमांकलोपे द्विगुरुरूपमानयेत्यादि ज्ञेयम् । एतादृशीमेनां मात्रापताकां पिङ्गलः शेषनागो गायति । अथ च य एनां प्राप्नोति स परं जनं पताकां बोधयतीत्यर्थः । तत्र षट्कलप्रस्तारे यथा उद्दिष्टसदृशा अङ्का एकद्वित्रिपञ्चाष्टत्रयोदश स्थाप्या: ततः सर्वापेक्षया परस्त्रयोदशाङ्कस्तत्पूर्वाऽष्टमाङ्कस्तेनाष्टमाङ्केन त्रयोदशाङ्कावयवे लुप्तेऽवशिष्टाः पञ्च । तस्य पञ्चमाङ्कस्य तत्पूर्वत्र विद्यमानत्वादष्टमाङ्कलोपात्परकलया गुरुभावाच्च पञ्चमाङ्कापंक्तिक्रमो विधेय इति तथा च पञ्चमस्थाने ॥ एवमाकारं रूपमेकगुर्वस्तीति ज्ञानं पताकाफलम् । एवमन्यत्रापि गुरुभावो ज्ञातव्यः । तथा पञ्चभिस्त्रयोदशाङ्के लुप्तेऽष्टाववशिष्यन्ते ते तु पञ्चाधो लेख्याः । तथा त्रिभिस्त्रयोदशलोपे दशावशिष्यन्ते तेऽष्टाधो लेख्याः । तथा द्वाभ्यां त्रयोदशलोपे द्वाववशिष्यन्ते । द्वयोर्विद्यमानत्वात् । परकलया गुरुरित्युक्तश्च द्वितीयांकमारभ्य गुरुपंक्तिसंचारः । ततो द्वाभ्यामष्टभिश्च तल्लोपे त्रयो व्यधः । तत एकाष्टभिस्तल्लोपे चत्वारि त्र्यधः । ततः पञ्च । त्रिभिस्तल्लोपादवशिष्टः पञ्चमांको वृत्त एवेति पञ्चभिभ्यिां च तल्लोपे षट् चतुर्णामधः । पञ्चैकेन तल्लोपे सप्त । षडधो द्वित्रिलोपो वृत्त एवेति एकस्त्रिभिस्तल्लोपेन च सप्ताध इति द्विगुरुस्थानानि षट् मेरावुक्तत्वात् । तथा त्रिलोपे त्रिगुरुरूपमान येति त्रिपञ्चाष्टलोपे भागो.नास्ति । द्वित्रिपञ्चलोपोऽप्यष्टात्मको वृत्त एवेति पञ्चद्व्येकलोपोऽप्यष्टलोपात्मको वृत्त एवेति एकद्वित्रिलोपोऽपि वृत्त एवेति एकत्र्यष्टभिर्मिलित्वा जातैदशमिस्तल्लोपे कृते एकोऽवशिष्टः स आद्यस्थाने । सर्वगुर्वात्मकं वक्तव्यम् । षण्मात्रा पताका । एवमन्यत्रापि सप्ताष्टकलानां यथाक्रमं पताका ज्ञातव्येति दिक् । वाणीभूषणेऽपि वर्णपताकामुक्त्वा 'एकैकमत्र मुक्त्वा ज्ञेया मात्रापताकापि' पादाकुलकं छन्दः ॥
४९ अथ समाधसमविषमजातिपद्यवृत्तस्यगुरुलघुज्ञानप्रकारमाह
तथा च सर्वछन्दःसु कति गुरवः कति लघवः इति प्रश्ने कृते पृष्टं छन्द उद्भावितचतुष्पदमेव कलाः कृत्वा तासु कलासु. छन्दोऽक्षरसंख्यां लभेत् । ततोऽवशिष्टाभिः कलाभिर्गुरुं जानीत । गुरुज्ञाने सति परिशेषाल्लघु जानीयादित्यर्थः । दोहा छन्दः ॥
अथ वर्णमर्कटीं पादाकुलकच्छन्दश्चतुष्टयेनाह
तत्रैकाक्षरादिषड्विंशत्यक्षरावधिवर्णप्रस्तारेषु कति वृत्तादयो भवन्ति इति प्रश्ने कृते वर्णमर्कटिकया प्रत्युत्तरं देयम् । तद्विरचनप्रकारो लिख्यते । छप्पन्ती षट्पंक्त्या मनोहराकारया प्रस्तारं कुरु । तत्रैकाक्षरादिषड्विंशत्यक्षरसंख्यया कोष्ठकं धारय विधेहीत्यर्थः । तत्र प्रथमपंक्तौ वृत्तपंक्तौ एकादिकान् षड्विंशतिपर्यन्तवर्णांस्तत्संकेतरूपानङ्कान्धारय । लिज्जसु गृहाण । वृत्तानीति शेषः । एवंकृते प्रथमा वृत्तपंक्तिः सिद्ध्यति । अथ द्वितीयां प्रभेदपंक्ति साधयति-दोसरीति । ततो द्वितीयायां प्रभेदपंक्तौ तद्विगुणान्पूर्वस्थापितवर्णाद्विगुणान्प्रभेदसंकेतरूपान्व्यादिकानंकात्कृत्वा देहीत्यर्थः । एवं कृते द्वितीया प्रभेदपंक्तिः सिद्ध्यति । अथ क्रमप्राप्तामपि तृतीयां मात्रापंक्तिमुल्लङ्घ्य तन्मूलभूतां चतुर्थी वर्णपंक्ति साधयति-उप्परेति । अत्र स्थितैरित्यध्याहार्यम् । तथा चोपरि स्थितैः प्रथमपंक्तिस्थितैरेकद्वित्र्यादिभिरंकैद्वितीयपंक्तिस्थितान् द्विचतुरष्टादिक्रमेण स्थितानंकान् गणयित्वा गृहाण । पुनस्तानेवांकान् द्विगुणितान्द्व्यष्टचतुर्विशेत्यादिक्रमेण चतुर्थपंक्तौ लिखित्वा देहि स्थापयेत्यर्थः । एवं कृते चतुर्थी वर्णपंक्तिः सिद्ध्यति । अथ पञ्चमषष्ठपंक्त्योर्गुरुलघुपंक्त्योः पूरणोपायमुदिशति-चौठीत्युत्तरार्धेन । ततश्चतुर्थपंक्तिस्थितार्धाङ्कानेकचतुर्द्वादशादिकानङ्कान्पङ्कान्पञ्चमषष्ठपंक्त्योर्निभ्रमं यथा स्यात्तथा लिख । चतुर्थाङ्कान्पञ्चम्यां लिखितानेवा(कान्षष्ठ्यां लिखेति । एवं पञ्चमषष्ठपंक्ती गुरुलघुरूपे सिद्ध्यतः । एवं पंक्तिद्वयं साधयित्वा अथोर्वरितां तृतीयां मात्रापंक्ति साधयति-तत: पञ्चमपंक्तिस्थितानेकचतुर्दादशानांश्चतुर्थपंक्तिस्थितान्द्वयष्टचतुर्विंशेत्यादिकानांश्चैकीकृत्य त्रिद्वादशट्त्रिंशदादिरूपतामापाद्य तृतीयपंक्तौ मेलय । एकीकृत्य लिखेत्यर्थः । एवं पिङ्गलो जल्पति । एवं कृते तृतीया मात्रापंक्तिः सिद्ध्यति । वर्णमर्कटीफलमाह-वित्तेति । एकाक्षरादीनि वृत्तानीत्यर्थः । प्रभेदांस्तत्प्रभेदान्मात्रास्तत्तन्मात्राः वर्णान्गुरुंल्लघून् । इति त्रयोदशवर्णमर्कटी । एवमन्यापि मर्कटी समुन्नेया सुधीभिरित्यलं पल्लवितेन । तेन संपन्नान् सिद्धाञ्जानीहि । हे लोकाः, एवमक्षरमर्कटी जानीत । यस्यां ज्ञातायां मनस आनन्दो भवति । अथ च य एनां बुद्ध्यते स एव वृत्तादीनि बुद्ध्यते नान्यः । ततो मर्कटीजाले हस्ती गजो रुद्ध्यते । दुर्गमत्वादिति भावः ।
श्रीलक्ष्मीनाथभट्टेन नारायणतनुभूवा । वर्णमर्कटिका प्रोक्ता पञ्चमे प्रत्यये स्थिता ॥ अथ मात्रामर्कटीसप्रतिज्ञमाहअथ तत्रैकमात्रादिनिरवधिकमात्राप्रस्तारेषु कतिकतिजातिसम्बन्धिवृत्तादयो भवन्तीति प्रश्ने कृते मात्रामर्कटिकया प्रत्युत्तरं For Private & Personal Use Only
www.jainelibrary.org
Jain Education International