________________
२००]
प्राकृतपैंगलम्
लघुरन्ते गुरुरेवमाकारचतुरक्षरप्रस्तारे षष्ठो गण इति वेदितव्यम् । तथा च वाणीभूषणे - 'नष्टे तु कल्पयेद्भागं समभागे लघुर्भवेत् । दत्त्वैकं विषमे भागः कार्यस्तत्र गुरुर्भवेत् ॥' एवं समे भागे लघुर्ज्ञातव्यः । विषमे एकं दत्त्वा पुनः पुनर्गुरुर्ज्ञातव्यः । अरिल्ला छन्दः ॥
४४ अथ वर्णमेरुमाह
'सूचय मेरुं निःशङ्कम्' इति वा । अयमर्थ:- एकाक्षरादि षड्विंशत्यक्षरपर्यन्तं स्वस्वप्रस्तारे कति सर्वगुरुवः कत्येकादिगुरवः कति सर्वलघवः कति वा प्रस्तारसंख्येति प्रश्ने कृते मेरुणा प्रत्युत्तरं देयम् । तत्रैकाक्षरादिक्रमेण षड्विंशत्यक्षरावधि कोष्ठकान्विरचय्य आदावन्ते च कोष्ठके प्रथमाङ्को देयः मध्यस्थकोष्ठके च तदीयशिरः कोष्ठद्वयाङ्कं शृङ्खलाबन्धन्यायेनैकीकृत्यापरं शून्यकोष्ठकमेकीकृतांकेन पूरयेत् । एवमन्यत्रापि पूरणीये कोष्ठके कोष्ठानामुपरिस्थितकोष्ठद्वयाङ्कमुक्तबन्धन्यायेन पूरणं विधेयम् । एकाक्षरे कोष्ठद्वयं द्वयक्षरे कोष्ठत्रयमित्यादि प्रत्यक्षरमेकैकवृद्ध्या षड्विंशत्यक्षरपर्यन्तं मेरुः कर्त्तव्यः । तत्रैकाक्षरप्रस्तारे आदावेकगुर्वात्मकस्तदन्ते चैकलघ्वात्मकः । यक्षरे तु सर्वगुरुरादौ मध्ये गुरुद्वयमन्ते च सर्वलघुरिति । अक्षरे चादौ सर्वगुरुः स्थानत्रये द्विगुरुः स्थानत्रये एकगुरुः अन्ते च सर्वलघुरिति । एवं च सुधीभिश्चिन्तनीयम् । सर्वांगेण प्रस्तारसंख्यापि ज्ञायते । तथा च भूषणे - 'कोष्ठमक्षरसंख्यातमन्त्याद्योरेकचिह्नितम् । शीर्षकोष्ठद्वयांकेन शून्यं कोष्ठं प्रपूरयेत् ॥' दोहा छन्दः ॥
I
४५ अथास्य पताकामाह
प्राकृते पूर्वनिपातानियमात्प्रथमं प्राप्तांकः परित्यज्यताम् । एवमुक्तं भवति - पूर्वीकैः परभरणं कुरु पूरयितव्यपंक्तं : प्रधानाङ्कस्य पश्चात्स्थिताः पूर्वाङ्काः । भरणं पूरणं लेखनकोष्ठदानम् । एकत्राधिकस्य प्राप्तौ सा पंक्तिरेव तदङ्कभरणे त्यज्यताम् । प्रस्तारसंख्याया पताका वा वर्धयितव्या । चतुर्वर्णप्रस्तारे एकद्विचतुरष्टाङ्का देयाः । अत्रैकाङ्कस्य पूर्वाङ्कासंभवादिद्वतीयाङ्कमारभ्य पंक्तिः पूर्यते । तत्र पूर्वाङ्क एकाङ्क एव तस्य परे द्वितीयादयः । ते चाव्यवहितानतिक्रमेण पूर्यन्ते । तथा चैकेन द्वाभ्यां मिलित्वा अङ्को द्वितीयाङ्काधः स्थाप्यः । तत एकेन चतुर्भिश्च पञ्चाङ्कस्त्र्यङ्काधः । तत एकेनाष्टभिश्च नवाङ्कः । ततः पंक्तिपरित्यागः । प्रस्ताराधिक्यसंभवात् । एतेन चतुर्वर्णप्रस्तारे प्रथमं गुरुः । द्वित्रिपञ्चनवस्थानस्थानि त्रिगुरूणि ब्रूयात् । अस्य चतुरङ्कस्याधः पराङ्कमिलिता अङ्का देयाः । तत्र प्रथमः पूरित एवेति त्यज्यते । द्वाभ्यां चतुर्भिर्मिलित्वा षट् चतुरङ्कस्याधः । त्रिभिश्चतुर्भिः सप्त षडधः । पञ्चभिश्चतुर्भिर्मिलित्वा (आगच्छन्) नवाङ्क आगत इति न स्थाप्यते । तत अग्रिमाङ्कपरित्यागः । अनन्तरं च द्वाभ्यामष्टभिर्मिलित्वा दश सप्ताधः । ततस्त्रिभिरष्टाभिर्मिलित्वा एकादश दशाधः । ततः पञ्चभिरष्टभिर्मिलित्वा त्रयोदश एकादशाधः । ततः पंक्तिपरित्यागः । मेरुसंख्यापरिमाणोक्तेः । ततोऽष्टाङ्काधस्ताच्चतुभिरष्टभिर्मिलित्वा द्वादश । तदधः षड्भिरष्टभिश्चतुर्दश । ततस्तदधः सप्तभिरष्टभिश्च पञ्चदश । ततः प्रस्ताराधिकाङ्कसंभवान्नाङ्कसंचारः । षोडशाङ्कस्त्वष्टांकाग्रे दीयते सर्वलघुज्ञानार्थमिति संप्रदायः । पताकाप्रयोजनं तु मेरौ । चतुर्वर्णप्रस्तारस्यैकं रूपं सर्वगुरु । चत्वारि त्रिगुरूणि । षद्विगुरूणि । चत्वार्येकगुरूणि । एकं सर्वलघ्वात्मकमस्ति । तत्र षोडशभेदभिन्ने चतुर्वर्णप्रस्तारे कतमस्थले सर्वगुर्वात्मकं कतमस्थाने च त्रिगुर्वात्मकं कतमस्थाने च द्विगुर्वात्मकं कतमस्थाने चैकगुर्वात्मकं कति वा प्रस्तारसंख्येतिप्रश्ने पताकयोत्तरं दातव्यम् । वाणीभूषणे तु - ' अङ्कमुद्दिष्टवद्दत्त्वा शेषे पूर्वनपासयेत् । एकेनैकगुरु ज्ञेयं द्वयं द्वाभ्यां त्रिभिस्त्रयम् ॥ एषा वर्णपताका प्रकीर्तिता काहि राजस्य (?) एकैकमत्र भुक्त्वा ज्ञेया मात्रापताकापि ॥' अरिल्ला छन्दः ॥
४६-४७ अत मात्रामेरु:
अन्येषामत्र प्रवेश एव न । दुर्गमत्वादिति भावः । एवमुक्तं भवति । प्रथमे कोष्ठद्वयम् । तथा द्वितीयेऽपि । तृतीये कोष्ठत्रयम् । तथा चतुर्थेऽपि । पञ्चमे चत्वारि । तथा षष्ठेऽपीत्यादि । एककलाया: प्रस्तारो नास्तीति कोष्ठद्वयात्मिकैवादौ पंक्तिरिति । एवं कोष्ठपंक्तिष्वधोधः क्रमेणाङ्कान् लिखेत् । सर्वत्र च शेषकोष्ठे प्रथमाङ्को देयः । तत्र कोष्ठद्वयमध्ये आदावुपरि कोष्ठे चैकस्वरूपोऽङ्को देयः । तस्योपरिस्थाङ्काभावादुत्सर्गसिद्ध एव प्रथमोऽङ्कः । अन्ते त्वेक एवाधः । द्वयमधो मिलतीतीयं प्रक्रिया प्रथमकोष्ठद्वयस्य पूरितत्वाद्वितीयादारभ्य देयम् । यत्र द्वितीये द्वयम् । तृतीये पुनरेकम् । चतुर्थे त्रयम् । पञ्चमे पुनरेकम् । षष्ठे चत्वारि । सप्तमे पुनरेकम् । इति प्रक्रिया आद्येऽङ्का देयाः । मध्ये शून्यकोष्ठेष्वेषा प्रक्रिया। पूरणीयकोष्ठशिरः कोष्ठाङ्कपरकोष्ठस्थाङ्कौ द्वावप्येकीकृत्य मध्य कोष्ठे ऽ को देयः । एवं सर्वत्र यावदिच्छं कोष्ठकान्विरचय्य मात्रामेरुः कर्तव्यः | अत्रेदमनुसन्धेयम् - कतिसमकले लघवः कति च गुरवः । कति विषमकले लघवः कति च गुरवः । कति वा प्रस्तारसंख्येति प्रश्ने मेरुणा प्रत्युत्तरं देयम् । तत्र द्विकले समप्रस्तारे एकः सर्वगुरुः । द्वितीय द्विकलात्मकः सर्वलघुरिति संकेत: । त्रिकले विषमे द्वावेककलौ एकगुरुकौ चान्ते सर्वलघुस्त्रिकल इति समकले । चतुष्कले चादौ द्विगुरुः स्थानत्रये चैकगुरुर्द्विकलञ्चान्ते सर्वलघुरिति । एवमनेन प्रकारेण यावदिच्छं मात्रा मेरावभीष्टमात्राप्रस्तारेषु लघुगुरुप्रक्रिया ज्ञातव्या । अथवा समकलप्रस्तारे वामतः क्रमेण द्वौ चत्वारः षडष्टावनेन क्रमेण गुरुज्ञानम्, विषमे त्वेकत्रिपञ्चसप्तेत्यनेन क्रमेण लघुज्ञानमन्ते च सर्वत्र (लघु) सर्वलघुरिति । उभयत्राप्येको द्वौ त्रय इत्यनया सरण्या दक्षिणतो व्युत्क्रमेण भेदज्ञानम् । अत्र च वामभागे
Jain Education International
For Private Personal Use Only
www.jainelibrary.org