________________
परिशिष्ट (२)
[१९९ भृत्योदासीनयोर्यगणजगणयोर्भगणतगणयोर्वा सर्वं धनं नश्यति । भृत्यवैरिणोर्यगणरगणयोर्भगणसगणयोर्वा आकन्दो हाहाकारो भवति । पततीत्यर्थः । उदासीनो मित्रं च जगणो भगणस्तगणो नगणो वा तदा कार्यं किंचिन्मदं दर्शयति साधारणं फलं भवति । उदासीनो यदि भृत्यो जगणो भगणस्तगणो यगणो तदा सर्वा आयतीश्चालयति । उदासीनोदासीनयोर्जगणतगणयोर्मन्दमशुभं वा शुभं वा किमपि फलं न दृश्यते । उदासीनो यदि शत्रुर्जगणो रगणस्तगणः सगणो वा तदा गोत्रमपि वैरी लक्ष्यते । यदि शत्रुरनन्तरं मित्रं रगणो मगणः सगणो नगणो वा भवति तदा शून्यं फलं भवति । यदि शत्रुभृत्यौ रगणो यगणः सगणो भगणो वा तदा गृहिणी नश्यति । पुनः शत्रूदासीनयो रगणजगणयोः सगणतगणयोर्वा धनं नश्यति । शत्रुस्तथा पुनः शत्रुर्यदि सगणस्तदा नायकः पतति । षट्पदयुग्मेन गणद्वयविचारः कथितः । भूषणेऽपि - 'मित्रयोरुदिता सिद्धिर्जयः स्याद्भृत्यमित्रयोः । मित्रोदासीनयोर्न श्रीः स्यात्पीडा मित्रवैरिणोः ॥ कार्यं स्यान्मित्रभृत्याभ्यां भृत्याभ्यां सर्वशासनम् । भृत्योदासीनयोर्हानिर्हाकारो भृत्यवैरिणोः ॥ उदासीनवयस्याभ्यां क्षेमसाधारणं फलम् । स्यादुदासीनभृत्याभ्यामस्वायत्तश्च सर्वतः ॥ उदास्ताभ्यां फलाभावः परारात्योर्विरोधिता । शत्रुमित्रं फलं शून्यं स्त्रीनाशः शत्रुभृत्ययोः ॥ शत्रूदासीनयोर्हानिः शत्रुभ्यां नायकक्षयः ॥' इति ।
३९ अथानन्तरं छान्दसपरीक्षार्थं कौतुकार्थं च मात्राणामुद्दिष्टमाह
एतदुक्तं भवति - षट्कलप्रस्तारे एको गुरुद्वौ गुरू (लघु) एको गुरुरित्येवमाकारो गणः कुत्रास्तीति प्रश्ने कृते तदाकारं गणं लिखित्वा पूर्वयुगलेन सदृशः समानाङ्को देयः । आदिकलायां प्रथमाङ्को देयः । पूर्वयुगलाभावादुत्सर्गसिद्धो द्वितीयोऽङ्कस्तदधस्तदनन्तरं पूर्वाङ्कद्वयमेकीकृत्य तत्संख्यकोऽङ्कोऽग्रे पूर्वयुगलसमानाङ्कस्त्रिपञ्चादिर्देयः । इति पूर्वयुगलक्रमार्थः । अत्र गुरोरुपर्यधश्चाङ्को देयः । द्विकलत्वात् । एतच्च गुरुशिरः पदाल्लभ्यते । एवं तेष्वङ्केषु शेषे चरमेऽङ्के त्रयोदशरूपे यावन्तो गुरुशिरः स्था अङ्कास्तावन्तो लोप्याः । ते च नव ते अवधिरूपे त्रयोदशाङ्के लोप्याः । उर्वरितमङ्कं प्रकृते चतुरङ्कं मिलित्वा चतुःस्थानकोऽयं गण इत्यानय । ते तत्परिपाट्या ध्रुवमुद्दिष्टं कथिताङ्कस्थानं जानीहीति । एवं च पञ्चकलप्रस्तारे द्वौ लघू एको गुरुरेको लघुश्चेत्येवंरूपो गणः कुत्र स्थानेऽस्तीति प्रश्ने पूर्वयुगलसमानाङ्कान्दत्त्वा शेषऽष्टमेऽङ्के गुरुशिरोऽङ्कस्तृतीयोऽङ्को लोप्योऽवशिष्टः पञ्चमाङ्को भवति तस्मात्पञ्चमो गणस्तादृशो भवतीति वेदितव्यम् । उद्दिष्टस्य कथितस्य गणस्य स्थानमात्रानयनमुद्दिष्टम् । एवं च सर्वप्रस्तारे प्रथमे शेषे च गणे शङ्खैव नास्तीति द्वितीयस्थानादारभ्यान्त्यात्पूर्वस्थानेषु प्रश्न इति बोद्धव्यम् । भूषणेऽपि - 'दत्त्वा पूर्वयुगाङ्कं गुरुशीर्षाङ्कं विलुप्य शेषाङ्के । अङ्कुरितोऽवशिष्टैः शिष्टैरुद्दिष्टमुद्दिष्टम् ॥ पादाकुलकं छन्दः ॥
४०–४१ अथ मात्रादृष्टं पृष्टं रूपं नष्टं तच्च षट्कलप्रस्तारे प्रस्तारान्तरे वा अमुकस्थानानि कीदृश (?) इति प्रश्ने उत्तरमाह
एवमुक्तं भवति-यत्कलप्रस्तारे प्रश्नस्ताः सर्वाः कलारूपा लघवः क्रियन्ताम् । यथा पूर्वसदृशा अङ्का एकद्वित्रिपञ्चाष्टत्रयोदशरूपा अङ्का दीयन्ताम् । शेषे पृष्ठोऽङ्को लोपनीयः । ततश्चावशिष्टे शेषाङ्केऽपरान्विलुप्य लिखित्वा कथय । तत्र प्रकारमाह-यो योऽङ्कः शेषाङ्के लोपयितुं शक्यते स पुनः स्वाधः स्थितकलां परमात्रां चादाय गुरुर्जायते । षट्कलप्रस्तारे द्वितीयस्थाने कीदृशो गण इति प्रश्ने यथाङ्काः स्थापनीयः पूर्वयुगलसदृशा अङ्का देयाः । शेषाङ्के त्रयोदश । पृष्ठाङ्कलोपे द्वितीयाङ्कलोपे सति एकादशावशिष्ट भवन्ति । तत्राव्यवहिताष्टलोपेऽष्टाधः स्थितत्रयोदशाधः स्थितकलाभ्यामेको गुरुर्भवति । अवशिष्टं त्रयम् । तत्र पञ्चलोपाशक्यत्वात्त्रिलोपे तृतीयचतुर्थाभ्यामपरो गुरुर्भवति । शेषाङ्कं नावशिष्यत इति प्रथमं लघुद्वयमेव । तथा चादौ लघुद्वयं पश्चाद्गुरुद्वयमेव तादृशो द्वितीयो भवतीत्यर्थः । वाणीभूषणेऽपि - 'नष्टे कृत्वा कलाः सर्वाः पूर्वयुग्माङ्कयोजिताः । पृष्ठाङ्कहीनशेषाङ्कं येन येनैव पूर्यते ॥ परां कलामुपादाय तत्र तत्र गुरुर्भवेत् । मात्राया नष्टमेतत्तु फणिराजेन भाषितम् ' ॥ इति ॥
४२ अथ क्रमप्राप्तं वर्णोद्दिष्टमाह
अयमर्थः - चतुरक्षरप्रस्तारे द्वौ गुरू एको लघुः एको गुरुरिति गणः कुत्रास्तीति प्रश्ने कृते पृष्टं गणं लिखित्वा प्रथमं प्रथमगुरोरुपरि प्रथमाङ्को देयः । ततो द्विगुणान्द्विगुणानङ्कान्देहि । द्वितीयगुरोरप्युपरि द्वितीयोऽङ्कः तृतीये लघौ चतुरङ्कः चतुर्थे गुरावष्टमाङ्को देय इति द्विगुणत्वम् । एवं प्रकारेणोद्दिष्टं गणं कुरु । ततो लघोरुपरि योऽङ्कस्तत्राधिकमेकमङ्कं दत्त्वा तेन सहैक्ये कृते योऽङ्को भवति तदङ्कसमाने स्थाने स गणोऽस्तीति । प्रकृते तु चतुर्थाङ्कोपरि एकमधिकं दत्त्वा पञ्चमोङ्कः कर्तव्यः तस्मात्पञ्चमस्थाने तादृशो गणोऽस्तीति ज्ञातव्यम् । भूषणेऽपि - 'उद्दिष्टे वर्णोपरि दत्त्वा द्विगुणक्रमेणाङ्कम् । एकं लघुवर्णाङ्के दत्त्वोद्दिष्टं विजानीत ॥' गाथा छन्दः ॥
४३ अथ वर्णानां नष्टमाह
अत्र भागो नाम नष्टाङ्कस्यार्धीकरणम् । यथा चतुरक्षरप्रस्तारे षष्ठो गणः किमाकार इति प्रश्ने षडङ्कभागं कृत्वा तदर्धं त्रयं स्थाप्यम् । अयं च समानो भागः । तत एको लघुर्लेख्यः । अनन्तरं द्वयस्य भागं कृत्वा एकं स्थाप्यम् । तदैको लघुर्लेख्यः । अनन्तरं ततोऽप्यवशिष्टे विषमे एकं दत्त्वा एकस्य च भागं कृत्वा एकमेव स्थापनीयम् । तदैको गुरुर्लेख्यः । एवं च प्रथमे लघुरनन्तरं गुरुस्ततो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org