________________
१९८]
प्राकृतपैंगलम् ताटङ्कः । हारः । नूपुरम् । केयूरम् । इति गुरुभेदाः । नामभेदाः इत्यर्थः । तथैव लघुनामान्याहशरः । मेरुदण्ड: । काहला । लघुभेदाः भवन्ति । गाहू छन्दः ॥ ३२ अपि च
शंखः । पुष्पम् । काहलम् । रवः । अशेषैरेतैः सह कनकलतापि । कनकं लता चेति नामद्वयं वा । रूपम् । नानाकुसुमम्। रसः । गन्धः । शब्दश्चेति लघोः प्रमाणं निश्चयेन नामानि भवन्ति । गाहा छन्दः ॥
३३ अथ वर्णवृत्तानां गणानाह
मो मगणस्त्रिगुरुस्त्रयोऽपि वर्णा गुरवो यत्र । नो नगणस्त्रिलघु । लघुरादौ यस्य स यगणः । गुरुरादौ यस्यासौ भगणः । मध्ये गुरुर्यस्यासौ जगणः । मध्ये लघुर्यस्यासौ रो रगणः । सगणः पुनरन्ते गुरुय॑स्य । तगणोऽप्यन्ते लघुर्यस्य । अवहट्टभाषायां लिङ्गविभक्तिवचनरचनमतन्त्रम् । ण इति नन्वर्थे । यद्वा अंत्यलघुकेन तगणो भवतीत्यर्थः । एवमष्टौ गणाः । कमोऽत्राविवक्षितः । क्रमस्तु वृत्तरत्नाकरे-'सर्वगुर्मो मुखान्तौ यशवन्तगलौ सतौ । ग्मध्याधौ ज्भौ त्रिलो नाऽष्टौ भवन्त्यत्र गणास्त्रिकाः' ॥ एतैरेव गणैः समस्तवैखरीसृष्टिाप्ता । तदुक्तं छन्दोरत्नाकरे-'म्यरस्तजभ्नगैर्लान्तैरेभिर्दशभिरक्षरैः । समस्तं वाङ्मयं व्याप्तं त्रैलोक्यमिव विष्णुना ॥' उग्गाहा छन्दः ।
३४ अथ कवित्वकरणान्तरं कविनायकयोः क्वचित्पीडा क्वचिच्च समृद्धिदृश्यते तथा तुष्ट्यतुष्टी तत्र देवतातुष्ट्यतुष्टी हेतू इति गणदेवता आह
मगणस्य पृथिवी । यगणस्य जलम् । रगणस्य शिखी । सगणस्य पवनः । तगणस्य गगनम् । जगणस्य सूरः । मगणस्य चन्द्रः । नगणस्य नागः । एवं गणाष्टकस्येष्टदेवता यथासंख्यं पिङ्गलेन कथिताः । अत्र यस्य कवित्वस्यादौ यो गणस्तिष्ठति तस्यैव गणदोषौ ग्राह्याविति । भूषणेऽप्युक्तम् ।-'मही जलानलानिलाः स्वर्यमेन्दुपन्नगाः । फणीश्वरेण कीर्तिता गणाष्टकेष्टदेवताः ॥'
३५ अथ गणानां मित्रामित्रादिकमाह
मगणो नगणश्च द्वौ मित्रे भवतः । भगणयगणौ भृत्ये भवतः । जगणतगणौ द्वावप्युदासीनौ भवतः । अवशिष्टौ सगणरगणौ नित्यमरीभवतः । भूषणेऽपि-'मैत्र्यं मगणनगणयोर्यगणभगणयोश्च भृत्यता भवति । औदास्यं जतगणयोररिभावः सगणरगणयोरुदितः ॥' इति । इयं च गणमित्रामित्रव्यवस्था कविनायकयोरिति बोद्धव्यम् । दोहा छंदः ।
३६ अथ तेषां फलान्याह
कवित्वस्य ग्रन्थस्यादौ वा मगणे पतिते ऋद्धिः स्थिरं च कार्यं भवति । यगणश्चेत्पतति सुखं सम्पदं च ददाति । रगणे पतिते मरणं भवति । सगणः सहवासान्निजदेशाद्विवासयति । तगणः शून्यं फलं कथयति । जगणः खरकिरणान्विशेषयति संतापकरो भवति । भगणः कथयति मङ्गलान्येव । तत्र प्रामाण्यं सूचयति-सुकविः पिङ्गलः परिभाषते । तदुक्तम्-'मो भूमिः श्रियमातनोति यजलं वृद्धि रवह्निर्मृति सो वायुः परदेशदूरगमनं तव्योम शून्यं फलम् । जः सूर्यो रुजमादधाति विपुलां भेन्दुर्यशो निर्मलं नो नागश्च सुखप्रदः फलमिदं प्राहुर्गणानां बुधाः ॥' यावत्काव्यं गाथा दोहा वा तत्र प्रथमाक्षरे आदौ नगणश्चेद्भवति तदा तस्य कवेर्नायकस्य वा ऋद्धिर्बुद्धिः सर्वमपि स्फुरति । दुस्तरं रणं राजकुलं च तारयतीति । सुणहु निश्चितं जानीत । भूषणेऽपि-'मः सम्पदं वितनुते नगणो यशांसि श्रेयः करोति भगणो यगणो जयं च । देशाद्विवासयति सो रगणो निहन्ति राष्ट्रं विनाशयति जस्तगणोऽर्थहन्ता ॥' फलविशेषभेदस्त्वभियुक्तरैक्तः- वर्ण्यते नायको यत्र फलं तद्गतमादिशेत् । अन्यथा तु कृते काव्ये कवेर्दोषावहं फलम् ॥ देवता वर्ण्यते यत्र काव्ये क्वापि कवीश्वरैः । मित्रामित्रचारो वा न तत्र फलकल्पना ॥' इति । किंच 'देवतावाचकाः शब्दा ये च भद्रादिवाचकाः ते सर्वे नैव निन्द्याः स्युलिपितो गणतोऽपि च ॥' इत्युक्तत्वाच्च । षट्पदच्छन्दः ॥
३७-३८ गणद्वयसंयोगऽपि फलविशेष इति सूचयितुं गणद्वयविचारमाह__ ग्रन्थादौ कवित्वस्य वादौ मित्रमित्रे मगणनगणौ । विपरीतौ वेति सर्वत्र बोध्यम् । ऋद्धिबुद्धी अथ च मङ्गलमपि दत्तः । मित्रभृत्यौ मगणभगणौ नगणयगणौ वा स्थिरकार्यं युद्धे निर्भयं यथा स्यात्तथा जयं च कुरुतः । मित्रोदासीनयोर्मगणजगणयोर्नगणतगणयोर्वा कार्यबन्धः स्थैर्यं नास्ति पुनः पुनः क्षीयते । मित्रं शत्रुश्च यदि भवतः मगणरगणौ नगणसगणौ वा तदा गोत्रजा बान्धवाश्च पीड्यंते। अरु इत्यानन्तर्ये । भृत्यमित्रयोर्यगणमगणयोर्भगणनगणयोर्वा सर्वं कार्यं भवति । भृत्यभृत्ययोर्यगणभगणयोरायतिरुत्तरकालो वर्धते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org