SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट (२) विधेयः । एवमन्यविषयेष्वपि बोद्धव्यम् । अतएव 'लघुकालम्बेन' इति पश्चाद्वक्ष्यति । गाथा छन्दः ॥ १७ अथ चतुष्कलप्रस्तारे पञ्चगणानां नामान्याह म्मीति पादपूरणे । इति डगणभेदाः पञ्च चतुष्कलप्रस्तारो यथा-55, 115, 151 SI, III 1, गाथा छन्दः ॥ १८ अथ त्रिकलप्रस्तारे गणत्रितयानां (यस्य) नामान्याह - लघुकालम्बेन लघ्वादित्रिकस्य नामानि जानीत | गाथा छन्दः ॥ १९ आनन्दश्छन्दसा सह । छन्द इत्यपि नामेत्यर्थः । ससमुद्रं समुद्रसहितं तूर्यपर्यायेणापि । गुर्वादित्रिकलस्यैतानि नामानि जानीत | गाहू छन्दः ॥ २० भावस्य यन्नाम रसस्य ताण्डवस्य नारीणां भामिनीनां च यानि नामानि तानि सर्वाणि त्रिलघुगणस्य कुरुतेति कविवर: पिङ्गलः कथयतीति ढगणस्य प्रस्तारो यथा-15, 51, 111 गाहू छन्दः ॥ २१ अथ द्विकलप्रस्तारे गणद्वयनामान्याह - एतेषां पर्यायशब्देनापि गुरोर्नाम जानीहि गाथा छन्दः ॥ २२ समासतः संक्षेपतः कविना पिङ्गलेन दृष्टं नामेति शेषः । णगणस्य प्रस्तारो यथा-5, II, २३ अथ लक्ष्यानुसारीणि कमतचतुष्कलानां नामान्तराण्याह कर्णसमानेन नाम्ना सह रसिको रसलग्नश्चेति । कर्णसमानेन कुन्तीपुत्रादिपर्यायग्रहणम् । लहलहितानामुत्पन्नप्रायाणां नाम्नाम् । गुरुबुगनामानि सुवर्णेन सह ज्ञेयानीत्यर्थः ॥ २४ अथान्तगुरोश्चतुष्कलस्य नामान्याह नानाभुजाभरणं केयूरादि । भवन्ति सुप्रसिद्धानि नामानि गुर्वन्तस्येति । गाथा छन्दः ॥ २५ अथ मध्यगुरोर्नामान्याह भूपतिः । अश्वपतिः । नरपतिः । गजपतिः । वसुधाधिपः । रज्जुः । गोपालः । उद्गतनायकः । चक्रवर्ती । पयोधरः । स्तनः । नरेन्द्रः । इति नामानि मध्यगुरोश्चतुष्कलस्य । गाहू छन्दः ॥ २६ अथादिगुरोर्नामान्याह पदम् । पादः । चरणयुगलम् । अवरु अन्यदित्यर्थः । गण्डः । बलभद्रः । तातः । पितामहः । दहनः । नूपुरम् । रतिः । जंघायुगलेन सह इति नामानि पिङ्गलः प्रकाशयतीति योज्यम् गाथा छन्दः ॥ २७ अथ चतुर्लघोर्नामान्याह प्रथमं नामेति स ऋषिः । विप्रः । द्वितीयं प्राकृते पूर्वनिपातानियमात्पञ्चशर इति । एकदेशग्रहणाच्छर इत्यापि । लक्ष्येषु तथा दर्शनात् । जातिः शिखरेण सह । द्विजवरः । परमः । उपायः । चतुष्कलेन लघुकेन एतानि नामानीत्यर्थः । गाधा छन्दः । २८ अथ पञ्चकलानां कानिचिदुभयवृत्तसाधारणानि नामान्याह सुनरेन्द्रः | अहिकः । कुञ्जरः । गजवरः । दन्तः । दन्ती । अथेत्यानन्तर्ये । मेघः । ऐरावतः । तारापतिः । गगनम् । झम्पः । तथा लम्पः । इति पञ्चमात्रस्यादिलघोर्नामानि । गाथा छन्दः ॥ [१९७ २९ अथ मध्यलघोः पञ्चमात्रस्य नामान्याह पक्षी | विराट् । मृगेन्द्रः । वीणा । अहिः । यक्षः । अमृतकम् । जोहलम् । सुपर्णाः । पन्नगाशनः । गरुडः । मध्यलघुके पञ्चकले रगणापरनाम्नि इति नामानि विजानीत । ण इति नन्वर्थे । उग्गाहा छन्दः ।। ३० अथ पञ्चकलस्यैव सामान्यनामान्याह बहुविविधप्रहरणैरपि तन्नामभिस्तत्पर्यायैरपि पञ्चकलको गणो भवति । पुनश्चतुष्कलस्यैवसाधारणां संज्ञामाह गजः । रथः । तुरगः । पदातिः । एतन्नाम्ना पर्यायेणापि जानीहि चतुर्मात्रम् । विग्गाहा छन्दः ॥ ३१ अथ सामान्यतो गुरुनामान्याह - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001440
Book TitlePrakritpaingalam
Original Sutra AuthorN/A
AuthorBholashankar Vyas, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Text Society Ahmedabad
Publication Year2007
Total Pages690
LanguagePrakrit, Sanskrit, Hindi, Apbhramsa
ClassificationBook_Devnagari & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy