________________
१९६]
प्राकृतपैंगलम्
छन्दः ।
८ पुनरपि विकल्पान्तरमाह -
यदि दीर्घमपि गुरुमपि वर्णं लघु कृत्वा जिह्य पठति तदा तं वर्ण लघु जानीत । किं च वर्णी त्वरितपठितौ वर्णा वा त्वरितपठिता द्वौ वा त्रयो वा एक एव वर्ण इति जानीत । गाथा छन्दः ॥
९ उदाहरणमाह । जहा -
अत्र अरे रे इति संबोधनद्वयं त्वरया प्रयुज्यते । वाहय कृष्ण नावं सूक्ष्माम् । डगमगेत्यनुकरणम् । चञ्चलायामेतस्यां नावि जलभरणेन कुगति मा देहि । त्वमेवैतस्यां नद्यां यमुनायां संतारं पारगमनं दत्त्वा आतरत्वेन यदपेक्षसे तदेव गृहाण । मनोऽभिलषितमालिङ्गनचुम्बनादिसुखसंकोचं गृहीत्वा पारं दर्शयेति भीतबल्लवीवचनम् । अत्र त्वरितपठने वर्णनामेकत्वम् । तथात्वे छन्दोभङ्गः । दोहा छन्दः ॥
१० छन्दोग्रन्थस्योपादेयतां दर्शयति - ___ अयमर्थः-यथोभयपार्श्वसमायाः कनकतुलायास्तिलार्धदानेनापि वैषम्यं भवति तादृशमपि भारं न सहते तथैव श्रवणतुलापि छन्दोभङ्गेनापच्छंदस्कं कवित्व न सहते । तादृशं काव्यं तस्या भारायत इत्यर्थः । अत्र जे ते इति जिह्वया लघूकृत्य गुरुत्वे छन्दोभङ्गः। गाहू छन्दः ॥
११ न केवलं छन्दोभङ्गेन श्रवणदुःखमपरमप्यनिष्टं भवतीत्याह -
बुधानामधीतच्छन्दःशास्त्राणां मध्ये लक्षणविहीनं काव्यं य: पठति सोऽबुधः । मूर्ख इत्यर्थः । किं च भुजाग्रलग्नखड्गेन खण्डितमपि स्वशीर्ष न जानाति । भुजाग्रमंगुलीयमेव गमयेत्तेनोदस्तहस्तांगुल्येदमशुद्धं कवित्वमिति यद्रवाकरणं तदेव खड्गायत इत्यर्थः । तेन शीर्ष कविस्व (त्व) रूपं खण्डितमिति न जानाति । यद्वा भुजाग्रलग्ना ये खड्गा इव नखाः । एतेन 'छन्दोभने नखो देयः' इति प्राञ्चाः । गाथा छन्दः ॥
सावसरास्तत्र च्छन्दःशास्त्रे मात्राप्रस्तारो वर्णप्रस्तारश्चेति प्रस्तारद्धयं तत्र मात्राप्रस्तारे कलागणनापुरःसरं गणव्यवस्थां कुर्वन्नाह -
अयमर्थ:-टठडढणाः पञ्चाक्षराणि षट्पञ्चचतुस्त्रिद्विकलानां यथासंख्यं संज्ञा भवन्तीत्यर्थः । गाथा छन्दः ॥ १३ अथ तेषां ससंख्यं भेदमाह -
टगण: षट्कलस्त्रयोदशभेदः । ठगणः पञ्चकलोऽष्टभेदः । डगणश्चतुष्कल: पञ्चभेदः । ढगणस्त्रिकलस्त्रिभेदः । णगणो विकलो द्विभेदः । गाथा छन्दः ॥
१४ मात्राप्रस्तारप्रकारमाह
आत्मबुद्ध्या । अल्पबुद्धयः शिष्या वा । सदृशी सदृशी पंक्तिः । कर्तव्येति शेषः । उर्वरित गुरुं लघु च दत्थ । आदौ सर्वे गुरवो लेख्याः । गुर्वधःस्थितकलातः प्राग लघुना कलापूरणं चेद् भवति तदा लघुरेव देयः । नो चेद्गुरुं दत्त्वा अपेक्षितश्चेत्तदा लघुर्देयो यावत्कलापूरणम् । वाणीभूषणेऽप्युक्तम्-'प्रथमगुरोरधरे लघु दत्त्वा शेषं समानमितरेण । उवृत्ते गुरु लघु वा प्रस्तारः सर्वलघु यावत् ॥' अभियुक्तैरप्युक्तम्-'गुरोरधस्तादाद्यस्य लधुं न्यस्योर्ध्ववत्पुनः । पश्चादूने गुरुं न्यस्येल्लधुं वापेक्षितं क्रमात् ॥ यावत्सर्वलघुस्तावन्मात्राप्रस्तारके बुधः ।' वर्णवृत्ते तूवृत्तस्थले गुरुरेव देय इति नियमः । तदुक्तं वृत्तरत्नाकरे-पादे सर्वगुरावाद्यालधुं न्यस्य गुरोरधः । यथोपरि तथा शेषं भूयः कुर्यादमुं विधिम् ॥ ऊने दद्याद्गुरूनेन यावत्सर्वलघुर्भवेत् । प्रस्तारोऽयं समाख्यातश्छन्दोविचितिवेदिभिः ॥' इति । गाथा छन्दः ।।
१५ अथ षट्कलप्रस्तारे त्रयोदशगणानां नामान्याहहर: 555, शशी ॥ऽऽ, सूरः ।ऽ।ऽ, शकः |ऽ, शेषः ।। 15, अहि: 1551, कमलम् ।।, ब्रह्मा || I, कलि:
III, धर्मः । ।, शालिंकरः ॥ ॥, इति त्रयोदशभेदाः षण्मात्राणां टगणस्येति । एषां पर्यायेणापि गणो बोद्धव्यः । लक्ष्ये तथैव दर्शनात् । गाथा छन्दः ॥ .
१६ अथ पञ्चकलप्रस्तारेऽष्टगणानां नामान्याह
इन्द्रासनम् पश्चात्सूरः चापः, हीर: चकार: पादपूरणे । शेखरः कुसुमम्, अहिगणः पापगण: लक्ष्ये तथैव दर्शनात् । 'अहिगण पापगणो धुव' इति वा पाठः । तत्र ध्रुवं निश्चितम् । एवं पञ्चकलोऽष्टविधष्ठगणस्य भेद: कथितः । प्रस्तारो आदौ लधुं दत्त्वा प्रस्तारो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org