________________
परिशिष्ट (२)
[१९५ ब्राह्मणरूपस्तिष्ठतीति । कीदृशः । विविधमात्रारूपसागरपारं प्राप्तः । यद्वा विविधमात्राभिः प्रस्तारं कुर्वन् समुद्रपारं प्राप्तः । पुनः कीदृशः। प्रथम भाषाया अवहट्ट(अपभ्रंश) भाषायास्तरण्डस्तरणिरित्यर्थः । 'पादालिन्दी तरण्डो नौः' इति हारावली । संस्कृते त्वाद्यकविर्वाल्मीकिः । प्राकृते शालिवाहनः । भाषाकाव्ये पिङ्गलः । अतएव प्रथमपदोपादानम् । प्रसिद्धं चैतल्लोके कथानकम्-एकदा शेषनागो ममोपरि कियती भूमिरस्तीति पृथिव्या विस्तारं जिज्ञासुः पिङ्गलनामा ब्राह्मणो भूत्वा भुवमवातरत् । अनन्तरं च गरुडः प्रसिद्धवैरत्वात्तं जिघत्सुर्दूरादधावत् । तदा पिङ्गलस्तमवादीत्-'अहं कविर्मम कौशलं पश्य यदेकत्र लिखामि न तदन्यत्रेति । यद्येकाकारमळू पश्यसि तदा मां खादिष्यसीति तेनानुमत एकाक्षरादिषड्विंशत्यक्षर (पर्यन्तं) प्रस्तारं कृत्वा समुद्रतीरपर्यन्तं गतवान् तं वञ्चयित्वा जलं प्रविवेश । अथ 'सांयात्रिक: पिङ्गल:स्याच्छेषनागोऽपि पिङ्गलः' इति कोषमहिम्ना स पिङ्गलः पोतवणिग्जयति । स कः । यो विशिष्टमतिहेलं यथा स्यात्तथा विविधया अनेकरूपमा मात्रा धनेन वाणिज्यं कर्तुं सागरपारं प्राप्तः । कीदृशः । प्रथममेव भासमानस्तरण्डो नोर्यस्य, भाभिः कान्तिभिरस्यते क्षिप्यते इति भासस्तादृशस्तरण्डस्तरिय॑स्येति वा । पुनः ज्ञातः । अर्थादन्यैः पोतवणिग्भिरित्यर्थः । गाथा छन्दः । तल्लक्षणं तु तत्प्रकरणे ज्ञातव्यमिति न लिख्यते ॥
२ एवमाचरितमङ्गलः संप्रति गुरुलघुविवर्त छन्दःशास्त्रं मन्वानस्तद्वयव्यवस्थां कुर्वन्नाह
दीर्घा:-आ, ई, ऊ, ऋ, ए, ओ, अं। स्वरान्तस्य प्राकृते ओकारादेशस्तेन तद्ग्रहणम् । तथा संयुक्तः परो यस्य एवंविधः पूर्वो वर्णः । प्राकृते एतावन्त एव । अत एवोक्तमभियुक्तैः-'एओअंमलपुरओ सआरपुढेहिँ वेवि वण्णाओ। कच्चतवग्गे अन्ता दह वण्णा पाउवे ण ह्वअन्ति ॥' अस्यार्थ:-ए ओ अंमल इति पञ्च वर्णानां पुरतः ऐ औ अ: य व इति पञ्चैव । सकारस्य पश्चाद्वावपि वौँ शषौ । कचतवर्गाणामन्त्यास्त्रयः डबनाः । संभूय दश वर्णाः प्राकृते न भवन्ति । चरणान्ते पातितो वा गुरुरिति । एवंविधो यो वर्णः स गुरुर्भवति । अत्र विकल्पार्थे चकारः । किंरूपो गुरुरित्यपेक्षायामुच्यते वक्रः अनृजुः । सोऽपि कतिमात्र इत्युच्यते -द्विमात्रो द्विकलः । उक्तं च-'गुरुस्तु द्विकलो ज्ञेयो नागदन्तसमाकृतिः' इति । अन्यो द्वितीयो लघुर्भवति । कीदृशः । शुद्धोऽवकः । एककल एकमात्रः । उक्तं च-'लघुस्तदन्यः शुद्धोऽसावेकमात्रः प्रकीर्तितः' इति । ताभ्यामेव गणापन्नाभ्यां प्रयोजनमिति । गाथा छन्दः ।।
३ तानुदाहरणेन दृढीकर्तुमाह
पार्वत्या शंभौ वृते विजयादीनामन्योन्यं संलापः । मातरयं वरो रूपेण हेयस्त्रिनेत्रत्वात् । हीनो जात्यादिना अलक्ष्यजन्मत्वात् । जीर्णश्च रोगादिना कण्ठस्थितविषत्वात् । वृद्धो वयसा । यद्वा अवृद्धोऽसमृद्ध इत्यर्थः । दिगम्बरत्वात् । देव: दीव्यति क्रीडतीति देवः पाक्षि(शि)कः । श्मशानवासक्रीडासक्त एतादृशः । तमपि शंभुं कामयमानाभिलषमाणा गौरी अहो ग्रहिलत्वमपि(ति) निर्बन्धं करोतीत्युपहासः । अत्र माईत्यादि दीर्घोदाहरणम् । हिण्णो जिण्णो इति संयुक्तपरोदाहरणम् । सं| (इति) सानुस्वारोदाहरणम् । कुणइ इत्यत्र पादान्तलघोर्गुरुत्वोदाहरणमिति । गाथा छन्दः ॥
४ एवं लक्षणेन गुरुलघूनुपलक्ष्य कुत्रचित्तयोरपवादमाह -
कुत्रचित्स्थले संयुक्तः परो यस्य एवंविधः पूर्वो वर्णो लघुरेव भवति दर्शनेन लक्ष्यानुरोधेन यथा । उदाहियत इति शेषः । युवतीनेत्रप्रान्ते संपन्नं चित्तधैर्य परिस्खलति । अत्र हू इत्यस्य संयुक्तपरस्यापेक्षया पूर्वस्य रिकारस्य गुरोर्लघुत्वम् । तथात्वे छन्दोभंगप्रसंगः । गाथा छन्दः ।।
५ अपवादान्तरमाह -
इकारहिकारौ बिन्दुयुतौ तथा एकारौकारौ च शुद्धौ एकलौ वर्णमिलितौ च तथैव रेफहकारावपि व्यञ्जनेन सह संयुक्ता अपि सर्वे गुरवोऽपि विकल्पेन क्वचिल्लघवो भवन्तीत्यर्थः । सिंहिणी छन्दः ॥
६ एतदेवोदाहरणेन दृढीकरोति जहा-यथा
मानिनि, मानेन किं फलं प्रयोजनं अथं यदि कान्तश्चरणयोः पतितः । तदा त्यजैनं निष्फलं मानमित्यर्थः । यदि स्वभावादेव भुजंगमः कामुको नमति स्त्रीभिः प्रियवशीकरणाय मणिमन्त्री किं क्रियते । न किमपीत्यर्थः । अर्थान्तरे च भुजंगमः सर्पो यदि स्वभावेनैव नमति शान्तो भवति तदा गारुडोद्गारिमणिमन्त्रौ कि क्रियते । अपि तु न किमपि । प्राकृते तु हिं काई इत्यत्र इकारहिकारौ बिन्दुयुतावपि लघूभवतः । केवलौ एकारौकारौ लघू । जे इत्यत्र जवर्णमिलित एकारोऽपि लघुः । एओ यदीत्यर्थे ।
७ रहवञ्जणस्स जहा-'रेफहकारव्यञ्जनयुक्तस्य यथा'
हे चेतः, त्वं स्वभावादेव चञ्चलमसि इदानीं तु सुन्दरीरूपे हदे पतत् (वलत्) पदमपि नान्यत्र ददासि । अतस्तव सहजमपि चाञ्चल्यं गतिमिति भावः । किं च रे अधम उल्लसत्पुनस्तत्रैव क्रीडसि । नापयासि तत इति भावः । कस्यांचिदप्राप्यायामासक्तस्य कस्यचिद्वचनम् । अत्र हसंयोगपूर्वस्य रि इत्यस्य लघुत्वम् । तथा हृसंयोगपूर्वस्य उकारस्य लघुत्वम् । गुरुत्वे छन्दोभङ्गः । दोहा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org