________________
परिशिष्ट (२) श्रीलक्ष्मीनाथभट्टविरचित "पिङ्गलप्रदीप" समाख्या व्याख्या
प्रथमः परिच्छेदः
गोपीपीनपयोधरद्धयमिलच्चेलाञ्चलाकर्षणश्वेलिव्याप्तचारुचञ्चलकराम्भोजं व्रजत्कानने । द्राक्षामञ्जुलमाधुरीपरिणमद्वाग्विभ्रमं तन्मनागद्वैतं समुपास्महे यदुकुलालम्बं विचित्रं महः ॥
लम्बोदरमवलम्बे स्तम्बेरमवदनमेकदन्तवरम् ।
अम्बेक्षितमुखकमलं यं वेदो नापि तत्त्वतो वेद ॥ गङ्गाशीतपयोभयादिव मिलमालाक्षिकीलादिव व्यालक्ष्वेलजफूत्कृतादिव सदा लक्ष्म्यापवादादिव । स्त्रीशापादिव कण्ठकालिमकुहूसांनिध्ययोगादिव श्रीकण्ठस्य कृशः करोतु कुशलं शीतद्युतिः श्रीमताम् ।।
विहितदयां मन्देष्वपि दत्त्वानन्देन वाड्मयं देहम् ।
शब्देऽर्थे संदेहव्ययाय वन्दे चिरं गिरं देवीम् ॥ भट्टश्रीरामचन्द्रः कविविबुधकुले लब्धदेहः श्रुतो यः श्रीमान्नारायणाख्यः कविमुकुटमणिस्तत्तनूजोऽजनिष्ट । तत्पुत्रो रामभट्टः सकलकविकुलख्यातकीर्तिस्तदीयो लक्ष्मीनाथस्तनूजो रचयति रुचिरं पिङ्गलार्थप्रदीपम् ।।
श्रीरामभट्टतनयो लक्ष्मीनाथः समुल्लसत्प्रतिभः ।
प्राय: पिङ्गलसूत्रे तनुते भाष्यं विशालमतिः ॥ जलौकसां तुल्यतमैः खलैः किं रम्येऽपि दोषग्रहणस्वभावैः । सतां परानन्दनमन्दिराणां चमत्कृति मत्कृतिरातनोतु ॥
यन्न सूर्येण संभिन्नं नापि रत्नेन भास्वता ।
तत्पिङ्गलप्रदीपेन नाश्यतामान्तरं तमः ॥ यद्यस्ति कौतुकं वश्छन्दःसन्दर्भविज्ञाने । सन्तः पिङ्गलदीपं लक्ष्मीनाथेन दीपितं पठत ॥
किंच मत्कृतिरियं चमत्कृति चेन्न चेतसि सतां विधास्यति ।
भारती व्रजतु भारतीव्रया लज्जया परमसौ रसातलम् ॥ १ ग्रन्थारम्भे ग्रन्थकृदभिमतसिद्धये छन्दःशास्त्राधिष्ठातृपिङ्गलनागानुस्मरणलक्षणं मङ्गलमाचरति
गरुडवञ्चनारूपगुरुबुद्धिमाहात्म्येन विविमलमतिहेलं वि: पक्षी गरुडस्तस्य विमला या मतिर्बुद्धिस्तस्या हेला अनादरो यस्मिन्कर्मणि एवं यथा स्यात्तथा स पिङ्गलः शेषनागो जयति । स कः । यो ज्ञातः । अर्थाद्गरुडेन । पिङ्गलनागोऽयं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org