________________
१९२]
प्राकृतपैंगलम् २०२. यथा ईसा इति । ईर्ष्यारोषप्रसादप्रणतिषु बहुशो स्वर्गगंगाजलैरामूलं पूरितया तुहिनकरकलारूपशुक्त्या रुद्रः ज्योत्स्नामुक्ताफलाट्टै नतमौलिनिहिताग्रहस्ताभ्यां अर्घ्यं शीघ्रं दददिव जयति गिरिसुतापादपंकेरुहयोः ।
२०२. अथ नरेंद्रः आइहि इति । एतन्नरेंद्रनामकं छंदः । यत्र आदौ पादगण आदिगुरुचतुष्कलगणः प्रकाशः । अनंतरं जोहलो रगणः स्थाप्यते । काहल शब्दगंधप्रभृतिकं लघो म । ते च सप्त दातव्याः । ततः कंकणो गुरुः । ततः शब्द एको लघुः, ततो नरपति गणः, ततः शंखो लघुः, ततो गुरुद्वयं । अथ च यदि नरेंद्रश्चलति तदा प्रथमं पदातयो यांति । ततः काहलशब्दो भवति । ततः सुगंधादिवस्तुसौरभो भवति । ततो मुनिगणा ब्राह्मणा यांति । ततः कंकणाद्यलंकरणं विलोक्यते । एका भेरी शब्दायते । पूर्यते शंखः । ततश्चामद्धयं प्रकाश्यते ।
२०४. यथा फुल्लिअ केसु इत्यादि सुकरं ।
२०५. अथ हंसी, विज्जूमाला इति विद्युन्माला आदीयते । ततस्त्रयो द्विजगणाश्चतुर्लघुगणाः कीदृशाः बहुगुणयुक्ताः । अंते कर्णो द्विगुरुर्गणः । कीदृशः शुद्धवर्णः । भणति फणिः पिंगलः, कीदृशः फणिपतिः, कविवरः, पुनः कीदृशः, गुणयुक्तः । यत्र द्वात्रिंशन्मात्रा भवंति, कीदृशाः, पदपदप्रकटितगुरुलघुशोभाः । एतत् हंसीनाम छंदः सकलबुधजनमनोहरशोभं ।
२०६. यथा णेत्ताणंदा इत्यादि सुगमं ।
२०७. अथ सुंदरी, जहि इति । एभिर्मात्राभिः पद्मावती पिंगलो भणति । एभि वर्णैः सुंदरीछंदो भवति । यत्र आदी हस्तोन्तगुरु: चतुष्कलगणः, ततः करतलोऽन्त गुरुचतुष्कलगण एव, ततः पादगणः आदिगुरुचतुष्कलगणः, ततो लघुद्वयं । कर्णगणो द्विगुरुर्गणः । ततश्चामरं गुरुं स्थापय । ततः काहलद्वयं लघुद्वयं । ततो वक्रो गुरुः, ततः शल्यद्वयं लघुद्वयं । पदांते शकगणो भण्यते । त्रयोविंशतिवणैरस्य प्रमाणसिद्धिः ।
२०८. यथा जण्हि वेअ धरिज्जे इत्यादि सुगमं ।
२०९. अथ दुर्मिला, दुर्मिला इति । दुर्मिला प्रकाशाय । वर्णान् विशेषय । फणींद्रेण पिंगलेन चारु यथा स्यादेवं गणा दृष्टाः । द्वात्रिंशन्मात्राभिर्भणिता यावत् अशेष सम्पूर्ण ज्ञात्वा । अष्टसु स्थानेषु सगणं स्थापय । अन्यो गणो न कियते । कीर्तिर्जायते। अन्योन्यगणो यदा क्रियते तदा अनेकप्रकारेण दूषणं लगति । त्रयो यतयो भवंति पदे दशसु अष्टसु ततश्चतुर्दशसु ।
२१०. यथा बहु दिज्जिअ इत्यादि सुगमं ।
२११. अथ किरीटः, ठावहु इति । किरीटनामकं छंदो विशेषय । यत्र आदौ शकगणः षट्कलगण: प्रथम स्थाप्यते । ततः शल्यद्वयं विसर्जय लघुद्वयं देहि । ततो नूपुर: गुरुः । ततः शब्दद्वयं लघुद्वयं कुरु । तथा नूपुरं गुरुः । एवमेव द्वादशगणान् कुरु, गुरुणा लघुद्वयेनेति अंते काहलयुगलं लघुद्वयं स्थापय । एवंप्रकारेण चतुर्विशति वर्णान् प्रकाशय । पदे पदे द्वात्रिंशन्मात्रा लेखय। अष्टौ भगणा भवंति ।
२१२. यथा वप्पअ भत्ति इत्यादि सुगमं ।
२१३. अथ द्वितीय त्रिभंगी, सव पअहि इति । त्रिभंगी भण, कि भूतां शुभांगी सज्जनाः सामाजिकाः । यत्र सकलपदेषु प्रथमं दशसु प्रियगणा भण्यते । ततः कांतो हस्त आदिगुरुः चतुष्कलगणः, ततो गुरुद्वयं, ततो वलयरूपो गणो गुरुः, ततो द्विलघुर्गणः ततो द्विगुरुः, हे गजगामिनि शशिमुखि करसंयुक्ता मात्राद्वयसंयुक्ताश्चत्वारिंशन्मात्रा यत्र पदे भवंति । गणयित्वा भण्यते । सकले छंदसि अष्टषष्ठ्यधिकशतं मात्रा भवंति ।
२१४. यथा जअइ इत्यादि सुकरं ।
२१५. अथ सालूरः, कण्णेक इति । सालूरनामकं छंदो भवति । प्रथम कर्णे द्विगुरुर्गणः एको दीयते । सरसपदं ध्रुवमेतच्छंदः परिपतति । तत्र यदने वक्ष्यमाणं तत्संस्थाप्य सुवरं शोभनानां मध्ये वरं श्रेष्ठ, हे सुभणिते हे मनोहरे हे रजनीप्रभुमुखि हे कमलनयने द्वात्रिंशन्मात्राः स्थापय । तस्यांते विलये करतलगणं पदे देहि । मात्रावर्णसुललितं मध्ये षट्चतुष्कलगणान्सर्वलघुगणान् कुरु इति कविदिनकरः भुजंगपादः कथयति ।
२१६. यथा जं फुल्लू इत्यादि सुकरं ।
प्रक्षेपशंकानिराकरणाय उक्तानां छंदसां नामानि संगृह्य कथयति सिरिकाम इति । श्रीः १ कामः २ मधुः ३ मही ४ सारः ५ ताली ६ प्रिया ७ शशी ८ रमणः ९ इति जानीत; पंचाल: १० मृगेंद्रः ११ मंदरः १२ कमलं १३ तीर्णा १४ धारी १५ नगाणी १६ संमोहा १७ हारीतबंधः १८ हंस: १९ यमकं २० शेष: २१ तिल्ला २२ द्वियोधा २३ तत: चौरंसा २४ मंथाना २५ शंखनारी २६ एतत्पर्यंत छंदोमिलितेत्यर्थः; मालती २७ दमनक: २८ समानिका २९ सुवासः ३० करहंच: ३१, ततः शीर्षरूपकं ३२ विद्युन्माला
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org