________________
परिशिष्ट (१)
[१९१
१८६. यथा पअ णेउर इत्यादि सुगमं ।
१८७. अथ शार्दूलशाटकं, मो सो जो इति । पिंगलकविः शार्दूलशाटकं ज्ञातवान् । यत्र मो मगणः, स: सगणः, जो जगणः, ततः सगणः, ततस्तगण एव ततोंते गुरुर्भवति । अत्रैकोनविंशत्यक्षराणि भवंति । तत्र पिंड: शरीरं सकलश्लोकस्तत्र कला विंशत्यधिकशतसंख्या भवंति । तत्रापि भागमाह । योनिरष्टाशीतिः, यनिर्जन्मस्थानं कलायाः स च गुरुरेव । अयमर्थः । गुरुसमवेता कला अष्टाशीतिः ८८, यत्र षट्सप्ततिर्वर्णाः । चत्वारः पादाः द्वात्रिंशत् रेखा एवं गणवर्णमात्रालघूनि कथयित्वा परिशेषात् गुरुसंख्या कथयति । एकचत्वारिंशत् नाम संख्यकाश्च गुरवो भवंति । एतेन शार्दूल इति संख्यया त्रयो गुरवः ।
१८८. यथा जे लंका इति । ये लंकागिरिमेखलातः स्खलिताः सम्भोगखिन्नोरगीफुल्लफणावलीकवलनेन दरिद्रत्वं प्राप्ताः इदानीं मलयानिला विरहिणीनि:श्वाससंपकिणः जाताः शिशुत्वेपि झटिति बहलास्तारुण्यपूर्णा इव ।।
१८९. तस्यैव लक्षणांतरमाह पत्थारे इति । शार्दूलशाटकं जानीहि । यत्र प्रस्तारे उट्टवनिकायां त्रीणि चामराणि श्रेष्ठानि त्रयो गुरवो भवन्ति । वर्णेनोज्वलानि दृश्यन्ते । तथा द्वौ लघू, ततश्चामरं गुरुः, तथा पुनर्गन्धो लघुः, ततस्त्रयो गन्धा लघवः, तथा त्रीणि चामराणि त्रयो गुरवोपि, ततो गंधो लघुः, ततो द्वे चामरे द्वौ गुरू शोभेते । ध्वजपट आदिलघुस्त्रिकलो गण इत्यर्थः ।
१९०. यथा जं धोअंजण इति । यद्धौतांजनशोणं लोचनयुगलं लंबालकाग्रं मुखं हस्ताकृष्टे केशपल्लवचये घूर्णन्ति यद्विन्दवः, यदेकं सिचयांचलं विवसितं तन्मन्ये स्नानकेलिस्थिता आनीता योगेश्वरेणैषा अद्भुतैकजननी ।
१९१. अथ चंद्रमाला, ठइवि इति । उरगकविः पिंगलो विमलमतिरुज्ज्वलमतिः चंद्रमालां कथयति । यत्र द्विजवरयुगलं स्थापयित्वा मध्ये करतलं अंतगुरुचतुष्कलगणं कुरु । ततोपि द्विजवरगणद्वयं कुरु । मध्ये करतलगणात् मध्ये यो करतलोंतगुरुचतुष्कलरूपो भूतः तस्माच्चतुर्लघुगणद्वयं कुर्वित्यर्थः । यत्र विमलं सगणं श्रुत्वा मनश्चेतो गर्ति स्थापयति नान्यत्र मनो यातीत्यर्थः ।
१९२. यथा अमिअ इत्यादि सुगमं ।।
१९३. अथ धवलांगः, कर इति । हे युवति विमलमते एतच्छंदः श्रुत्वा महीतले रसं करोति कविरिति शेषः । किं कृत्वा पदपदतले सगणं संस्थाप्य रमणेगिरे हे रमणं संभोगस्तस्य गिरे। यत्र चत्वारो द्विजगणाश्चतुर्लघुगणाः पादचतुष्टयेपि इति धवलांगनाम छंदः फणिपतिर्भणति । कीदृशः सरसमनाः शशिवदने हे इति संबोधनं । पुनः कीदृशं धवलैर्यतिभिर्लक्षितं । अथवा सरिस हति पाठ: तथा धवलैर्यतिभिः सदृशं समानमिति ।
१९४. यथा तरुणतरणि, इत्यादि सुगमं ।
१९५. अथ शंभुः, अवलोआसुं इति । इदं छंदः शंभुनामकं अवलोकय । यत् श्रुत्वा मनसि सुखं भवति । अंते चतुष्कलगणं चतुष्टयानंतरं सुप्रियं द्विलघुगणं स्थापय प्रथमं हस्तमंतलघुचतुष्कलगणं देहि । ततः कुन्तीपुत्रो द्विगुरुर्गणो योजितः । एवमेवाग्रे पुनर्गणद्वयं देहि । अंते गुरुचतुष्कलगणादनंतरं द्विगुरुगण एव पुनर्दीयतामित्यर्थः । सुप्रियगण इति प्रथममुक्तं । ततः सप्त हारा सप्त गुरवो प्रदीयन्तां । एवं पदे द्वात्रिंशन्मात्रा भवंति ।
१९६. यथा सिअविट्ठी इत्यादि सुकरं ।
१९७. अथ गीता, जहि इति । हे मुग्धे एतच्छंदो गीतानामकं गीतं । सकललोकैः परिगृहीतं । कविसृष्टिसृष्टं यदा कवीनां सृष्टिः कृता तदैव तदपि, कविजनानामिदमतिग्राह्यमित्यर्थः । दिष्ट्या भाग्येन दृष्टं पिंगले व्याख्यातं । यत्र छंदसि आदौ हस्तोतगुरुचतुष्कलगणः । पंचगणो यत्र जोहलो रगणः । तस्यांते हस्तो गणः अंतगुरुचतुष्कलगणः । ततः शब्दो लघुः ततोंते शेषे नूपुरं गुरुः ।
१९८. यथा जहि फुल्लु केअइ इत्यादि सुकरं ।
१९९. अथ गंडकः, रगण इति । एवं गंडकनाम छंदो गणय । अतिसंकटमेतच्छंद: फणींद्रो गायति । यत्र छंदसि प्रथम रगणः पतति । पुन: नरेंद्रो जगणः कांत: सुंदरः । एवमेव रगणजगणाभ्यां गणषट्कं कुरुत । तत एकं हारं मंत्रयस्व । ततः शोभन: शब्दो अंते देयः । एवं सति त्रिंशन्मात्राः पादे प्राप्ता भवंति । एतासां मात्राणां तृतीयभागो हारो गुरुः । दश गुरवो दश लघवः भवंतीत्यर्थः।
२००. यथा ताव बुद्धि इत्यादि ।।
२०१. अथ स्रग्धरा, कण्ण इति । स्रग्धरा फणिना पिंगलेन शुद्धा भणिता । यस्यां द्वौ कौँ गुरुगणौ, ततो गंधो लघुः, ततो हारो गुरुः, ततो द्विजगणः, ततो हस्त: अंतगुरु: चतुष्कलगणः, ततो हारो गुरुः, तत एक: शल्यगणो लघुः, ततः कर्णो द्विगुरुर्गणः, ततो ध्वजगण आदि लघुस्त्रिकलगणः, ततः कंकणगणो गुरुः, यत्रैकाधिकविंशति लघुगुरू भवतः । तत्र द्वादश गुरवः । पिंड: सकलश्लोकस्थकलारूपो द्वात्रिंशदधिकशतसंख्यो भवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org