________________
१९०]
प्राकृतगलम् १६८. यथा सज्जिअ जोह इत्यादि सुकरं ।
१६९. अथ चञ्चला, दिज्जिअ इति । चंचला फणींद्रेण पिंगलेन दुर्लभा निम्मिता कृता यत्र सुपर्णचक्रं मध्यलघुपञ्चकलो गणो दीयते । ततः एकः पयोधरो जगणः । एवं प्रकारेण रगणजगणकृतपञ्चगणा भवंति सकलमनोहराः । अंतो गंधो लघु: दीयते। षोडशभिरक्षरैर्भवति । - १७०. यथा कण्ण पत्थ इत्यादि सुकरं ।
१७१. अथ ब्रह्मरूपकं, जो लोआणं इति । यच्छन्दोज्ञानां वर्तते । हे बिंबोष्ठे, हंसाकारं सर्वगुरुत्वात् । गुरुरपि हंसाकारो वक्रो भवति । सुष्ठ कृत्वा ज्ञातं नाथमर्थाच्छन्दसां यदुच्यते । कंदरूपेणोत्थापितं । कंदनामकं एतादृशमेव भवति । अष्टभिः कर्णगणैर्लक्षितं । अष्टभिर्द्विगुरुगणैर्लक्षितमित्यर्थः । सारतरं श्रेष्ठतरं छन्दसि, गीयते कांतं सुंदरं वृत्तं छन्दः सकललोकैः सम्मानितं । ब्रह्मरूपकं नाम । अथ च यो लोकानां वर्ततेऽविद्विष्टोऽविरुद्धः । हे बिंबाधरे, हंसे स्थितः सुज्ञो नाथ: कंदं सृष्टिकारणकलापमुत्पादयन् अष्टभिः कर्णैर्लक्षित: सारतर: श्रेष्ठः । छन्दोवेदं गायन् कांतवृत्तः सुन्दव्यापारः सर्वैः संमानितः स ब्रह्मरूपं प्रकाशयित्वा व्याख्याति ।
१७२. यथा उन्मत्ता जोहा उढे कोहा इत्यादि सुगमं ।
१७३. अथ पृथ्वी, पओहर इति । पृथ्वीनाम छन्दो ज्ञायते यत्र पयोधरः जगणः प्रथमं स्थितः ततो हस्तश्चतुष्कलगणो दीयते । पुनरपि जगणांतगुरुचतुष्कलः स्थापितः तत एको गंधो लघुर्दीयते । ततो वलयद्वयं गुरुद्वयं पतति । ततो विमलविशिष्टः शब्द एको लघुः । ततो हारो गुरुः पतति । चतुरधिकविंशति कलाश्चात्र भवति ।
१७४. यथा झणज्झणिअ इति । झणझणायमानभूषणं रणरणत्कांचिगुणं सहासमुखमुखपंकजं अगुरुधूपधूमोज्वलं ज्वलन्मणिदीपकं मदनकेलिक्रीडासर: निशामुखमनोहरं युवत्या गृहं राजते शोभते ।
१७५. अथ मालाधरः, पढम इति । फणिसारः फणिश्रेष्ठो भणति मालाधरछन्दो जानीहि । यत्र प्रथमं विप्रश्चतुर्लघुर्गणो दीयते ततो भूपतिर्जगणः स्थाप्यते । ततो यश्चरण आदिगुरुश्चतुष्कलगणः ततोपि भूपतिर्जगण: प्रदत्तः चामरद्धयाधिकं गुरुद्वयाधिकं यथा स्यादेवं विमलो गंधो लघुस्ततो हारो गुरुः स्थाप्यते । उज्ज्वलं छन्द इत्यर्थः ।
१७६. यथा वहइ इत्यादि सुकरं ।
१७७. अथ शिखरिणी, धआ कण्णा इति । हे कमलमुखि एषा शिखरिणी नाम छंदः, यत्र आदौ ध्वजः, ततो द्वौ कर्णी, ततः सुप्रिययुगलं लघुद्वयात्मकं गणद्वयं, ततो गंधो लघुरेकः, ततो गुरुः पुनरपि हारः, ततश्चतुश्चरणे नारी इति त्रिलघोर्नाम अंते च चामरं गुरुः । सप्तदश वर्णाः नवैव लघवः अष्टौ फणिना गुरवः, फणिराजः पिंगलो जल्पति ।
१७८. यथा परं जोण्हा उण्हा इत्यादि सुकरं ।
१७९. अथ मुक्ताहारः, दिअपिअ इति प्रथमं विप्रः । ततः सुप्रियं लघुद्वयं ततो गुरुः, ततो गंधो लघुः, ततः कर्णो द्विगुरुर्गणः, ततः लकारो लघुः स्थापितः ततः पुनश्च गुरुयुगं ततो लघुः ततो गुरुयुगलं शंखं लघुः ततो हार एकः । हे कमलमुखि मौक्तिकहारं फणिपतिर्भणति हे प्रिये ।
१८०. अथ अमिअ इत्यादि सुगमं ।
१८१. अथ मंजीरा, कुंतीपुत्ता इति । सर्पराजः पिंगल: शुभकाय: शुद्धशरीरो ध्रुवामव्यभिचारिणी मंजीरां जल्पति । यत्र त्रयः कुंतीपुत्रा द्विगुरुगणा. एकस्मिन् पादे चरणे मस्तके प्रथम स्थाप्यन्ते दीयंते, ततो हारो गुरुः, ततो हस्तोतगुरुश्चतुष्कल गणः, ततः कंकणद्वयं गुरुद्वयं, ततो गंधद्वयं लघुद्वयं, चत्वारो हारा चत्वारो गुरुवः पादा यत्र सज्जन्ते । कीदृशः पिंगलः भव्याकारः ।
१८२. यथा गज्जे मेहा इत्यादि सुगमं ।
१८३. अथ क्रीडाचंद्रः, जे इंदासण इति । फणींद्रः पिंगलः क्रीडाचंद्रनामकं छंदो भणति । निबद्धं निबद्धृभिः छंदो ग्रंथो यत्र । इंद्रासणं पंचकलगणः परं पादे भवति नान्यो गणः । सुखयति सुखं ददाति । तत्राष्टादशसंख्यास्तरंडा अक्षराणि स्थाने शोभंते । यत्र कलाश्च दशत्रिगुणास्त्रिंशत्संख्या भवंति । एतेनैतदुक्तं भवति । अष्टादशभिरक्षरैर्यत्र त्रिंशन्मात्राः कार्या इति ।
१८४. यथा जहा भूत वेताल इत्यादि सुगमं ।
१८५. अथ चर्चरी, आइ रगण इति । हे सुंदरि नागराजः चर्चरी भणति । किं भूतां मनोमोहनां यां श्रुत्वा मनो मोहमायाति । यत्र आदौ रगणः । ततो हस्तोन्तगुरुचतुष्कलगणः । ततो काहलो लघुः । ततो मध्ये तालं आदिगुरुत्रिकलगणं देहि । ततो षष्ठो लघुः हारो गुरुश्च स्थानद्वये पतति सर्वलोकविबुद्धा सकललोकज्ञाता चर्चरीत्यर्थः । ततः काहलद्वयं लघुद्वयं ततो गुरुः । ततः शंखं लघु ततोपि कंकणं गुरुं पूरय ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org