SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट (१) [१८९ चरणगण आदिगुरुचतुष्कलगणः प्रकाशितः । ततो द्विजवरगणयुगलं चतुर्लघुगणद्वयं संस्थाय, ततः करतलगणोन्तगुरुचतुष्कलगण: प्रतिपादशेषे ज्ञातः । १५०. यथा खंजण इत्यादि सुकरं ।। १५१. अथ भ्रमरावली, कर पंच इति । भ्रमरावलीनाम छन्दः प्रसिद्धं । कीदृशं पञ्चकैरंतगुरुचतुष्कलगणपञ्चकैः प्रसिद्ध ख्यातं प्रसिद्ध प्रभणति पिङ्गलः । किं भूतं मनोहरं सुन्दरं । छन्दोवरं छन्दः श्रेष्ठं । रत्नं रत्नवत् । यत्र पञ्च गुरवो दश लघवो भवन्ति । एतादृशमेव योजितं । १५२. यथा तुअ देउ इति । तव देवदुरितगणहरणौ चरणौ यदि प्राप्नोति । चन्द्रकलाभरणौ शरणौ । चन्द्रकलाभरणौ इत्येतेन चरणस्य नखा: चन्द्रकलावत् वर्णिताः । एतादृशौ चरणौ परिपूजयामि लोभेन । तेन पुण्येन परित्यजामि शोकविनाशमनस्कं शमनं । १५३. अथ सारंगिका, कण्णा इति । सारंगिकाछन्दो ज्ञायते, भोगीराजः पिङ्गलो जल्पति । यत्र सप्त कर्णा द्विगुरवो गणा दत्तास्तदंते शेषे एको हारो गुरुदत्तः । पंचदश हारा गुरवो यत्र पदे त्रिंशन्मात्रा भवन्ति । एतच्छन्दश्चतुष्टयेन कृतेन कृत्त्वा कीर्तिर्गृह्यते। यः शृणोति स शिर:कंपं करोति । १५४. यथा उम्मत्ता जोहा इत्यादि सुकरं । १५५. अथ चामरः, चामरस्स इति । चामरस्य छन्दसस्त्रयाधिकविंशति मात्रा भवंति तासु अष्ट हारा गुरवोऽन्तरांतरा भवंति । सप्त सारा लघवो निर्मलाः । अत्र चादौ अंते च गुरुः सार: ज्ञातः । हे कामिनि पंचदशाधिकैरक्षरेतच्छंदो भवतीति पिंगलेन भण्यते । १५६. यथा झत्ति जोह इत्यादि सुकरं । १५७. अथ निशिपालः, हार करु इति । सर्पपिंगलो निशिपालं भणति काव्यमनाः, अत्र हारो गुरुः क्रियते । ततस्त्रयः शरा लघवः एवं प्रकारेण गणत्रयं कुरु, अंते शोणं न कुरु । एवं पंचगुरवः द्विगुणास्तेषां लघवो दश संख्या भवंति । हे चंद्रमुखि सखि अत्र विंशति संख्या लघूनां जानीहि । १५८. यथा जुज्झ भड इत्यादि सुकरं ।। १५९. अथ मनहंसः, जहि इति । मनोहंसनामकं छंदः प्रसिद्ध पिंगलेन व्याख्यातं यत्रादौ हस्तो गणोन्तगुरुचतुष्कलगणो भवति । ततो द्वौ नरेंद्रौ जगणौ दीयेते । ततः एको गुरुः दीयते । ततः काहलद्वयं लघुद्वयं क्रियते ततो गुरुं स्थापयित्वा गंधो लघुर्दीयते, ततोन्ते गुरुः स्थाप्यते । -१६०. अथ जहि फुल्लु इति सुकरं । १६१. अथ मालिनी, पढम इति । मालिणीनाम छंदो भण; किं भूतं रससहितं षड्भिः कलाभिः इत्यर्थः । द्वितीयस्थाने निबद्धः ततः शरो लघुः । ततो गुरुद्वयं ततो गन्धो लघुः । ततोन्ते कण्णो द्विगुरुर्गणो यत्र निबद्धः । सरसे सहिते इति नायिकासंबोधनं । कीदृशां चित्तपदे निबद्धां लिखितामित्यर्थः ।। १६२. यथा वह इति । वहति मलयवातः हंत कंपते कायः हंति श्रवणरंध्र कोकिलालापबंधः, श्रूयते दशसु दिक्षु शृंगझंकारभारः । हंति हंति हंजे चेटि चंड: प्रचण्डचाडांलरूपो मारः । १६३. अथ शरभः, भणिअ इति । फणिपतिना पिंगलेन शरभनामकं छन्दो भणितं । यत्र सुप्रियगणो द्विलघुर्गणः प्रथम भणितः । ततो रसगणेन षट्कलसर्वलघुगणेन सहितं ततो द्वौ करतलौ द्वौ चतुष्कलगणौ पदे लघोः प्रकारान्तरमप्याह चत्वारः चतुष्कलगणाः प्रतिपदं ज्ञाताः । हे सुप्रिये गणय जानीहि । १६४. यथा तरल इत्यादि सुकरं । १६५. अथ नाराचः, णरेंद इति । नाराचनामकं प्रसिद्ध छंदः पिंगलेन जल्पितं । यत्र नरेंद्रो जगणः सबलो मिलित: ततः सुपर्णचक्रं मध्यलघुपंचकलो गणो दृश्यते पुनरेवमेवं जगण: मध्यलघुपंचकलो दृश्यते, पंचमे स्थाने पदातिगणो मध्यगुरुचतुष्कलगणो भवति । अंते हारो गुरुर्भवति । पदे चतुरधिकविंशति मात्रा भवंति । अत्र हारश्चारु यथा स्यादेवं सार उत्कृष्टः पतति ज्ञायते, अत्र गंधा लघवोऽष्टौ बंधवो गुरवोऽष्टौ । १६६. यथा चलंत जोह इत्यादि सुकरं । १६७. अथ नीलः, णील इति । हे रमणि नीलस्वरूपकं जानीहि । द्वाविंशतिभिर्मात्राभिः पंच भगणा: पदे प्रकाशिता यत्र एतादृशेन लक्षणेन अन्ते हारो गुरुः स्थितः मात्राणां द्विपंचाशदधिकशतत्रयमत्र भवति । एतेनैतदुक्तं छंदश्चतुष्टयेनैतच्छंदः कर्तव्यं नैकमिति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001440
Book TitlePrakritpaingalam
Original Sutra AuthorN/A
AuthorBholashankar Vyas, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Text Society Ahmedabad
Publication Year2007
Total Pages690
LanguagePrakrit, Sanskrit, Hindi, Apbhramsa
ClassificationBook_Devnagari & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy