________________
१८८ ]
प्राकृतपैंगलम्
१२६. यथा भंजिआ इत्यादि सुकरं ।
१२७. अथ तोटकं, सगण मुअ इति । इह छंदशास्त्रे पिंगलेन रचितं योग्यं तोटकनाम छंदो भणितं यत्र ध्रुवं निश्चितं चत्त्वारः सगणाः पतंति । गणे पदे षोडशमात्रासु वियमकरं ।
१२८. यथा चल गुज्जर कुंजर इत्यादि सुकरं ।
१२९. अथ सारंग, जा चारि इति । तत्सारंगनामकं रूपकं पिंगलेन दृष्टं । यत् चतुस्तकारसंभेदेन उत्कृष्टं विभक्तिमित्यर्थः । यत् पदे विश्रामत्रयेण युक्तं न ज्ञायेत कांतिरस्य छंदसोऽन्योन्यभागेन ।
१३०. यथा रे गोड इत्यादि सुकरं ।
1
१३१. अथ मौतिकदाम, पओहर इति मौक्तिकदाम छंदो भवति । यत्र चत्वारः पयोधरा जगणाः प्रसिद्धाः प्रयाधिकास्त्रयोदशमात्रा यत्र भवति । षोडश मात्रा भवतीत्यर्थः । न अत्र पूर्वं प्रथमं हारो गुरुर्न वा अंते । अत्र षट्पंचाशदधिकाः शतद्वयं मात्रा भवंति ।
१३२. यथा कआ भउ इत्यादि सुकरं ।
१३३. अथ मोदक, तोडअ इति मोदकच्छन्दसो नामानि जानीत । यत्र तोटकच्छन्दसो विपरीता गणाः स्थाप्यते । तत्र सगणचतुष्टयं प्रसिद्धं भवति सगणो यदि विपरीतः क्रियते तदा भगण एव भवति । कीर्तिलुब्धः पिंगलो जल्पति ।
१३४. यथा गज्ज इत्यादि सुकरं ।
१३५. अथ तरलनयनी, जगण इति सुकवयः कमलानि तत्र रविः सूर्यः फणि पिंगल: तरलनयनीं भणति यत्र चत्वारो नगणा भवंति । सर्वे लघव एवात्र भवंति । गुरुर्यत्नादपि नात्र निरूप्यते ।
१३६. यथा कमलणअण इत्यादि सुकरं ।
१३७. अथ सुन्दरी, णगण इति । हे सुमुखि पिंगलेन सुन्दरी कथिता । यत्र नगणस्त्रिलघुर्मणः ततश्चामरं गुरुः, ततः शल्ययुगलं लघुद्वयं भवति । अत्र एको रगणः पदांते दृष्टः ||
१३८. यथा वह इत्यादि सुकरं ।
१३९. अथ माया, कण्णा दुण्णा इति । माया भणिता । यत्र द्वौ द्विगुरुगणौ ततचामरं गुरुस्ततः शल्ययुगं लघुइयं ततो द्वौ दीर्घौ गुरू ततो गन्धद्वयं लघुद्वयं प्रपद्यते। अंते शेषे चामरं गुरुनंतरं हाये गुरवः शोभनकाया सुन्दर शरीराः । यत्र गुणयुक्ताः छन्दोयुक्ता द्वाविंशतिर्मात्रा भवति ।
१४०. यथा ए अत्थीरा इत्यादि सुकरं ।
१४१. अथ तारका, दुइ इति । हे सखि तारकनाम्नः छन्दसो नाम भण्यते पदे आदौ लघुद्वयं स्थापय ततो गुरुस्तदनंतरं शल्ययुतं लघुद्वयं च । ततोपि गुरुर्लघुद्वयमेव दीयते । पदांतं प्राप्य गुरुद्वयं कियते ।
१४२. यथा णवमंजरि इत्यादि सुगमं ।
१४३. अथ कंद, धआ इति कवीशेन पिंगलेन नागेन कलामयेन छन्दो जल्पितं । ध्वज आदिलघुकिलो गणः । ततस्तूर्यमादिगुरुस्त्रिकलः । ततो हारो गुरुस्ततो गुरुरनंतरं काहलो लघुस्ततः कर्णो द्विगुरुर्गणः । ततो लकारो लघुरेको यत्रास्ति सकले च पदचतुष्टये चतुरधिका अशीतिर्मात्रा भवंति ।
१४४. यथा ण रे कंस इत्यादि सुकरं ।
१४५. अथ पंकावली, चामर इति पिंगलो नाग: पंकावली प्रभणति । यत्र प्रथमं चामरमेको गुरुः । तत यो यगण: पञ्चकलो गणः । ततः शल्यगण एक लघुर्गणः ततश्चरणद्वयं आदिगुरुचतुष्कलगणद्वयं स्थापय । प्रतिपदं षोडश मात्रा ज्ञायंते ।
१४६. यथा सो जण इत्यादि सुकरं ।
१४७. अथ वसंततिलका, कण्णो इति । फणिना पिंगलेन वसंततिलकं नाम छन्द उक्तं किं भूतं उत्कृष्टं विदग्धा सरसा रससहिताः छन्द इदं पठंति । शुभवर्णं शुभाक्षरं । यत्र प्रथमे गणे गणो द्विगुरुर्गणः प्रकटः, द्वितीय गणे जगण:, तृतीये तु रगणश्चतुष्कलः, ततः सगणः ततो यगणः पादे चरणे भवति ।
१४८. यथा कश्चित् कामपि नायिकां दृष्ट्वा मुग्धः सखायं बोधयति जे तीअ इति । ये तस्यास्तीक्ष्णचलच्चक्षुस्त्रिभागदृष्टाः, ते कामचंद्रमधुपञ्चममारणीयाः येषु पुनः पतिता सकलापि दृष्टिः, वर्तन्ति ते तिलजलांजलिदानयोग्याः । ते मृता एव भवतीत्याशयः । १४९. अथ चकपदं संभणिअ इति । चकपदनामधेयं छन्दो भवति । फणिपतिना पिंगलेन एतद्भणितं । तत्र चक्रपदे प्रथमं
·
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org