________________
परिशिष्ट (१)
[१८७
१०६. यथा रंडा इति । रंडाचंडादीक्षिता धर्मधारा मद्यं मासं पीयते खाद्यते च । भिक्षा भोज्यं चमखण्डं च शैय्या(शय्या) कौलो धर्मः कस्य नो भाति रम्यः ।
१०७. अथ दमनकः, दिअवर हति । फणिभणितं दमनकं भण्यते । यत्र द्विजवरं द्विजयुगं चतुर्लघुगणद्वयं भवति । ततो लघुद्वयं भण्यते पदे पदे वलयं गुरुं परिस्थापय अंते इति शेषः, चतुःपदे चतुर्वसुकलं द्वादशकलमित्यर्थः ।
१०८. यथा पअलिअ इत्यादि सुकरं ।।
१०९. अथ सेनिका, तालणंद इति । नागराजेन पिंगलेन जल्पिता एषा सेनिका । यस्यां तालो गुरु दो लघुः समुद्रसंख्यस्थाने स्थानचतुष्टये । ततो योधगणेन रगणेन पूर्णा, शेषे रगणो भवतीत्यर्थः । अत्र एकादशाक्षराणि जायते ।
११०. यथा भक्ति इत्यादि सुकरं ।
१११. अथ मालती, कुंती इति । नागेशो मालतीनाम छंदो जल्पति । यत्र कुंतीपुत्रा कर्णगणाः पंच ज्ञायते । अंते शेषे कांतः सुंदर एको हारो गुरुर्जायते । पदे द्वाविंशतिर्मात्रा भवंति ।
११२. यथा ठामा इति । स्थाने स्थाने हस्तीयूथा प्रेक्ष्यते । यथा मेघा मेरुशंगे दृश्यंते । वीरहस्ताग्रे खड्गा वर्तन्ते यथा विद्युन्मेघमध्ये नृत्यति ।
११३. अथेंद्रवज्रा, दिज्जे इति । फणींद्र इंद्रवज्रां जल्पति ध्रुवं निश्चितं । यत्र हीरकयुगलं पदेषु दीयते हीरक इति पंचकलगणस्य नाम । अंते तदनंतरं नरेंद्रो जगणः । ततः शेषे पदावसाने गुरुद्वयं । पदे मात्राश्चाष्टादश संख्या भवंति । समानाधिका इत्यर्थः । सुसज्जिता शोभनीकृत्य सज्जिता लिखिताः ।
११४. यथा तंत इति । तंत्र मंत्रं न किमपि जाने, ध्यानं च न किमपि गुरुप्रसादात्, मध्यं पिवामि महिला रमामि, मोक्षं च यामि कुलमार्गलग्न इति कस्यचिद् योगिनो वचनं ।
११५. अथोपेंद्रवज्रा, णरेंद्र इति । फणिराजेन उपेंद्रवज्रा दृष्टा छेका विदग्धास्तां पठति । शभाक्षरनिबद्धां इत्यर्थः । यत्र एको नरेंद्रो जगणोऽनंतरं शोभननिर्मितस्तगणः ततः पयोधरो जगणः । ततः कर्णगणो द्विगुरुगणो ज्ञायते ।
११६. यथा सुधम्म इति । येषां धर्मैकचित्ता गुणवंतः पुत्राः स्वधर्मानुरक्तं विनीतं कलत्रं विशुद्धो देहः । नियुक्तं गृहं । एतादृशाः के वर्वरा मूर्खाः स्वर्गे स्नेहं कुर्वन्ति ।।
.. ११७. अथ उपजाति, चउ इति । चतुरक्षरस्य प्रस्तारं कुरु । इंद्रवज्राया उपेंद्रवज्रायाश्च लघुगुरुं जानीहि । मध्ये सर्वगुरुसर्वलघुगणयोर्मध्ये चतुर्दश उपजातयो भवंति । पिंगलो जल्पति किमिति व्याकुलीभवति जनः ।
११८. यथा बालः कुमार इत्यत्र पदद्वयमिंद्रवज्राया लक्षणेन पदद्वयमुपेंद्रवज्राया लक्षणेन । अर्थस्तु सुकरत्वान्न लिखितः ।
११९. तासां नामानि कित्ती इति । कीर्तिः १ राज्ञी २ माला ३ शाला ४ हंसी ५ माया ६ जाया ७ बाला ८ आर्द्रा ९ भद्रा १० प्रेमा ११ रामा १२ ऋद्धि १३ बुद्धिः १४ इति तस्या नामानि ।
१२०. अथ विद्याधरः, चारी इति । नागराजः पिंगलो विद्याधरनामछंदो जल्पति । किं भूतं सकलछंदसि सारं उत्कृष्टं । यत्र चत्वारः कर्णा द्विगुरवो गणाः पादे दत्ताः, सकल श्रेष्ठं भवति । पदांते शेषे चत्वारो हारा गुरवो दीयंते । एवं सति पदचतुष्टये षण्णवति मात्रा भवंति प्राप्ताः पर्याप्ताः ।।
१२१. यथा जासू कंठा इत्यादि सुकरं ।
१२२. अथ भुजंगप्रयातं, धओ इति । भुजंगप्रयातं छंदो भवति । यत्र ध्वज आदिलघुस्त्रिकलो गणः । ततश्चामरं गुरुरेकः । एवं प्रकारेण गणचतुष्टयं । ततः शेषे गुरु: एतच्छंदश्चतुष्टयेन कर्तव्यं षोडशपदात्मकमित्यर्थः । शुद्धदेहं । अस्य पदे विंशति मात्रा भवंति ।
१२३. अहिगण इति । चत्वारि अहिगणा आदिलघुपंचकला गणाः प्रसिद्धाः षोडशभिश्चरणैः पिंगलः कथयति । त्रीणि शतानि विंशत्यधिकानि मात्रा भवंति । कीदृशानि संख्यया समग्राणि ।
१२४. यथा महामत्त मातंग इत्यादि सुकरं ।।
१२५. अथ लक्ष्मीधरः, हार इति । एवं रूपेण लक्ष्मीधरो ज्ञातः यत्र हारो गुरुः, ततो गंधो लघुः, ततः कर्णो द्विगुरुर्गणः, ततः पुनर्गन्धो लघुः, ततः कर्णो द्विगुरु गणः, ततः शर: लघुः, ततस्तकारस्तगणः, ततो गुरुर्भवति । उदृवनिकायाः प्रकारान्तरमाह। चत्वारो जोहलगणाः अत्र भवंति । नागराजः पिंगलो भणति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org