________________
प्राकृतपैंगलम्
८३. यथा चल इति । चंचलकमलनयना स्खलति स्तननिवसनं यस्या । हसति परनिकटे । असती ध्रुवं वधूटी । ८४. अथ बिंबा, रइअ इति । एषा फणिना बिंबा रचिता यस्यां सर्वशेषे गुरु युगलं गुरुद्वयं । शिरसि प्रथमं द्विजवरश्चतुर्लघुर्गणः । मध्ये राजा जगणः । गुणनांक: एवं स्वभावा बिबेत्यर्थः ।
१८६]
८५. यथा चल इति । चलति चलं चंचलं वित्तमेतत् । नश्यति तरुणत्ववेषः सुपुरुषगुणेन बद्धा स्थिराऽवतिष्ठते कीर्तिः । तस्मात्कीर्तिरुपार्जनीयेति भावः ।
८६. अथ तोमर, जसु इति । प्रभणति नागनरेंद्रो नामराजः । एवं जानीहि तोमरछंदः । यत्रादौ हस्तचतुष्कलो गणो विजायते । ततो द्वौ पयोधरौ जगयौ जानीहि ।
८७. यथा चलि इति । चलित्वा चूते कोकिलशावः मधुमासे पंचमं गायति । न खलु कांतोऽद्याप्यायाति ।
८८. अथ रूपमाला, णाअ । राआ इति नागराजो जल्पति सारं । चत्वारः कर्णा द्विगुरवो गणा यत्र अंते हारो गुरुः । यस्या पादे अष्टादश मात्रा भवंति तत् छंदो रूपमाला इति जल्पितं ।
८९. यथाच्च जं णच्चे इति । यथा नृत्यति विद्युत् । मेघोंधकारः, प्रफुल्लिता नीपाः, शब्दायंते मयूराः, वीजयंते मंदाः शीता: वाताः, कंपते कायः, कांतो नायातः ।
९०. अथ संयुक्ता, जसु इति । तत् छंदः संयुक्तनामकं स्थापितं । यस्य आदौ हस्तोन्तगुरुः चतुष्कलगणो विज्ञातः । ततः पादद्वयं विज्ञायते । गुरुरंते यस्य पिंगलेन जल्पितः ।
९१. यथा तु इति । त्वं याहि सुन्दरी आत्मना परित्यज दुर्ज्जनस्थापनां । विकसती केतकीसंपुटं निभृतमेवागमिष्यति वराकोऽनुकंप्य ।
९१. अथ चंपकमाला, हार इति । चंपकमाला छंद इति उच्यते । यत्र हारो गुरुः प्रथमं स्थाप्यते । ततः काहलद्वयं लघुद्वयं । ततः कुन्तीपुत्रो द्विगुरुर्गणः । गुरुसंयुक्तः । ततो हस्तोंत्यगुरुः चतुष्कलगणः क्रियते । ततो हारो गुरुः स्थाप्यते ।
९२. यथा ओगरभत्ता इत्यादि सुगमं ।
९३. अथ सरस्वती, दीह इति । ध्रुवं निश्चितं सरस्वतीनाम छंदः कथितं यत्र दीर्घो गुरुः । ततो लघुद्वयं ततो दीर्घः । ततो लघुरेकः । अंते पयोधरो जगणः । ततो ध्वज आदिलघुस्त्रिकलगणः । एवं चतुर्दशमात्रा भवंति ।
९४. यथा पुत्त इत्यादि सुकरं ।
९५. अथ सुषमा, कण्णो इति । एषा सुषमा छंदसि दृष्टा । यत्र प्रथमं कर्णः प्रकटः । द्वितीयो हस्तोन्तगुरुश्चतुष्कलः । तृतीयः कर्णः । चतुर्थ: पुनर्हस्तः । पदे षोडश कला भवंति । तासु षट् वलया गुरवः ।
९६. यथा मउहा इत्यादि ।
९७. अथ अमृतगतिः, दिअवर इति । अमृतगतिर्ध्रुवं कथिता यत्र द्विजवरश्चतुर्लघुर्गणस्ततो हारो गुरुः प्रकटितः । पुनरपि तथैव कृतः द्विजवरगणानंतरं गुरुरित्यर्थः । एवं सति अष्टौ लघवो द्वौ गुरू यत्र भवंति ।
९८. यथा सरअ इत्यादि सुकरं ।
९९. अथ बंधुः, णील इति । बंधुः क्रियते । किंभूतः । नीलस्वरूपः । यथा नीलनामकं छंदस्तथैव अत्र त्रयो भगणा भवंति । गुरुद्वयं अंते कुरु । षोडश मात्रा पदे पदे स्थाप्यते ।
१००. यथा पंडउ इत्यादि सुकरं ।
१०१. अथ सुमुखी, दिअवर इति । सुमुखी कविजनवल्लभा भवति । यस्यां द्विजवरश्चतुर्लघुर्गणस्ततो लघुद्वयं । ततो वलयं गुरुं परिस्थापय । ततो हस्तोन्तगुरुश्चतुष्कलगणः । पादे चतुर्दश कलाश्चात्र अहिना पिंगलेन जल्पिताः ।
१०२. यथा अइ इत्यादि सुकरं ।
१०३. अथ दोधकः, चामर इति । दोधकछंदः फणींद्रेण कथितं । यत्र च प्रथमं चामरः गुरुरनंतरं काहलयुगं लघुद्वयं स्थाप्यते । ततो हारो गुरुस्ततो लघुद्वयं ध्रियते । पदांते कर्णगणो द्विगुरुर्गणः क्रियते ।
१०४. यथा पिंग इत्यादि सुकरं ।
१०५. अथ शालिनी, कण्णो इति । सर्पराजेन पिंगलेन सा शालिनी भणिता । यत्र द्वौ कर्णौ द्विगुरुगणौ तत एको हारो गुरुर्विसृज्यते । ततः शल्यो लघुरेकस्ततः कर्णो द्विगुरुर्गणः, ततो गंध एको लघुस्ततः कर्णौ द्विगुरुगणो ज्ञायते । पादे विंशति रेखाः कला गण्यते ।
Jain Education International
For Private Personal Use Only
www.jainelibrary.org