________________
परिशिष्ट (१)
[१८५ ५७. अथ समानिका, चारि इति । हे प्रिये सा समानिका कथिता । यत्रांतरा चत्वारो हारा गुरवः क्रियते, त्यो लघवो दीयंते सप्तभिरक्षरैरास्थिता ।
५८. यथा कुञ्जरा इत्यादि सुगमं । ५९. अथ सुवासः, भणइ इति । भणामि सुवासं लघुसु विशेषः । आदौ चतुर्मात्रिकं विरच्य अंते भगणः क्रियते । ६०. यथा गुरुजण इत्यादि सुगमं । ६१. अथ करहंचः, चरण गण इति चरणे प्रथमे विप्रश्चतुर्लघुर्गणः स्थाप्यते । तस्यांते जगणः यत्र स करहंचो भण्यते ।
६२. यथा जिअउ इति । यदि एषा जीवनं त्यजामि गत्वा देहं तीर्थे इति शेषः रमणे योपि सोपि भवतु निर्गुणः सगुणो वा । परन्तु विरहो मा भवतु ।।
६३. अथ शीर्षरूपकं, सत्ता इति । तत् शीर्षरूपकं नाम छंदः । यत्र सप्तदीर्घा गुरवो ज्ञायते । तैरेव त्रयः कर्णा द्विगुरुगणा अंते गुरुः एवं चतुर्दश मात्रा भवंति ।
६४. यथा चंदा इति सुगमं ।
६५. अथ विद्युन्माला, विज्जूमाला इति । विद्युन्माला षोडशभिर्मात्राभिर्भवति । ताभिरेव पदे लोलाचंचलाश्चत्वारः कर्णगणा द्विगुरवो गणा भवन्ति । एवं रूपकाणि चत्वारि पदानि यस्याः । क्षत्रियजाति: जानीतेति शेषः । विद्युन्माला ।
६६. यथा उम्मत्ता इति सुगमं ।
६७. अथ प्रमाणिका, लहू इति । लघु गुरु निरन्तरौ यस्यां सा लघुगुरुनिरन्तरा, प्रथमं लघुनिरन्तरं गुरुर्भवति इत्यर्थः । सा प्रमाणिकाऽष्टाक्षरा अष्टाक्षरघटितया प्रमाणिका कथनावसरे एव छंदातरमपि कथयति । यदि प्रमाणिका द्विगुणा क्रियते तदा नाराचो भण्यते । नाराचछन्दोप्यग्रे वक्ष्यति । ___६८ यथा णिसुम्भ इत्यादि सुगमं ।
६९. अथ मल्लिका, हार इति । मल्लिकाछन्दो जानीहि । अष्टभिरक्षरैदृष्टं किं भूतैः हारो गुरुर्गन्धो लघुस्तयोर्बन्धनैः प्रथम गुरुः, तदंतरं लघुरित्यर्थः । तत्र द्वादशमात्रा भवंतीति जानीहि ।
७०. यथा येन जितक्षत्रियवंशः । तत्र के इत्याह रिष्टिमुष्टिककेशिकंसाः । बाण बाहवः कर्तिताः येनासौ तुभ्यं शुभं ददातु ।
७१. अथ तुंगा, तरल इति । हे तरलनयने तुङ्गाछन्दो भवति प्रथम गणे सुरङ्गः शोभनः । नगणयुगलेन बद्धः । अनन्तरं गुरुद्वयमित्यर्थः ।
७२. यथा कमलभ्रमरजीवः सकलभुवनदीप: तापिततिमिरडिम्बः उदेति तरणिबिम्बः ।
७३. अथ कमलं, पठम इति । एवं प्रकारेण कमलं भवति । यत्र प्रथम चरणे विप्रश्चतुर्लघुर्गणो भवति । द्वितीयं तथा नरेन्द्रो जगणः । ततः शेषः गुरुसहितः ।
७४. यथा विजअइ इति सुगमं ।
७५. अथ महालक्ष्मीः, दिट्ठ इति । हे मुग्धे, महालक्ष्मी जानीहि यत्र योधा रगणो दृष्टः । या नागराजेन पिंगलेन रचिता .. पादे मासाढेन पञ्चदशकलाछिन्ना मित्यर्थः । ।
७६. यथा मुंडमाला इत्यादि सुकरं ।
७७. अथ सारङ्गिका. दिअ इति । हे सखि सारङ्गिका कथिता । यत्र द्विजवरश्चतुर्लघुर्गणः । ततः सगणः एवं प्रकारेण यत्र पदे मात्राणां गुणनं । शराः पञ्चमुनिः सप्त ७ एताभिर्मात्राभिलब्धा द्वादशमात्राभिर्गुणितेत्यर्थः ।
७८. यथा हरिण सरिस्सा इत्यादि सुगमं ।
७९. अथ पाइत्ता, कुन्तीपुत्ता इति । पाइत्तारूपकं कथितं तत् । यत्र कुन्तीपुत्रद्वयं द्विगुरुगणद्वयं भवति । तृतीयगणे विप्रश्चतुर्लघुर्गणो भवति ध्रुवं निश्चितं । अन्ते हारो गुरुतिः ।
८०. यथा फुल्ला इति । प्रफुल्ला नीपाः । भ्रमंति भ्रमराः । दृष्टा जल श्यामलाः । नृत्यति विद्युत् प्रियसहिता । आगमिष्यति कांतः सखि कदा ।
८२. अथ कमला, सरस इति । हे रमणि, यत्र सरसौ द्वौ द्विजवरगणौ चतुर्लघुगणौ । सगणः प्रतिपदे । चतुर्लघुगणद्वयांतरं गुरुरिति यावत् । एवं दशकला यत्र भवंति सा कमला ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org