________________
१८४]
प्राकृतपैंगलम् २९. अथ धारी, वण्ण चारि इति । हे मुग्धे, चतुर्वर्णैर्धारी भवति । तस्या अंतरांतरा द्वौ गुरू भवतः । ३०. यथा देउ इति । देवदेवः शिवः शुभं ददातु, यस्य शीर्षे इंदुः दृष्टः । ३१. अथ नगाणी, पओहरो इति । यत्र पयोधरो जगणो भवति । किं भूतः गुरूत्तरो गुर्वतः । नगाणी नाम छंदो ज्ञायते । ३२. यथा सरस्सई इति । सरस्वती प्रसन्ना भवतु । कवित्वं अस्माकं स्फुरतु ततः ।
३३. अथ संमोहा, संमोहा इति । सम्मोहानामरूपकं छंदो दृष्टं तत् । भुवि पृथिव्यां । यत्र कर्णद्वयानंतरं हारो गुरुः पदे पंच गुरवो भवंतीत्यर्थः, कीदृशं भुवने सारभूतं ।
३४. यथा उदंडा इति । उदंडा उद्दामा चंडी दुर्गा दुरितविनाशिनी त्रैलोक्यस्य सुखं मे मोक्षं च ददातु । ३५. अथ हारीतबंधः, आइहि इति । आदावंते च द्वाभ्यां गुरुभ्यां संयुक्तः । मध्ये एको गंधो लघुर्यस्य स हारीतबंधः । ३६. यथा जा भत्ति इति । या भक्तियुक्ता धर्मैकचित्ता भवति । सा नारी धन्या प्रेमभाजनं पत्युरिति शेषः ।
३७. अथ हंसा, पिंगले इति । पिंगलेन हंसा दृष्टा भगणं कृत्वा सृष्ट्वा । कर्णगणो द्वितीयः । हंसो जायते । प्रथममत्र भगणस्ततो द्विगुरुगण इत्यर्थः ।
३८. यथा सो इति । स मम कांत: दूरे प्रावृट् आगता चेतः कंपते ।
३९. अथ यमकं, सुपिअ इति । तत् यमकं जानीत । यत्र सुप्रियो द्विलघुर्गणः कीदृश: सरसो रससंपूर्णः । इति बुध्यस्व । ततः शरस्त्रगण: संभवति ।
४०. यथा पवण इति । पवनो वहति संहतमदनो हंति मनस्तपति ।
४१. अथ शेषः, बाराहा इति यत्र द्वादश मात्रा: । त्रयः कर्णगणा भवंति । तदेव द्रढयति, हारषट्कस्य गुरुषट्कस्य बंधक: शेषराजच्छंदः ।
४२. यथा उद्दामा इति, सुगमं । ४३. अथ डिल्ला, पिअ इति । प्रिय डिल्लानामछंदः किं लक्षणं सगणेन युक्तं, षड्वर्णात्मकः पादः यत्राष्टौ कलाः स्थिताः । ४४. यथा पिअ भत्ति इत्यादि सुगर्म ।
४५. अथ द्वियोधा अक्खरा इति । द्वियोधा उक्ता यत्र षट् अक्षराणि पादपादे स्थितानि । द्विगुणाः पंचमात्राः यस्यां भवंति । दशमात्रा इत्यर्थः ।
४६. यथा कंस संघारणा इत्यादि सुगमं ।
४७. अथ चौरंसा, चउ इति । फणिपतिना पिंगलेन भाषितां चौरंसां स्थापय । यत्र द्विजवर: चतुर्लघुगणान् । ततः कर्णो द्विगुरुगणो भवति । कीदृशीं । स्फुटशरसवर्णा व्यक्तषड्वर्णामित्यर्थः ।
४८. अथ णअण इति सुगम ।
४९. अथ मंथाना, कामा इति । तत् मंथाननामकं छंदः बुध्यस्व । कामावतारस्य अर्द्धन पादेन भवति । कामावतारोऽग्रे वक्ष्यमाणो विशति-कलारचितपादः । शुद्धा दश मात्राश्चात्र भवंति ।
५०. यथा राआ इत्यादि सुगमं ।
५१. अथा शंखनारी, षडा इति । षड्भिर्वर्णैरक्षरैर्बद्धा भुजंगप्रयातपदा ; भुजंगप्रयातपदाढेन भवतीत्यर्थः । भुजंगप्रयातमग्रे चतुर्भिर्यगणैर्भविष्यति । तदर्धेन यगणद्वयेण भवति पदचतुष्टयं यत्र, सा शंखनारी कथिता ।
५२. यथा गुण इति सुगमं ।
५३. अथ मालती, धअं इति । हे कांते सा मालती । सा का यस्या आदौ ध्वजः । ततो द्वौ शरौ । ततस्तृतीयं मणि जानीहि, अन्ते लघु रचयित्वा ।।
५४. यथा करा इति सुगमं ।
५५. अथ दमनकः, दिअ इति । दमनकं जानीहि फणिपतिः पिंगलो भणति । यत्र द्विजवरश्चतुर्लधुर्गणः प्रथमं क्रियते। ततः सुप्रियो द्विर्लघुर्गणो भण्यते ।
५६. यथा कमलणअणि इति सुगमं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org