________________
[ वर्णवृत्त प्रकरण ]
अथ वर्णवृत्तानि । तत्रैकाक्षरपादतः समारभ्यते । १. सी सा इति । श्रीः । यत्र गुरुः । २. यथा गौरी रक्षतु त्वामिति शेषः । ३. अथ कामः, दीहा इति । द्वौ दीपों यः स कामोभिरामः । ४. यथा जुज्झे इति । युद्धे तुभ्यं शुभं ददातु ।। ५. अथ मधुः, लहु इति । लघुद्वयं यत्र तत् मधुनाम छंदः ध्रुवं निश्चयेन । ६. यथा हर इति । मम मलं हरो हरतु । ७. अथ मही, लगो इति । लघुर्गुरुर्यत्र सा मही नाम कथिता । ८. यथा, सती उमा रक्षतु त्वां । ९. अथ सारुः, सारु इति । सारुरेष । यत्रादौ गुरुः । द्वितीयो लघुः । १०. यथा संभु इति । शंभुरेष शुभं ददातु ।। ११. अथ ताली, ताली इति । ताली ज्ञायते । यत्र गुरुः कर्णो द्विगुरुर्गुणः त्रिभिर्वर्णैर्जायते इत्यर्थः । १२. यथा अह्माणं इति । अस्मान् युष्मान् । चंडेशो रक्षतु सः ।
१३. अथ प्रिया, हे पिए इति । प्रियाछन्दो लिख्यते । हे प्रिये इति संबोधनं । त्रिभिरक्षरैः । अक्षराणि किं रूपाणीत्याह। रे रगणरूपाणि ।
१४. यथा संकरो इति । शंकरः शिवः शंकरः कल्याणकरः । पावनः पवित्रताहेतुः न अस्मान् पातु रक्षतु । १५. अथ शशी, ससी णो इति । शशी छन्दो भवति । किं भूतं यगणेन नीतं यगणसहितं फणींद्रेण भणितं । १६. यथा भवाणी इति । भवानी हसंती दुरितं हरतु ।। १७. अथ रमणः, सगणो इति । रमणच्छन्दो भवति । हे सखि सगणेन कथितं । १८. यथा ससिणो इति । शशिना रजनी पत्या तरुणी शोभते इति शेषः ।। १९. अथ पंचालः, तक्कार इति । तकारस्तगणो यत्र दृष्टः स पंचाल उत्कृष्टः । २०. यथा सो इति । स ददातु सुखानि, संहृत्य दुःखानि । २१. अथ मृगेंद्रः, णरेंद इति । नरेंद्र जगणं स्थापय, मृगेंद्रनामकं छंदः कुरु । २२. यथा दुरंत इति । दूरे कांतः दुरंतो वसंतः । । २३. अथ मंदरः, भो जहि इति । यत्र भो भगणः स मंदरः । हे सखि कि भूतः संदरः । २४. यथा सो हर इति । स हरस्तव संकटं संहरतु ।
२५. अथ कमलं, कमल इति । कमलं प्रभण हे सुमुखि कि भूतं । नगणेन लक्षितं । यथा रमणे इति रमणस्य गमने विदेशगमने कस्या मनः अपि तु न कस्या अपीत्यर्थः ।
२७. अथ तीर्णा, वण्ण चारि इति । चतुर्भिरष्टौ कला यत्र तैरेव द्वौ कर्णौ द्विगुणौ यत्र तं तीणां जानीत । २८. यथा जाआ इति । पत्नी मायावती पुत्रो धूर्तः । एवं ज्ञात्वा क्रियतां युक्तं । त्यागे यत्नः क्रियतामित्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org