________________
१८२]
प्राकृतपैंगलम्
१८९. संक्षेपेणाह, हार सुपिअ इति । हारो गुरुः सुप्रियो द्विलघुर्गणः । तथाविधगणद्वयं विप्रगणो वा हारानंतरं यत्र एवं भिन्नशरीरं संबद्धशरीरं अंते जोहलं रगणं स्थापय । त्रयोविंशतिमात्राभित्रनामकं छंदो भवति ।
१९०. यथा धिक्क इत्यादि सुगमं ।।
१९१. अथ जलधरः, पअ पढम इति । पदे प्रथमे पतति यत्र श्रृणु कमलमुखि । दशसु १० वसुषु ८ पुनरपि वसुषु ८ विरतिः कृता सर्वत्र पदे द्विजगणो दीयते । ततः परं सगणो दीयते । श्रीफणिपतिर्भणति । कथंभूतः शोभन: कविवरः । दश विगुणाः कलाः कुरु । पुनरपि युगलं संस्थापय । अंकतो यथा ३२ अनेन प्रकारेण चतुश्चरणान् संस्थापय । अथ यदि कथमपि मध्ये गुरुः तदा न परिहर । एकेन द्वयेन वा गुरुणा न परिहरणीयमित्यर्थः । बुधजनमनोहरं जलधरच्छंदः ।।
१९२. संक्षेप माह, बत्तीस इति । द्वात्रिंशन्मात्रा भवन्ति । अन्ते सगणं संस्थापय । सर्वे लघवः क्रियते । यदि गुरुः क्रियते, तदा एको न किंतु द्वौ गुरु पादे भवतः ।।
१९३. यथा खुर इत्यादि व्यक्तानुकरणं सुगमं ॥१९३॥
१९४. अथ मदनगृहं, पिअ इति । प्रिये भणामि छंद इति शेषः । मनोहरं मन:प्रियं पयोधरं जगणं मेलयित्वा, हे सुभगे, एतच्छंदः क्षणं क्षणार्द्ध वा सुखयति । मनः स्थिरं कुरु स्थिरेण मनसा कर्तुं पार्यत इत्यर्थः । यदि रागोऽनुरागो वर्तते तदा क्षत्रियजाति अनुसर । छंदसोऽस्य क्षत्रियजातिः । छंदःशास्त्रादाकृष्य छंदो भणितं । यथा हृदये पराकायं ऋणं स्खलति सर्वथा स्मरणपापं याति । उट्टवनिकाप्रकारमाह । द्वौ शल्यौ लघू प्रहत्य संस्थाप्य तुरंगा बद्धा, ततो रथहयगजाः प्रसरन्ति, नव चतुष्कलगणाः प्रसरन्ति धरायां । अंते गुरुं सज्जीकृत्य, कथंभूतं गुरुं, वरं श्रेष्ठं । यदि जागरं कृत्वा सावधानीभूय निरुच्यते । तदा दशगुणयुक्तं । चतुः संधौ पादचतुष्टये चत्वारिंशच्चतु:कला गणा भवंति । एवं मदनगृहं भण्यते ।
१९५. संक्षेपेण उक्त स्थिरीकरोति, वे वि इति । द्वे मात्रे शिरसि संस्थाप्य अंते गुरुं कुरु । मध्ये च नव चतुष्कलगणान् दत्वा मदनगृहं कुरुत ।
१९६. यथा जेहि कंस इत्यादि सुगमं ।
१९७. अथ मरहट्टा, एहु छंद इति । हे सुलक्षणे, विलक्षणमेतच्छंद: पिंगलनागो जल्पति । विश्राम्यति दशसु अक्षरेषु । पुनरष्टाक्षरेषु । पुनरप्यष्टादशाक्षरेषु । अत्र अक्षरशब्देन मात्रा उक्ताः । मात्रावृत्तेऽस्य छंदसः कथनात् । उट्टवनिका प्रकारमाह । आदौ षट्कलो गणः । ततः पंच चतुष्कलगणाः । अंते गुरुं लघु च देहि । एको गुरुरेको लघुरन्ते भवति । षोडशाधिकाः शतं मात्रा ११६ भवंति संपूर्णाः । एवं मरहट्टानाम छंदो भण्यते ।
१९८. यथा जइ इत्यादि सुगमं । ।
अथ पूर्वोक्तछंदसां नामानि कथयति तं गाहू इति । गाहू १ गाहा २ विगाहा ३ उग्गाहा ४ गाहिनी ५ सिंहनी ६ स्कंधकं ७ दोहा ८ उक्कच्छा ९ रोला १० गन्धाना ११ चतुष्पदिका १२ घातः १३ घातानंद: १४ इति युगलं । षट्पदः १५ पज्झटिका १६ अलिल्ला १७ पादाकुलकं १८ नवपदी १९ पद्मावती २० कुण्डलिका २१ गगानांग: २२ द्विपदी २३ खंजा २४ शिखा २५ माला २६ चुलियाला २७ सौराष्ट्रा २८ हाकली २९ मधुमार: ३० आमीर: ३१ दंडकल: ३२ दीपकं ३३ सिंहावलोकः ३४ प्लवंगमः ३५ लीलावती ३६ हरिगीता ३७ त्रिभंगी ३८ ततः दुम्मिला ३९ हीरः ४० जलधरः ४१ मदनगृहं ४२ मरहट्ठा ४३ इति त्रयश्चत्वारिंशत् छंदांसि भवंति ।
इति पिंगलसारविकाशिन्यां टीकायां मात्रावृत्तपरिच्छेदः समाप्तः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org