________________
परिशिष्ट (१)
[१८१ १७१. यथा जसु हत्थ इत्यादि सुगमं ।
१७२. अथ सिंहावलोकः, गण विप्प इति । पदे पदे विप्रगणौ धृत्वा भणितं सिंहावलोकं छन्दोवरं । हे गुणिगणा, मनसा बुध्यध्वं नागो भणति । यत्र जगणो न भगणो न कर्णगणो भवति ।।
१७३. उपसंहरति, विप्प इति । विप्रगणसगणौ द्वौ गणौ अत्र अन्ते हारं गुरुं विसृज । पश्चात् धृत्वा कवित्वं कुरु । पदांते यदेवाक्षरं तदेवाग्रिमपदादौ कुरु । प्रस्तारे षोडशमात्रा भवंतीत्यर्थः ।
१७४. यथा हणु इत्यादि सुगमं ।
१७५. अथ प्लवंगमः, जत्थ इति । अत्र प्रथमं षण्मात्रो गणः पदे पदे दृश्यते । पञ्चमात्रश्चतुर्मात्रो वा गणो न क्रियते । अंते एकैकं लघु च स्मृत्वा स्मृत्वा स्थापय षण्मात्रिकगणत्रयं कृत्वा अन्ते लघु ततो गुरुं स्थापयेत्यर्थः । हे मुग्धे मनोहरे, प्लवंगमच्छन्दो विचक्षणमुत्कृष्टं शोभते ।
१७६. उपसंहरति, पअ पअ इति । आदौ पदे पदे गुरुमेव पिंगलः कथयति । सकलनिर्मातच्छंदः प्लवंगमं दृष्टं तत्र मात्राणामेकविंशतिर्भवन्ति।
१७७. यथा णच्च इत्यादि सुकरं ।
१७९. अथ लीलावती । यत्र छन्दसि लघौ गुरौ नियमो नास्ति । अस्मिन् स्थाने गुरुरित्यादि नियमो नास्तीत्यर्थः । अक्षरेष्वपि न नियमः एतावति अक्षराणि भवन्ति इति नियमो नास्ति । अत्र विषमे समेपि वा स्थाने जगणः पतति । एवं यत्र छन्दसि कुत्रापि न नियमः । न गुरौ न लघौ नाक्षरे नापि च विषमे समे वा स्थाने जगणपाते नियमः । यथा तरुणाश्वगमने विषमे समे कुत्रापि न नियमः, सोपि प्रसरति दिक्षु विदिक्षु च अगम्ये गम्येपि । अष्टौ गणाश्चतुष्कलाः पतन्ति निरन्तरमेकोपक्रमः । अन्ते ध्रुवं निश्चितं सगणः पतति । कथंभूतः कांतो मनोहरो गणः । कथमयमनियतकलं छन्द इत्याशंक्याह । परिपतति प्रचरति विविधप्रकारेण लीलया हेलया लीलावतीछन्दः । पदेषु द्वात्रिंशन्मात्रासु विरामकरं । अयमाशयः । लघो गुरौ अक्षरे गणादौ न नियमः । केनापि प्रकारेण द्वात्रिंशन्मात्राः । शेषे सगणस्तासु यथा कर्तव्यं ।
१८०. यथा घर लगइ इत्यादि सुगमं ।
१८१. अथ हरिगीता, गण चारि इति । चत्वारो गणाः पञ्चकला: संस्थाप्यंतां द्वितीयस्थाने षट्कलं कुरुत । पदांते गुरुं कुरुत वर्णनेन सुसाढलं समाक्षरं । कलानां संख्यामाह, दश स्थापयित्वा ततो दश कृत्वा ततो द्वयमानय कुरु इत्यर्थः । एतावताद्वादशाधिकशतं मात्राः ११२ पदचतुष्टये भवन्ति । अत्रांकस्य दक्षिणा गतिर्वृत्तास्ति तेनैतत्संभवति । पदे तु अष्टाविंशतिर्मात्रा भवंति । एवं हरिगीताछंदः प्रसिद्धं कृत्वा जानीत । पिंगलेन व्याख्यानमुक्तं ।
१८२. उक्तमेव द्रढयति, बीए इति । द्वितीयस्थाने षट्कलं संस्थाप्य पंचकलान् चतुरो गणान् ददत । द्वादशाधिकशतं मात्रा भवंति । मानसं गुरुं अंते स्थापयत ।
१८३. यथा गअ गअहि इत्यादि सुकरं ।
१८४. अथ त्रिभंगी, पढम इति । प्रथमं दशसु विश्रामः । ततोऽष्टसु विश्रामः । ततः षट्सु विश्रामः । अंते यत्र गुरुः शोभते । तच्छंदः त्रिभंगीत्यग्रे स्थितेनान्वयः । महीतलं यन्मोहयति । सिद्धेः कवित्वसिद्धेः सरोवरं भवति । वरतरुणं छंदसि इति शेषः । दोषमाह । यदि पयोधरो जगणः पतति तदा किमिदं मनोहरं अपितु न सुन्दरं । जगणो न भवतीत्यर्थः । यदि जगणयुक्तं भवति तदा यस्य क्रियते तस्य कवेरपि कलेवरं हंति । एतादृशं त्रिभंगीछंदः सुखाय आनंदाय भवति । इति भणति भणींद्रो विमलमतिः ।
१८५. यथा सिर किज्जिअ गंग इत्यादि सुगमं ।
१८६. अथ दुर्मिला, तीस इति । यत्र द्वात्रिंशन्मात्राः एतद्वक्ष्यमाणलक्षणयुक्ताः । बुधजनराजः पिंगलो भाषते, हे नरा इति संबोधनं । यदि विश्रामस्त्रिषुस्थानेषु एतादृशवक्ष्यमाणेषु भागेषु । अपरमप्याह पदे पदे कर्णगणो दृश्यते । यतिस्थानमाह । तत्र प्रथमः दशसु विश्रामः, द्वितीयोऽष्टसु, तृतीयः चतुर्दशसु कृतनियमः । यत् एतादृशं छंदस्त्रिभुवनवंद्यं यदि बुध्यते तदा दुर्मिलको भवति ।
१८७. यथा जे किज्जिय इत्यादि सुगमं ।
१८८. अथ हीरः, णाअ इति । नागः प्रभणति हीरनामकं छंदः इति चतुर्थपदशेषस्थं योजय । यत्र त्रयः षट्कला गणाः अंते रगणं स्थापय । षट्कलेपि नैयत्यमाह । हारं गुरुं स्थापयित्वा हे सुप्रिये शोभने कांते विप्रगणैः सर्वलघुचतुष्कलगणैः साद्वलं सहितं । कलासंख्यामाह त्रीन् कृत्वा द्वयं कुरु । अंकस्य वामतो गंतिरिति गुणिते त्रयोविंशति कलाः पदे भवति । एतावतीर्मात्रा: पदे लेखय । दायमाह । को जानाति, न कोपि जानातीत्यर्थः । दर्पण भणति हीरनामकं छंदः । कीदृशं सुकविदृष्टं । सुकविना पिंगलेन दृष्टं ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org