________________
१८०]
प्राकृतपैंगलम् १४८. एतदेव द्रढयति, विहु दल इति । दलद्वयेपि नव विप्रगणाः पतंति । अंते जोहलं रगणं स्थापय । एवं सति खंजाछंदसि एकचत्वारिंशत्कला भवंति गणास्तु दश ।
१४९. यथा महि ललइ इति सुकरं ।
१५०. अथ शिखा, ससिवअणि इति । सा शिखा, सा का, यस्यां शशिवदने हे गजगमने, पदे पदे षट् द्विजगणा: सर्वलघवश्चतुष्कलगणाः पयोधरोऽन्ते । ततः प्रथमतः विविधलघून् प्रकाश्य द्विजगणेन अधिकं द्वितीयदलं यस्याः । द्वितीयदले सप्तचतुष्कलगणांते जगण इत्यर्थः ।
१५१. तदेव द्रढयति, मत्त अट्ठाइस इति । प्रथमदले अष्टाविंशति मात्राः, द्वितीयदले द्वात्रिंशत् । पादांते लघुर्यस्यां सा शुद्धा शिखा इति जानीहि ।
१५२. यथा फुलिअ महु इत्यादि सुकरं ।
१५३. अथ माला, पढम इति । प्रथमचरणे हे शशिवदने, नव ९ द्विज गणाश्चतुष्कलसर्वलघुगणाः स्फुटाः । पुनरपि तथा रगणं स्थापय । अंते कर्णो द्विगुरुर्गणो भवति । पिंगलनागो भणति मालाछंदः । शेषार्द्धमस्य छंदसो गाथायाः ।
१५४. संक्षेपमाह, पढम इति । प्रथमं भवंति नव ९ विप्रगणाः । ततो रगणो भवति । गाथार्द्धमंते दत्वा मालाछंदः कुरुत। १५५. यथा वरिस जल इत्यादि सुगमं ।
१५६. अथ चुलिआला, चुलिआला इति । चुलिआला छंदो भवति । यदि वर्द्धते इत्यर्थः । पदे पदे अंते विशुद्ध कुसुमगणं स्थापय पंचकले प्रस्तारे यः कुसुमगणः ।।। स दातव्य इत्यर्थः ।
१५७. उक्तमेव द्रढयति, दोहासंखा इति । द्विपथासंख्योपरि पंचैव मात्राः स्थापय । अष्टादशमात्रांत उपरि विंशतिद्वयं चत्वारिंशन्मात्रा भवंति; अष्टपंचाश मात्रा इत्यर्थः । एतावता चुलियालाछंद उत्कृष्टमित्यर्थः ।
१५८. तथा राआ लुद्ध इति सुगमं ।
१५९. अथ सौराष्ट्र, सोटु इति । सा सौराष्ट्रा यस्यां दोहा विपरीता स्थिता । पदे पदे यमकं यस्यां व्याख्याय नागराजः कथयति । यमकमत्रानुप्रासः ।
१६०. यथा सो माणिअ इत्यादि सुकरं ।
१६१. अथ हाकली, सगणा इति । सगणभगणा यत्र भवंति, चतुर्दश मात्रा: पदे पतंति । विरतौ वक्रौ गुरु: संस्थाप्यः । एवं हाकलिरूपकं कथितं ।
१६२. उपसंहरति, मत्त इति । पदे पदे चतुर्दश मात्रा: पतंति एकादशभिर्वर्णै: उत्तरार्द्ध मात्रास्तथैव अक्षराणि पुनर्दश । १६३. यथा उच्च इत्यादि सुगमं । १६४. अथ मधुभारः, जसु इति । यस्य शेषे एकः पयोधरः पतति । द्वौ चतुर्मात्रिको गणौ भवतः । एव मधुभारः । १६५. यथा जसु चंद इत्यादि सुगमं । १६६. अथ आभीरः, रुद्दह इति । एकादश मात्रा दीयते । अंते पयोधरो जगणो दीयते । एतदाभीरच्छंद: पिंगलराजो जल्पति
१६७. यथा सुंदरि इति सुगमं ।
१६८. अथ दंडकलः, कुंतअरु इति । कुंतवरः धनुर्द्धर: हयवर: गजराजः एते चतुर्मात्रिका एव । ततः षट्पदो भ्रमरः षण्माव इत्यर्थः । ततः पदातिद्वयं चतुर्मात्रिकद्वयं द्वात्रिंशन्मात्राः पदे सुप्रसिद्धा भवंति । एतच्छंदो जानीत । बुधजनानां हृदये चित्तेऽनुरक्तं न कदापि चेतसि त्यजंतीत्यर्थः । कियंत्यो मात्रा भवन्तीत्याह । विंशत्यधिकशतं । कीदृशं पदाग्रकलासुपूर्णे अस्मिन् छंदसि द्वात्रिंशत्कलात्मकं पदं तस्याग्रं चतुर्थभागः अष्टौ तेन संपूर्ण । एतावताऽष्टाविंशत्याधिकशतं १२८ कला भवंतीत्यर्थः । एतादशरूपकं फणिना भुवने जगति भाषितं किं नाम तदित्याह । दंडकल इति निरुक्तं गुरुसंयुक्तं । यच्छंदः पैंगलिका मनसा जपन्ति ।
१६९. यथा राअह इत्यादि सुगमं ।
१७०. अथ दीपकं, सिर देह इति । शिरसि चतुर्मात्रिकं देहि, अंते एकं लघु कुरु । तयोर्लघुचतुर्मात्रिकयोर्मध्ये एक दंतं पंचकलं देहि इति शेषः । तच्छंदो दीपकं जानीत ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org