________________
परिशिष्ट (१)
[१७९ ते के गणा भवंतीत्यत आह कर्णः 55 करतलः ॥ विप्रः ॥ चरण: ॥ एते गणाः पादे भवंति । कीदृशाः उत्कृष्टाः । अत्र यदि पयोधरो जगणः पतति तदा किमियं पद्मावती मनोहरा । किं च यद्यत्र जगणः पतति तदा नायकगुणं पीडयति । न केवलं नायकगुणं पीडयति किंतु पितरमपि संत्रासयति । कविमुद्वासयति । कथमेतद्भवतीत्यत आह । अत्र छंदसि अयं जगण: चांडालचरितं आचरति मंदफलं ददातीत्यर्थः । अथ च पद्मावती पद्मिनी नायिका भण । यस्या स्थाने स्थाने चतुर्मात्रा ब्रह्मक्षत्रविट्शूद्ररूपा अष्टौ गणा अष्टनायिकासु गण्यन्त इत्यर्थः । पद्मिनी च जातिचतुष्टयादुत्पद्यत इति प्रसिद्धिः । ध्रुवं निश्चितं । सा कथं चतुर्मात्रिका । कर्णः क्षत्रियः । करतलो वैश्यः । विप्रो ब्राह्मणः । चरणः शूद्रः । एवंरूपेण चतुर्मात्रिकत्वं यस्याः उत्कृष्टा । यदि तस्याः पयोधरः स्तनः पतति तदा किमियं मनोहरा, अपि तु न मनोहरा । सा च तथा नायकगुणं पीडयति, पितरं संत्रासयति यस्तस्यामभिरतो कविस्तमुद्रासयति।
१३६. (१४५) यथा भअ भंगिअ वंगा इत्यादि सुकरं ॥
ओत्था ओत्थी उपर्युपरीत्यर्थः ॥
१३७. (१४६) अथ कुंडलिका, दोहालक्खण इति । आदौ दोहालक्षणं पठित्वा ततः काव्यपदचतुष्टयं निरुक्तं । एतेन दोहाच्छंदस: पदचतुष्टयेनार्द्ध काव्यपदचतुष्टयेनार्द्धं भवति, हे बुधजन पंडितजन कुंडलिकाछंदो जानीहि । कीदृशं उल्लालेन संयुक्तं । उल्लालनमुल्लालः । उल्लालेन संयुक्तं पठेदिति पाठिको विशेषः । अपरमप्याह तच्छंदे यमकं लभ्यते । भिन्नश्रुतीनामेकानामभिचयैः परस्परं । पदानां यः पुनर्वादो यमकं तन्निगद्यत । इति लभ्यते । केन पदेनेति आह उल्लाले संजुत्त इति । उल्लालनमुल्लाल उल्लास इति लोके प्रसिद्धः । अयमाशयः, परावृत्य सिंहावलोकितन्यायेन निकटवर्तिना पदेन यमकं कुर्यादित्यर्थः । अथ च यमकमनुप्रासमेवाहः । स च वर्णानुवृत्तिरिति । अनुप्रासः अग्रपादावृत्तिरेव दृश्यते तेनालंकारकथितयमकमेवोच्यते । अत्र च चतुश्चत्वारिंशदधिकशतं मात्रा भवंति । सुकवीनां दृढबंधुः पिंगलः कथयति । अथ गुणालंकारौ कथयति । यस्यास्तनौ शरीरे भूषणशोभा हसति । भूषणमलंकारः शोभा कांतिर्गुण इति शेषः । द्विवचनस्य बहुवचनं नित्यं, तेन भूषणशोभे यस्यास्तनौ हास्यं कुर्वति (? त:) कियत्संख्याकगुणशोभ इत्याह । चतुश्चत्वारिंशन्मात्राः । प्राकृते पूर्वपातानियमः । तेन व्यवहितेनापि मात्राशब्देनान्वयः । श्लेषप्रसादादिगुणा अलंकाराः । तां कुंडलिकां जानीत, पठित्वा पुनरपि पठ । आद्यंताभ्यां भिन्नं न पठ्यते । एकयमकं कृत्वा पठ्यत इत्यर्थः ।
१३८. (१४७) उ(क्त)मेव द्रढयति, पढमहि इति । प्रथमं दोहायाश्चत्वारि पदानि ततः पदचतुष्टयं काव्यस्य देहि, अनेन प्रकारेण कुण्डलिकाऽष्टपदा भवति, पदे पदे यमकं कुरुत ।
१३९. यथा ढोल्लेत्यादि सुकरं ।
१४०. अथ गगनांगः, पअ पअ इति । गगनांगं स्थापय किं कृत्वा ज्ञात्वा । किं भूतं मात्राविभूषितम् । अत्र शरेण ५ अधिका विंशतिर्मात्रा भवन्ति । किं भूताः लघुगुरुशोषिता मिलिता इत्यर्थः । उट्टवनिकाप्रकारमाह, प्रथमं चतुर्मात्रिको गणः । ततः परं यथा सुखं गणाः प्रकाशिताः । कला अक्षराणि भवंतीत्याह विंशत्यक्षराणि पदे लभंते । हे प्रिये इति पत्नीसंबोधनं । गुरु: प्रकाशितः।
१४१. उक्तमेव द्रढयति, पढमहि इति । प्रथमे च चतुष्कलो गणः । ततः परं यथासुखं गणा भवन्ति । अंते हारं गुरु विसर्जय देहि । विंशत्यक्षराणि पंचविंशतिर्मात्रा भवंति ।
१४२. यथा भंजिअ इत्यादि सुकरं ।
१४३. अथ द्विपदी, आइ इति । छंदोद्वयेन लक्षयति, आदिग इंदुगणः षट्कलो गणो यत्र भवति । ततो धनुर्द्धरगणद्वयं चतुष्कलगणद्वयं देहि । ततः पदादिद्वयमेव चतुष्कलगणद्वयमेव स्थापय । वि(विध)विचित्रसुंदरं यथा स्यादेवं ।
१४४. सरस्वत्याः प्रसादं गृहीत्वा तत्र छंदसि पृथिव्यां कवित्वं कुरुत । हे कविजनाः, अंते मधुकरचरणं षट्कलं देहि । एवं प्रकारेण हे बुधजना, द्विपदी भणत ।
१४५. एतदेव प्रकारांतरेणाह, छक्कल इति । षट्कलं संस्थाप्य चतुष्कलान् पंच स्थापय, अंते एकं हारं गुरुं धृत्वा द्विपदीछंदः कुरुत ।
१४६. यथा दाणउ देउ इत्यादि सुकरं ।
१४७. अथ खंजा, धुअ धरि इति । ध्रुवं निश्चितं नव विप्रगणान् धृत्वा.हे कमलनयने । बुधजनमनः सुखयति यत् छन्दः । यथा शशी रात्रौ शोभते । पुनरपि विरतिः भवति हे गजगमने । यथा प्रथमपदें नव द्विजवरा तथा द्वितीयपदेपीत्यर्थः । उभयोः पदयोः पदयोः परभागे रगण इति फणिर्भणति । एतच्छन्दः स्मर । कीदृशं मनोहरं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org