________________
प्राकृतपैंगलम्
१२२-२३. तान्येव नामान्याह, अजअ इति । अजयः १ विजयः २ वलिः ३ कर्णः ४ वीरः ५ वेतालः ६ वृहन्नलः ७ मर्कटः ८ हरिः ९ हरः १० ब्रह्मा ११ इंद्र: १२ चंदन: १३ सुशुभंकरः १४ शाणः १५ सिंहः १६ शार्दूलः १७ कूर्मः १८ कोकिलः १९ खरः २० कुंजरः २१ मदनः २२ मत्स्यः २३ सारंगः २४ शेषः २५ शावगः २६ पयोधरः २७ ततः कुंदः २८ कमल: २९ वारण: ३० भ्रमरः ३१ शरभः ३२ जंगल: ३३ एतान् संस्थाप्य लभ्यते, शरः ३४ मुद्गरः ३५ सारसः ३६ सरसः ३७ इति षट्पदनामानि पिंगलः कथयति । मेरुः ३८ मकरः ३९ मदः ४० सिद्धिः ४१ बुद्धिः ४२ करतलः ४३ कमलाकरः ४४ धवलः ४५ मलयः ४६ ध्रुवः ४७ कर्णः ४८ शक्रः ४९ कृष्ण ५० व्यंजनः ५१ मेधाकरः ५२ ग्रीष्मः ५३ गरुडः ५४ शशी ५५ सूर्य: ५६ शल्यः ५७ नरः ५८ तुरगः ५९ मनोहर: ६० गगनः ६१ रत्नं ६२ नयः ६३ हीर: ६४ भ्रमरः ६५ शेखरः ६६ कुसुमाकरः ६७ ततो दीपः ६८ शंखः ६९ वसुः ७० शब्दः ७१ । एतज्ज्ञात्वा नागराजः पिंगलः कथयति षट्पदस्य एकसप्ततिर्नामानि । छंदकार: प्रस्तारं ज्ञात्वा कथयति । इति षट्पदप्रकरणं समाप्तं ॥
१७८ ]
१२४. अथ पज्झटिका, चउ मत्त इति । चतुर्मात्रिकान् गणान् चतुःस्थाने कुरुत । पदांते पयोधरं जगणं स्थापयित्वा एवं पदचतुष्टयेन चतुःषष्ठि ६४ मात्रा भवति । छंदः प्रशंसामाह । इदं श्रुत्वा इन्दुश्चन्द्रमाः प्रस्विद्यतेऽमृतं क्षरतीत्यर्थः । इति चतुर्भि पादैः पज्झटिकाछंदो भवति । एतावतैतदुक्तं षोडशमात्राभिरे (क) श्चरण:, तथाविधचरणचतुष्टयेन एकं छंदः, तथाविधछंदचतुष्टयेन एका पज्झटिकेति ।
१२५. यथा जे गंजिअ इत्यादि सुकरं ।
१२६. अथ अलिल्ला, सोलह इति । यस्य पादावली षोडशमात्रा, अत्र द्वे यमके भेदं कलयतः । कलीवलीकामधेनुः । इल्लल्ला स्वार्थे इति इत्यत्र प्रयोजकः । अप्रयोजकवाचकादौ प्रत्ययः । हहिजेराः पादपूरणे इति ह प्रत्ययः । प्रायो लोप इति प्रायोवचनादावपि ककारलोपः । अत्र पयोधरो जगणो न भवति । कीदृशः अलिल्लाह अप्रयोजकः अप्रयोजकवाचकादलंशब्दात् इल्लप्रत्ययो हप्रत्ययश्च । अस्मिन् छंदसि जगणो प्रयोजक इत्यर्थः । अंते सुपियगणो लघुद्वयात्मकगणो भवति एतच्छंदोऽलिल्लानाम
भण ।
१२७. यथा, जहि आसार इत्यादि सुकरं ।
1
१२८. अथ पादाकुलकं, लहु गुरु इति । यत्र लघुगुर्वोर्नियमो नास्ति तदा सर्वे गुरवो निरंतरलघवो वा क्रियतामित्याशंक्याह, पदे पदे उत्तमा रेखा अंतरांतरा लघवो वा भवंति । कीदृशं छंदः, सुकविपिंगलस्य कंठाभरणरूपमलंकरणं अत्यन्तानुरागा (त्) फणींद्रेण ग्रैवेयकत्वेन वृत्तमिति प्रसिद्धिः । सर्पाणां कंठे वलयाकारा रेखा भवंति इति । अनेन प्रकारेण षोडशमात्राकं पादाकुलकं भवति ।
१२९. यथा, सेर एक्क इति सुकरं ।
१३०. अथ रड्डा, पढम इति । प्रथमं पंचदशसु मात्रासु विरतिः, द्वितीयपदे द्वादशसु तृतीयस्थाने पंचदशसु चतुर्थे एकादशसु, पंचमे पदे पंचदशमात्रासु । एवमष्टाधिकषष्ठि मात्रा: पदपंचके पूरय । एतदग्रे दोहाछंदो दातव्यं । एतच्छंदो राजसेन इति प्रसिद्धं ति भण्य ।
१३१. उट्टवनिकाप्रकारमाह षट्पदच्छंदसा, विसम इति । विषमे पदे त्रिकलं संस्थापय । ततस्त्रयः पदातयश्चतुष्कलगणाः अत्रापि प्रथमे नरेंद्र जगणः किं वा विप्रः । अपरविषमपदे अंते लघुद्वयं । समपादे पदातित्रयं चतुष्कलत्रयमित्यर्थः । एतस्यांते सर्वलघुरेको गणः । चतुर्थचरणे एकलघुत्यक्ताः एकादश कला इति यावत् । यद्वा चतुर्थ चरणे एकं लघुमाकृष्य गृहाण तेनैकादशकलाश्चतुर्थचरण इति । एवं पंचपदोट्टवनिकां कृत्वा वस्तु इति नाम पिंगलः कथयति । तदनंतरं दोषहीनं द्विपथाचरणं संस्थाप्य राजसेन इति प्रसिद्धं रड्डा भण्यते ।
१३२. (१३४) भम इत्यादि सुकरं ।
१३३. (१३५) एतन्नामान्याह, करही इति । करभी १ नंदा २ मोहिनी ३ चारुसेनी ४ तथा भद्रा ५ राजसेनः ६ तालंकः ७ हे प्रिये तानि सप्त वस्तूनि निष्पन्नानि निश्चलानि भवतीत्यर्थः ।
१३४.-१, ७ (१३६-१४३) प्रकारमाह, पढम इति । प्रथमतृतीयपंचमपदेषु त्रयोदश मात्रा यत्र भवंति, द्वितीयचतुर्थयोरेकादश मात्रा यस्यां सा करमी १ । प्रथमतृतीयपंचमपदेषु चतुर्दश मात्रा भवंति, द्वितीयचतुर्थयोरेकादश सा नंदा २ । प्रथम तृतीयपंचमपदेषु ऊनविंशतिर्मात्राः, द्वितीयचतुर्थयोरेकादश सा मोहिनी ३ । विषमपदे पंचदश मात्रा:, समे एकादश यस्यां सा चारुसेनी ४ । विषमपदे पंचदशमात्राः, समे द्वादश यस्यां सा भद्रा ५ । विषमे पदे पंचदशमात्राः, समपादमध्ये द्वितीये द्वादश, चतुर्थे एकादश यस्मिन् स राजसेनः ६ । विषमे षोडशमात्रा, समे द्वादश एकादश वा सा तालंकिनी ७ । इति नवपदीभेदाः । रड्डाप्रकरणं समाप्तं । १३५. (१४४) अथ पद्मावती, भणु इति । पद्मावती भणिता, यत्र स्थाने स्थाने चतुर्मात्रिका अष्टौ गणाः । ध्रुवं निश्चितं ।
Jain Education International
For Private Personal Use Only
www.jainelibrary.org