________________
परिशिष्ट ( १ )
[ १७७ वस्तु निर्बंधं निर्वक्ति । अत्र द्विपंचाशदधिकं शतं मात्रा भवंति उल्लालमात्राभिः सहिता गणय । षट्पदं छंदः एतादृशं भणितं भवति, किमिति ग्रंथग्रंथनां कृत्वा म्रियध्वं ।
१०७. यथा जहा सरअ ससिबिंब इत्यादि सुकरं ।
१०८. एतच्च षट्पदछंश्छंदोद्वयेन भवति । काव्यनाम्नश्छंदसः पदचतुष्टयं पदद्वयमुल्लालस्य तेन तस्य षट्पदानि भवंति । तत्र काव्यस्य किं लक्षणमित्यत आह, आइ अंत इति । आदौ अंते च षट्कलो गणः । मध्ये त्रयश्चतुः कला गणाः । तत्र तृतीयो जगणो विप्रगणो वा भवति । एतत्काव्यनाम्नश्छंदसो लक्षणं बुध्यस्व । अयं च नियमो यदि काव्यमेव क्रियते तदा यदि षट्पदं क्रियते उल्लालेन सह तदा नायं नियमः ।
१०९. अथ काव्यस्य नामभेदानाह, चउ अग्गल इति । अत्र चतुरधिकाश्चत्वारिंशद्गुरवो भवंति प्रतिपदमेकादशेत्यर्थः । तत एकैकगुरुहासेन एकैकं नाम तथा च सति यो गुरुहीनः स शक्रः ।
११०. यथा जसु कर इत्यादि सुकरं ।
१११. नामभेदमाह, जह जह इति । यथा यथा गुरवो वर्द्धते तथा नाम कुरुत शक्रादारम्य भृंगपर्यन्तं गणयत । पंचचत्वारिंशन्नामानि भवन्ति ।
११२. शकः सर्वलघुः । भृंगः सर्वगुरुः । शके गुरवः द्वापंचचत्वारिंशन्नामान्येवाह, चतुः पदीछंदोभ्यां ता सक्को इति । शक्रः १ शंभुः २ सूरः ३ गंड: ४ स्कंध : ५ विजय: ६ दर्पः ७ ताटंकः ८ समरः ९ सिंहः १० शीर्ष : ११ उत्तेजः १२ फणी १३ रक्षः १४ प्रतिधर्मः १५ मरालः १६ मृगेंद्र : १७ दण्डः १८ मर्कटः १९ अनुबंध २० वासंठः २१ कंठः २२ मयूरः २३ बंध: २४ भ्रमरः २५ भिन्नः २६ महाराष्ट्रः २७ बलभद्रः २८ राजा २९ वलितः ३० मोह: ३१ मंथानः ३२ बलिमोहः ३३ सहस्राक्षः ३४ बालः ३५ दर्पितः ३६ शरभः ३७ दंभः ३८ उद्देभः ३९ वलितांगः ४० तुरगः ४१ हारः ४२ हरिणः ४३ अंध: ४४ हे मुग्धे, शेषे भृंग: ४५ वास्तुकनामानि पिंगलराज : जल्पति । कीदृक् छंदः प्रबंध, कृष्टः छन्दः प्रबंधो यस्मात् ।
११४. दादमाह, पचतालीस इति । पंचचत्वारिंशद्वास्तुकछंदसि शक्रादयो भेदाः छंदसो विजृंभति व्यक्तीभवंति । अद्धा सत्यं पिंगलकविः कथयति एतत् वचन न चलति न मिथ्या भवति यथा हरिर्विष्णुः हरः शिवः ब्रह्मा पितामहः एतेन चलंति तथा छंदोप्येतदित्याशयः ।
११५. षट्पददोषमाह, पअइ इति । पदे अशुद्धं व्याकरणदोषयुक्तं एककलत्यक्तं च पंगु इत्यभिधीयते । पादेन हीनं खोडं, मात्राधिकं वातुलं, कलाशून्यं काणं इति स्तूयते । झल्वर्जितं झकारलकाराभ्यां वर्जितं, झल्प्रत्याहारेण वा वर्जितं बधिरं कथ्यते । उपमाद्यलंकारहितं अंधं जानीहीत्यर्थः । उट्टवनिकायां यदि पंचकलस्त्रिकलो वा भवति तदा वोल इत्यभिधीयते । वोल इति देशीयभाषा, भग्नमित्यर्थः । अर्थेन विना दुर्बलमित्युच्यते । यदि हठाक्षरं भवति तदा डेर इत्युच्यते । श्लेषप्रसादसमतामाधुर्यसुकुमारत्वादिगुणरहितं काणं इत्युच्यते । एवमेते षट्पददो (षाः) सर्वांगोपांगे पिंगलकेन कथिताः ।
११६. अथ जातिमाह, विप्प इति । द्वात्रिंशल्लघुभिर्विप्रलोकः । द्विचत्वारिंशल्लघुभिः क्षत्रियः । अष्टचत्वारिंशल्लघुभिर्वैश्यः । अवशिष्टः शूद्रः । पदे चतुर्विंशति मात्रा: । चतुर्भिः पदैः षण्णवति मात्रा भवंति पंचचत्वारिंशन्नामानि भवंति एवं काव्यलक्षणं कुरुत । अथ उल्लालनाम्नः पदद्वयात्मकस्य छंदसः षड्विंशति गुरून् काव्यगुरुभिः सहैकीकृत्य षट्पदस्य नामभेदं कुरुत । षट्पददोषगुणादिकं अक्षराण्यपि तथैव भवंति । अथ षट्पदे भूते एकसप्ततिर्नामानि जानीत ।
११७. अथ उल्लाललक्षणं, तिण्णि तुरंगम इति । तत्र त्रयस्तुरंगमाश्चतुष्कलगणाः । ततस्त्रिकलः सामान्यत्रिकले आद्यो गणः अंत्यो वा लघुः लभ्यत इति ग्रंथशैली । ततः षट्कलः । ततः अंते त्रिकलः । अनेन प्रकारेण उल्लालच्छंदसः उट्टवनिकां कुरुत । लक्षणं तु लभ्याभावान्न कृतं । पदद्वयेऽत्र षट्पंचाशन्मात्रा भवंति ।
११८. अथ सर्वगुरुं षट्पदं उदाहरति, जाआ जा अद्धंग इत्यादि सुकरं ।
११९. अथानयनप्रकारमाह, चउआलिस इति । काव्ये चतुश्चत्वारिंशद्गुरव: । उल्लाले षड्विंशतिर्गुरवः ततो गुरुस्त्रुट्यति लघुद्वयं वर्द्धते तेन एकसप्तति प्रस्तारविस्तारो भवति । नाम्नामिति शेषः ।
१२०. नामसंख्यानयनप्रकारमाह, जत्ते इति । सर्वा मिलित्वा यावत्यः कला भवंति तावतीष्वर्द्ध त्यज तत्राप्येकं शरं त्यज इति पंचकलस्य नाम ईदृक् प्रमाणेन नामानि भवंति । तथाहि अत्र द्विपंचाशदधिकमेकशतं मात्रा भवति । तत्रार्द्धे त्यक्ते षट्सप्ततिरवतिष्ठते तत्रापि पंचसु त्यक्तेषु एकसप्ततिरवतिष्ठते ।
१२१. तत्रापि सुकरं प्रकारमाह, अजअ इति । अजयनाम्नि छंदसि षट्पदेद्वयशीति ८२ अक्षराणि भवंति । तत्र सप्तति ७० गुरवः द्वादश १२ लघवः । रविशब्देन द्वादश रेखाशब्देन लघुः एकैकं गुर्वक्षरं हसति द्वौ द्वौ लघू वर्द्धते एवमन्यत्रापि ।
Jain Education International
For Private Personal Use Only
www.jainelibrary.org