SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ १७६] प्राकृतपैंगलम् ९०. तासां स्वरूपमाह लोहंगिणी इति सर्वलघुर्लोहंगिनी । यत्र चत्वारो गुरवः सा हंसी । तत्र यथा यथा चत्वारो गुरवो वर्द्धते तथा तथा नामान्यपि वर्द्धन्ते अवशिष्टच्छंदसः उक्कच्छा नामैव । ९१. अथ रोला, पढम इति । आदौ चतुर्विंशति मात्रा भवंति, ताश्च निरंतरा न भवंति कितु अंतरांतरा गुरुयुक्ता भवंति । पिंगलोऽभवत् शेषनागः, स रोलाछंदो ब्रूते । एकादश गुरवो भवंति तेन रोलाछंदो भवति । एकस्मिन्नेकस्मिन् त्रुटिते गुरौ अन्यदन्यन्नाम रोचते । ९२. यथा पअभर इति । पादभारेण क्षुण्णा धरणिः, तरणिर्ध्वजै लिभिश्चलुप्तः, कूर्मस्य पृष्ठदेशश्चलित: मेरोर्मन्दरस्य च शिरः कंपितं, क्रोधेन हंवीरवीरचलितो गजघटासहितः, कष्टेन कृत आक्रंदो मूच्छितं म्लेच्छपुत्रैः ।। ९३. अथ नामानि नवपदीछंदसा आह कुं (द) इति । कुंदः १ करतलः २ मेघः ३ तालंक: ४ कलरुद्रः ५ कोकिल: ६ कमलः ७ चंद्रः ८ शंभुः ९ चामरः १० गणेश्वरः ११ सहस्राख्यः, शेषो भणति नागराजो जल्पति फणीश्वरः । द्विरुक्तिदोषनिवृत्त्यर्थमाह सहस्राख्यः सहस्रनामा एतावता नाम्ना कतिपयेन स्तुतिरूपेण न दोषायेत्यर्थः । अपरमप्याह तेरह इति । यत्र त्रयोदशाक्षराणि पतंति । एकादशभिर्वकैर्गुरूभिरित्यर्थः । एतावता एकादश गुरवो द्वौ लघू । एतादृशि ध्रुवके चतुर्गुरुझसे प्रत्येके नामानि भवंति पूर्वोक्तान्येव । ९४. अथ गंधाना, दह सत्त इति । हे सुजनाः, अत्र प्रथमपदे सप्तदश वर्णान् भणत । तथा द्वितीयपदे अष्टादश । यमकयुगेन रमणान्मनोहरादित्यर्थः । एतादृशं च द्वितीयं परमलंकुरुत, भणति पिंगलः । गंधानानाम रूपकं भवति पंडितजनचित्तहरं । ९५. एतदेव लक्षणांतरेण द्रढयति द्विपथा छंदसा, दह सत्त इति । सप्तदशाक्षराणि प्रथमपदे संस्थापयत, द्वितीये अष्टादशाक्षराणि मात्रायां तु यथा सुखमिति । ९६. यथा कण्ण इति । कर्णे चलति कूर्मश्चलति कीदृशः अशरणशून्यः । कूर्मे चलति मही चलति कीदृशी भुवनभयकरणा। मह्यां चलंत्यां महीधराश्चलंति । ततः सुरगणाश्चलंति । हेतुमाह चक्रवतिचलने त्रिभुवनं चकवच्चलतीत्यत्र कः संदेहः । ९७. अथ चतुःपदी, चउपइआ इति । चतुःपदीछंदः फणींद्रो भणति । यत्र चतुर्मात्रिकाः सप्तगणा भवंति पादांतं सगुरुं कृत्वा त्रिंशन्मात्राः धृत्वा एतावता षोडशपदैरशीत्यधिकचतुःशतानि ४८० मात्रा निरुक्ताः । तत्र विशेषमाह छंदश्चतुष्टयेन लिख्यते एवं न कियते । पदचतुष्टयेनैकं छंदः तादृशछंदसश्चतुष्टयमित्यर्थः । दायमाह को जानाति एनं भेदं न कोपीत्यर्थः । कविः पिंगलो भाषते छंदः प्रकाशयति । हे मृगनयने अमृतमेतत् । ९८. यथा जसु सीसहि इत्यादि सुकरं । ९९. अथ घातः (घत्ता), पिंगलकइ इति । पिंगलकविना दृष्टं छंद: उत्कृष्टं घात (घत्ता) इति नाम संख्यामाह द्विषष्ठि मात्राः कृत्वा । चतुर्मात्रिकाः गुणाः द्वौ पादौ भण त्रीन् त्रीन् लघून् अंते धृत्वा । एतावतैतदुक्तं भवति लघुत्रयाधिकं चतुष्कलगणसप्तकं भवति । १००. एतदेव द्रढयति, पढम इति । प्रथमदशसु विश्रामः । द्वितीये दशसु तृतीये त्रयोदशसु विरतिः । घातो (घत्ता) द्विषष्ठिमात्रिको भवति । १०१. यथा रणदक्ख इति । रणे दक्षो हतः, कुसुमधनुः कामो जितः, अंधकस्य गंधमपि न रक्षितवान्, यः स शंकरो रक्षतु । कीदृशः, असुराणां भयंकरः, येन च गौरी नारी अद्धांगे धृता । १०२. अथ घातानंदः, सो घत्तह इति । स घातकुले सारः कीर्त्या अपारः इति नागराजः पिंगलः कथयति, यत्र एकादशसु मात्रासु विश्रामो भवति यस्य नंद इति नाम भवति, पुनरपि सप्तसु मात्रासु विश्रामः । ततस्त्रयोदशसु मात्रासु विश्रामो भवति । १०३. यथा जे वंदिअ सिर गंग इत्यादि सुकरं । १०४. अथ षट्पदप्रकरणं छप्पअ इति । हे छंदोविदः षट्पदं छंदो जानीत अक्षरसंयुक्तं उत्तमाक्षरयुक्तं एकादशसु कलासु विरति । ततः पुनस्त्रयोदशसु निर्धांतं यथा स्यादेव चतुष्टयं । उट्टवनप्रकारमाह द्वे एव मात्रे दीयतां । इति पदचतुष्टयलक्षणमुक्तं उल्लालयोर्द्वयोः पंचदशसु मात्रासु विरतिः । तथा अष्टविंशतिमात्रौ द्वौ भवतः । एवं काव्यपदचतुष्टयेन उल्लापदद्वयेन च षट्पदछंदो भवति । एवं जानीत गणयत षट्पदछंद: अन्यथा अत्र न किमपि भवति । १०५. यथा पिंघउ दिढ सण्णाह इत्यादि सुकरं ।। १०६. अथ च कुत्रापि षट्पदे आदौ एककलापि दृश्यते तत्कथं, संग्रहार्थं लक्षणांतरमाह पअ पअ इति । पदपदतले निबद्धाश्चतुर्विंशति मात्राः क्रियते अक्षराणि डंबराणि आरभटि(?टी) युक्तानि सदृशानि एकच्छवीनि मृदून्येव वा अथवा डमरुसदृशानि यथा डमरुशब्दे गाढाक्षरो द्रुतबंधः श्रूयते तथैवात्राप्यक्षराणि गाढानि पाठस्तु द्रुत एव कियत इत्याशयः । इति प्रकारेण शुद्ध छंदो गम्यते । उट्टवनिकाप्रकारमाह आदौ षट्कलो गणः । ततश्चत्वारश्चतुःकलगणा निरुक्ताः । द्विकलो गणोन्ते निबद्ध इति शेषकविः पिंगलो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001440
Book TitlePrakritpaingalam
Original Sutra AuthorN/A
AuthorBholashankar Vyas, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Text Society Ahmedabad
Publication Year2007
Total Pages690
LanguagePrakrit, Sanskrit, Hindi, Apbhramsa
ClassificationBook_Devnagari & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy