SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट (१) [ १७५ ७२. सिंहिणी यथा । कश्चिद्विक्रमादित्यं स्तौति वरिसइ इति । वर्षति कनकस्य वृष्टिं तप्यते भुवने दिवानिशं जाग्रत् । निशंकं साहसांको निंदति इंद्रं च सूर्यबिंबं च । इंद्रो जलं वर्षति अयं च सुवर्णं, सूर्यो दिवैव तप्यतेऽयं च दिवानिशमिति निंदायामाशयः । ७३. अथ स्कंधकं, चउमत्ता इति । चतुर्मात्रिका अष्टगणा भवंति पूर्वार्द्ध उत्तरार्द्धे च समरूपाः । द्वात्रिंशन्मात्रांकं पूर्वार्द्धे, एवमुत्तरार्द्धमपि यत्र तत् स्कंधकं जानीहि । पिंगलः प्रभणति, हे मुग्धे, बहुसंभेदं । ७४. यथा सेतुबंधकाव्ये, जं जं इति । यं यं आनयति गिरिं रविरथचक्रपरिघट्टनसहं हनुमान् । तं तं लीलया नलो वामकरोत्क्षिप्तं रचयति समुद्रे । ७५. अथैतस्य सर्वगुरुकृतस्य एकैकगुरुासेन नामभेदमाह नवपदीछंदसा णंद इति । णंद १ भद्रः २ शेषः ३ सारंगः ४ शिव: ५ ब्रह्मा ६ वारण: ७ वारणवरुणः ८ नीलः ९ मदन: १० तालंक: ११ शेखरः १२ शरः १३ गगनः १४ शरभ: १५ विमति: १६ क्षीरनगर : १७ नरः १८ स्निग्धः १९ स्नेहनः २० मदगणः २१ भोलः २२ शुद्धसरित् २३ कुंभः २४ कलशः २५ शशी २६ जानीहि । शरभः २७ शेष अवसाने शशिधरं जानीहि इति अष्टाविंशतिप्रकारं स्कंधकं भवति । ७६. अथानयनप्रकारमाह, अट्ठ इति । अष्टौ यत्र लघवो भवंति स नंद इति जानीहि । सखीति संबोधनं । तत एको गुरुत्रुट्यति लघुद्वयं वर्द्धते तथा तथा नामानि जानीत | ७७. यथा चंदा इति । चंद्रः कुंदः काशः हारः हीर : त्रिलोचनः कैलाशः इत्यादयः यथावत् श्वेतास्तावत्सर्वं तव कीर्त्या जितं । ७८. अथ द्विपथा, तेरह इति । प्रथमपादे त्रयोदश मात्रा: द्वितीयपादे एकादश मात्रा देहि । द्वितीयार्द्धे प्रथमतस्त्रयोदश पुनरेकादशेति द्विपथालक्षणमेतत् । अन्वर्था चेयं संज्ञा । द्वौ पंथानौ यस्यां सा द्विपथा एतदग्रे व्यक्ती भविष्यति । I ७९. यथा सुरतरु इति । सुरतरुः सुरभि: स्पर्शमणिः एते वीरेश्वरस्य न तुल्याः । सुरतरुः कठिनांगः, सुरभिः पशुः, चिंतामणि: प्रस्तरः, तेनास्य साम्यं न । ८०. भेदमाह, भमरु, इति । भ्रमरः १ भामरः २ शरभः ३ श्येनः ४ मंडूकः ५ मर्कटः ६ करभः ७ नरः ८ मराल: ९ मदगंध ः १० पयोधरः ११ चलः १३ वानरः १३ त्रिकलः १४ कच्छपः १५ मत्स्यः १६ शार्दूलः १७ अहिवरः १८ व्याघ्रः १९ विरालः २० श्वानः २१ उन्दुरः २२ सर्पः २३ एतत् प्रमाणकेन एको गुरुत्रुट्यति द्वौ लघू वर्द्धते तथा तथा नामानि जानीत । ८१. द्विपथविशेषमाह, छब्बीस इति । षड्विंशाक्षरो भ्रमरो भवति । तत्र द्वात्रिंशति गुरवो भवंति चत्वारो लघवः । तत एको गुरुत्रुट्यति द्वौ लघू भवतस्तदा नामानि वर्द्धते । ८२. यथा जा अद्धंग हति । यस्याद्धगे पार्वती शिरसि गंगा वसति । यो लोकानां वल्लभः पादौ वंदे तस्य । ८३. अथ जातिमाह, बारह इति । द्वादशावधिलघुभिर्विप्रा ब्राह्मणी भवति । तथा द्वाविंशतिभिर्लघुभिः क्षत्रिया भणिता । द्वात्रिंशल्लघुभिर्वैश्या । या इतरा सा शूद्री भवति । ८४. गणभेदे दोषमाह, जिस्सा इति । यस्या प्रथमे तृतीये च चरणे जगणा दृश्यंते पादपादेषु । चांडालगृहस्थिता सा द्विपथा दोषं प्रकाशयति । ८५. उट्टवनिकाप्रकारमाह, छक्कलु इति । आदौ षट्कलगणः ततश्चतुः कलः । ततस्त्रिकलः । अनेन प्रकारेण विषमयोः प्रथमतृतीययोरित्यर्थः । सदा पादयोर्द्वितीयचतुर्थयोस्तु षट्कलः । ततश्चतुः कलः । अंते एककलः । ८६. अथ उक्कच्छा, दिअवर इति । द्विजवरगणयुगलं धारय । द्वौ चतुर्लघुगणावित्यर्थः पुनरपि त्रयो लघवः प्रकटाः । अनेन विधिना विहितानि त्रीणि पदानि शोभते यत् छंदः यथा शशी रात्रौ । एतत् छंद: रसितं रसयुक्तं हे मृगनयने । एकादशकलात्मकं च भवति हे गजगमने । ८७. यथा विमुह इत्यादि सुकरं । अचल इति नृपतिविशेषः । ८८. भेदमाह; आइकव्व इति । आदिकाव्यं सर्वलघुकाव्यं उक्कच्छानामकं कृतं लोहंगिण्यादीनामध्ये सारं, लोहंगिन्यादयस्तस्य भेदास्तेषां सारं ध्रुवमित्यर्थः । आनयनप्रकारमाह । गुरवो वर्द्धते द्विगुणा लघवस्त्रुट्यंति । तथा तथा नामानि जानीहि । तथा च लक्ष्यानुरोधेन लक्षणप्रवृत्तिः । अष्टनामानुरोधेन अष्टलघुह्यसः क्रियते । तेन अष्टौ नामानि भवंति । प्रत्येकं चतुश्चतुर्गुरुवृद्धिरष्टाष्टलघुह्यसः । एतावता सर्वेषां लघूनां ह्रासपर्यन्तं बोद्धव्यमिति । ८९. अथ नामानि लोहंगिनी इति । लोहंगिनी १ हंसिनी २ रेखा ३ तालंकी ४ कंपी ५ गंभीरा ६ काली ७ कलरुद्राणी ८, उक्कच्छाया अष्टौ नामानि । Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.001440
Book TitlePrakritpaingalam
Original Sutra AuthorN/A
AuthorBholashankar Vyas, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Text Society Ahmedabad
Publication Year2007
Total Pages690
LanguagePrakrit, Sanskrit, Hindi, Apbhramsa
ClassificationBook_Devnagari & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy