________________
प्राकृतपैंगलम्
५३. यथा चंदो इति । चंद्र: चंदनं हारः तावत् रूपं प्रकाशयंत्येते चंडेश्वरस्य वरा श्रेष्ठा कीर्तिर्यावत् आत्मानं (न) निदर्शयति । तस्यां समुदितायां तु चंद्रोदयोपि मलिनीयंते इत्यर्थः ।
१७४]
५४. अथ गाथा, पढममिति । प्रथमं द्वादशमात्रासु विश्रामः । द्वितीये अष्टादशमात्रासु । यथा प्रथमचरणे विश्रामस्थ तृतीयचरणे विश्रामः । शेषे चतुर्थे चरणे पंचदशामात्राभिर्विभूषिता गाथा ।
५५. यथा जेणेति । मानिनीप्रबोधाय सखीवचनं । येन विना न जीव्यते अनुनीयते स कृतापराधोपि । प्राप्तेपि नगरदाहे भण कथय कस्य न वल्लभोऽग्निः ।
५६. अथ संख्यां रूपं च उट्टवनिकाक्रमेणाह, सत्त गणा इति । अत्र चतुः कलाः सप्त गणा भवंति दीर्घाताः दीर्घं इति मात्राद्वयोपलक्षणं द्विकलांता इत्यर्थः । अत्र षष्ठो गणो जगणो भवति । नगणो लघुर्वा चतुर्लघुर्वा गणो भवतीत्यर्थः । एतेन सर्वलघुरपि गाथा भवतीति ज्ञापितं । अत्र विषमस्थाने प्रथम- तृतीयं पंचमस्थाने जगणो न भवति तदा गाथायां उत्तरार्द्धे षष्ठं गणं लघुरूपमेव जानीत । षष्ठो गणः एकलघुरूपो भवतीत्यर्थः ।
५७. अथ गाथासंक्षेपमाह, सव्वाए इति । सर्वस्यां गाथायां सप्तपंचाशन्मात्रा भवंति पूर्वार्द्ध त्रिंशन्मात्राः उत्तरार्द्धे सप्तविंशतिर्मात्रा भवंति इति ।
५८. अथ गाथासु सर्वगुरुर्गाथा कथ्यते, सत्ताईसा इति । सर्वस्यां गाथायां सप्तविंशतिर्गुरवो यस्यां राजंते सा गाथानां मध्ये लक्ष्मीरायाता त्रिंशदक्षरा ।
५९. अथ गुरुह्यसक्रमेण नामभेदानयनप्रकारमाह, तीसक्खरेति । त्रिशदक्षरा लक्ष्मीः तां सर्वे वंदंति च विख्यातां । एकैकगुरुासेन एकैकवर्णवृद्ध्या एकैकं नाम भवति ।
६०–६१. ततस्तान्येव नामानि स्फोरयन्नाह, लच्छी इति । लक्ष्मीः १, ऋद्धिः २, बुद्धिः ३, लज्जा, ४, विद्या ५, क्षमा ६, देही ७, गौरी ८, रात्रिः ९, चूर्णा १०, छाया ११, कांति: १२, महामाया १३, कीर्तिः १४, सिद्धा १५, मनोरमा १६, गाहिनी १७, विश्वा १८, वासिता १९, शोभा २०, हरिणी २१, चक्री २२, सारसी २३, कुररी २४, सिंही २५, हंसी २६ ॥
६२. अथ पाठप्रकारं दर्शयति, पढमं इति । प्रथमपदं हंसपदवन्मंथरं पठ्यते, द्वितीयं सिंहविक्रमवत् द्रुतं पठ्यते, तृतीयं गजवरलुलितं सलीलं पठ्यते, चतुर्थं अहिलुलितं यथा सर्पाणां शेषे चांचल्यं तथाऽवसाने चंचलं पठ्यत इत्यर्थः ।
६३. अथ गणभेदेन अवस्थाभेदमाह, एक्के जे इति । एकेन नायकेन कुलीना भवति । नायको जगणः । द्विनायका संगृहिणी भवति । नायकहीना रंडा भवति बहुनायका वेश्या भवति ।
६४. अथ लघुभेदेन जातिमाह, तेरह इति । त्रयोदशभिर्लघुभिर्विप्रा, एकविंशत्या क्षत्रिया भणिता, सप्तविंशत्या वैश्या, शेषा शूद्री भवति गाथा ।
६५. गणभेदेन दोषमाह, जा पढम इति । या प्रथमतृतीयपंचमसप्तम स्थाने गुरुमध्या जगणयुक्ता भवति सा गुर्विणी गुणरहिता गाथा दोषं प्रकाशयति । अथ च अन्यापि गुर्विणी नायिका गुणरहिता विशिष्टगुणरहिता अशक्त्यादिदोषं प्रकाशयति इति ध्वनिः ।
६६. अथ विगाथा, विगाहा इति । विगाथाप्रथमदले सप्तविंशति मात्रापश्चिमदले त्रिंशन्मात्रा इति भणितं पिंगलेन नागेन । प्रवर्तिता गाथैवेत्यर्थः, उट्टवनिकापि तादृश्येव ।
६७. यथा परिहरेति । काचिन्मानिनी प्रबोधयंती वर्षाः समागता इति कथयति भीषयते च । हे मानिनि, मानं परिहर जहीहि, नीपस्य कुसुमानि पश्य । तव कृते खरहृदयो निष्करुणहृदयः कामो गुटिकाधनुः खटिकां गृह्णाति किल निश्चितं ।
६८. अथोद्गाथः, पुव्वद्धे इदि । पूर्वाद्धे उत्तरार्द्धे च त्रिंशन्मात्रा भवंति । हे सुभगे, संभणिताः कथिताः यत्र स एव उद्गा वृत्त: पिंगलनागेन दृष्टाः षष्ठि मात्रा यत्रैवं भूत इति ।
६९. यथा सोऊण इति । काचिन्निजानुरागातिशयं चेदिपतौ कथयति । यस्य नाम श्रुत्वा अश्रु नयने रुणद्धि व्याप्नोति, भण कथय वीर चेदिपतेस्तस्य मुखं यथेच्छं प्रेक्षिष्ये । दर्शने सति नेत्रयोरानंदजं वारि आविरस्यतीत्यर्थः ।
७०. अथ गाहिनीसिंहिन्यौ, पुव्वद्ध इति । पूर्वार्द्ध त्रिंशन्मात्रा : पिंगल: प्रभणति, हे मुग्धे शृणु, उत्तरार्द्धे द्वात्रिंशन्मात्राः एषा गाहिनी । विपरीता सिंहिनी भणिता सत्यं निश्चितं । सिंहिन्याः पूवार्द्ध द्वात्रिंशत् उत्तरार्द्धे त्रिंशदिति भेदः ।
७१. यथा, हंवीरो युद्धसमये चरणपतितां पत्नीं प्रबोधयन्नाह, मुंचहि इति । हे सुंदरि पादं मुंच, अर्पय हसित्वा सुमुखि खड्गं, कल्पयित्वा खंडयित्वा म्लेच्छशरीरं प्रक्ष्यामि ध्रुवं वदनं तव हंवीरः ।
Jain Education International
For Private Personal Use Only
www.jainelibrary.org