________________
परिशिष्ट (१)
[१७३ ४२. अथ वर्णवृत्तानामुद्दिष्टं, अक्खर इति । तत्र चतुरक्षरप्रस्तारे द्वौ गुरु एको लघुरेको गुरुरित्येवमाकारो गणः कुत्रास्तीति प्रश्ने कृते तदाकारं प्रश्नगणं लिखित्वा प्रथमं प्रथमांको देयः तयो द्विगुणान् देहि इति प्रकारेण उद्दिष्टं गुणनं कुरु । ततो लघोरुपरि योंकस्तत्राधिकमेकमकं दत्वा तत्रैकीकृत्य यद्भवति तदंकसमानस्थाने स गणोस्तीति ज्ञातव्यं ।
४३. अथ वर्णवृत्तानां नष्टं, णढे इति । पुनश्चतुरक्षरप्रस्तारे सप्तमस्थाने कीदृशो गणोस्तीति प्रश्ने कृते प्रश्नांको विभाज्यः, समे भागे सति लघुर्जेयः । विषमे तु भागे एकं दत्वा पुनर्विभजेत् तदा गुरुर्भवति एवं पुन:पुनर्भागसमभागे लघुतिभ्यः । विषमे एकं दत्वा भागे कृते गुरुतिव्यः । एवं यावत्पूरणं भवति तावद्विभजनीयोंक इत्यर्थः ।।
४४. अथ वर्णमेरु: अक्खर इति । एकाक्षरप्रस्तारे कति सर्वगुरवो भवंति कति सर्वलघवः । द्वयक्षरप्रस्तारे कति सर्वगुरवः कति एकगुरवः कति सर्वलघवः । एवं त्र्यक्षरचतुरक्षरप्रस्तारे षड्विंशत्यक्षरपर्यतं एकैकगुरुसेन प्रश्ने एषा प्रक्रिया । प्रथममेकं कोष्ठं लिखित्वा तदधो द्वयं तदधस्त्रयः तदधश्चत्वारि तदधः पंच एवमधोधः पंक्तयो लेख्याः । तत्र कोष्ठगृहे आदौ तथान्ते प्रथमांको देयः । मध्यशून्यकोष्ठकेषु तदीयतदीयशिरःस्थकोष्ठद्वयांकसमानांको देयः । एवमन्यत्रापि पूरणीयकोष्ठानामुपरि स्थितांकद्वयमेकीकृत्य पूरणं विधेयं । वर्णमेरौ चतुरक्षरप्रस्तारे प्रथमं चतुर्गुरुगणोस्ति ततस्त्रिगुरवश्चत्वारो गणास्ततो द्विगुरवः षट्गणास्तत एकगुरवश्चत्वारो गणास्ततः सर्वलघुरेको गणोस्तीति स्फोरितमस्ति । एवं पञ्चाक्षरादावपि ।
४५. अथ वर्णपताका, उद्दिट्टा सरि इति । तत्र चतुरक्षरे सर्वगुरुः कुत्र स्थानेस्ति, त्रिगुरुः कुत्रास्ति, द्विगुरुः कुत्रास्ति, एकगुरुः कुत्रास्ति, सर्वलघुः कुत्रास्तीति प्रश्ने पंक्तिक्रमेणांका धारणीयाः उद्दिट्टा सरीति । तत्र षोडशांका: पूरयितव्याः । प्रथमपंक्त्यध:स्थिताः पूर्वांकनापरांकमेकीकृत्य भरणं कुर्यात् । प्राप्तमंकं पूर्वांकस्य परभागे स्थापय । यदि प्रथमपंक्तिपूर्वांकन भरणं न भवति तदा द्वितीयपंक्तिपूर्वकेनापि पूरणीयं । एवं यावता षोडशाप्यंका लभ्यते तावत्कर्तव्यं । एवमन्यत्रापि बोद्धव्यं । चतुरक्षरप्रस्तारे द्वितीयंतृतीयपंचमनवमस्थानेषु गुरवोगणा: चतुर्थषष्ठसप्तमदशमैकादशत्रयोदशस्थानेषु द्विगुरवः । अष्टमद्वादशचतुर्दशपंचदशस्थानेषु एकगुरवः । प्रथमस्थाने चतुर्गुरुः, षोडशस्थाने चतुर्लघुः । एवं पंचाक्षरादावपि ज्ञेयं ।
४६. अथ मात्रामेरुः, दुइ दुइ इति । पूर्ववत्प्रश्ने द्वे द्वे कोष्ठे समे लिखितव्ये प्रथमे द्वयं, द्वितीये त्रयं, चतुर्थे त्रयं, पंचमे चत्वारि अंकाः । कोष्ठशब्देनात्र कोष्ठपंक्तिरूपं लक्ष्यते । द्वे द्वे कोष्ठपंक्ती समे लिखितव्ये इत्यर्थः । एककलायाः प्रस्तारो न भवतीति द्विकोष्ठैवादिपंक्तिरपि एवं कोष्ठपंक्तिषु अधोध:क्रमेण लिखितासु सर्वत्र अंत्यकोष्ठे प्रथमांको देयः । तत: उपांत्यकोष्ठेषु एकांकादारभ्य कमेण द्वात्रिंशत्पर्यंतमंका देयाः । ततश्च सर्वेषां प्रथमकोष्ठे एकं, ततो द्वयं, तत एकं, ततस्त्रयं, पुनरेकं, ततश्चत्वारि, तत एकं, ततः पंच, तत एकं, ततः षट् इति क्रमेण एकांकेण मिलिता अंका देयाः । एवमाद्ये अंत्ये उपांत्ये कोष्ठके प्रपूर्णे मध्यस्थितशून्यकोष्ठकेषु पूरणीयकोष्ठशिरोंकेन तच्छिर:कोष्ठस्थपरकोष्ठांकमेकीकृत्यांका देयाः । एवं सर्वत्र ज्ञेयं ।
४८. अथ मात्रापताका, एक्क लोपे इति । अमुकगणः कुत्रास्तीति प्रश्ने पूर्वयुगलकमेणांके दत्ते शेषांकेऽग्रिमांके पूर्वांकमेकैककमेण लोपयित्वा एकगुरुं जानीहि । एतावता एतदुक्तं प्रथमांकशेषांके लोपयित्वा अवशिष्टशेषांकसदृशप्रस्तारस्थाने एकगुरुं जानीहि तथा द्वितीयांकशेषांके लोपयित्वा अवशिष्टशेषांकसदृशप्रस्तारस्थाने एकगुरुं जानीहि । एवमेकं गुरुमानीय अनन्तरमेकांतरितमंकद्वयमेकीकृत्य शेषांके लोपयित्वाऽवशिष्टशेषांकसदृशप्रस्तारस्थाने द्विगुरुं जानीहि । एवमंकत्रयमेकीकृत्य शेषांके लोपयित्वाऽवशिष्टशेषांकसदृशप्रस्तारस्थाने त्रिगुरुं जानीहि । एवं चतुर्गुरुपंचगुर्वादिकमानेतव्यं । जो पावहि सो परहि मेलावहु, अस्यायमर्थः । प्राप्यते स हारको भवति स च परांकेन सह गुरुर्भवति एतावतैतदुक्तं भवति । हारकोंक: सन्निहितपुरःस्थितांकेन सह गुरुर्भवति । अन्येऽङ्का लघवो भवंति । तेन ज्ञायते, प्रस्तारः एकगुरुद्विगुर्वादयोऽस्मिन् स्थाने एवमाकाराः संतीति व्याख्यातं ।
४९. अथ अमुकच्छन्दसि कति गुरवः कति च लघव: संतीति प्रश्ने कृते लघुज्ञानाय एषा प्रक्रिया पुच्छल इति । पृष्टच्छंदसः कलाः कृत्वा छंदोऽक्षरसंख्यांकं तत्र लुपेत् । अवशिष्टैरंकैर्गुरुं जानीत । गुरौ जाते परिशिष्टान् लघून् जानीत ।
५०. अथ छंद:संख्या, अट्ठाइसा इति । अष्टविंशति (? षट्विंशति) ततः सप्तशतानि ततः सप्तदश सहस्राणि ततो द्विचत्वारिंशल्लक्षं ततस्त्रयोदश कोटीसंख्यं छन्दोऽत्र षट्विंशतिवर्णप्रस्तारस्य विषयोप्ययमेव ।
५१. अथ गाथाप्रकरणं । तत्र गाहूप्रभृतीनां उद्देशं रड्डाछन्दसा करोति, होइ इति । चतु:पंचाशन्मात्रो गाहू भवति १ गाथा च सप्तपंचाशन्मात्रा २ तथा विगाथा परावृत्य क्रियते सप्तपंचाशन्मात्रा भवतीत्यर्थः । द्वितीयार्द्धलक्षणं प्रथमा॰ प्रथमार्द्धलक्षणं द्वितीयाद्धे ३ उद्गाथ: षष्ठिमात्रः ४ गाहिण्यां (? न्या) द्विषष्ठि मात्रा दीयते ५ तथैव परावर्ते सिंहिनी द्विषष्ठिमात्रैव भवति परंतु उत्तराद्धलक्षणं प्रथमार्द्ध प्रथमार्द्धलक्षणं उत्तरार्द्ध भवतीत्यर्थः । एवमन्योन्यगुणलक्षणानि सप्तरूपकानि, स्कंधके चतुःषष्ठि मात्रा भवंति ।
५२. अथैषां विशेषलक्षणान्याह, पुव्वद्ध इति । पूर्वाद्धे उत्तरार्द्ध च सप्ताधिकविंशति मात्रा भवंति । अथ पदद्वयमध्ये षष्ठो गणो मेरुरेव भवति । शर मेरु इति लघोर्नाम ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org