________________
१७२]
प्राकृतपैंगलम् २८. पंचकलानां प्रत्येकं नामानि, सुणरेंद, इति । सुनरेंद्रः १ अहिः २ कुंजरः ३ गजवरदंत ४ दंती ५ अथ मेघः ६ ऐरावत: ७ तारापतिः ८ गगनं च ९ झंपः १० तल्पः ।
२९. मध्यलघुकस्य पंचकलगणविशेषस्य नामानि, पक्खि इति । मध्यलघुके गणे एतानि नामानि विजानीहि । एतानि कानि पक्षी १ विरालः २ मृगेंद्रः ३ वीणा ४ अहि: ५ यक्षः ६ अमृतं ७ जोहलं ८ सुवर्णः ९ पन्नगाशनः १० गरुडः ।
३०. पुनः पंचकलगणमात्रस्य नामानि, बहु इति । बहुविविधप्रहरणैर्नानाविधायुधवाचकैः शब्दैः पंचकलो गणो भवंति । पंचकले संक्षेपेणोक्तं चतुःकले संक्षिपति । गअरहेति, गज १ रथ २ तुरंग ३ पदाति ४ नाम्ना चतुर्मात्रिकान् गणान् जानीहि ।
३१-३२. अथगुरोढिकलप्रस्तारे कथितान्यपि नामानि गुरुलघुनामकथनप्रस्तावे स्मारयति, तालंक इति । ताटंकहारनूपुरकेयूराणि भवंति गुरुभेदाः । गुरोर्नामानि भवंतीत्यर्थः । वस्तुतस्तु शेषनागस्य सहस्राननत्वात्पुनरुक्तिर्न दोषाय । लघोर्नामानि सर इति शरः मेरुः दंड: काहलः अन्ये च ये आयुधाभिधायिनः शब्दाः कलकलादयः रूपरसगंधस्पर्शाश्च कुसुमवाचिनश्च ये शब्दास्तैर्लघुमेव जानीत ।
३३. अथ वर्णगणः, मोति इति । मो मगणस्त्रिगुरुः नो नगणस्त्रिलघुः लघुगुर्वादी यभौ लघुरादौ यगणो गुरुरादौ भगणो जगणो मध्यगुरुः । रगणो मध्यलघुः सगणः पुनरंतगुरुः तगणोपि अंतलघुकेन भवतीत्यर्थः ।
३४. अथ गणानां देवता आह, पुहवीति । पृथ्वी १ जल २ शिखी ३ वातः ४ गगनः ५ सूर्यः ६ चंद्रमा ७ नागः ८ एता अष्टगणे इष्टदेवता यथासंख्यं मगणादितः पिंगलेन कथिताः ।।
३५. अथ गणानां मित्रामित्रादिकं निरूपयति, मगणेति । मगणनगणौ मित्रे भवतः । यगणभगणौ भृत्यौ भवतः । जगणतगणौ उदासीनौ भवतः । अवशिष्टौ सगणरगणौ अरी भवतः ।
___३६. अथ गणानां फलानि, मगणेति । मगण: ऋद्धि स्थिरस्कंधत्वं च ददाति । यगणः सुखसंपदं ददाति । रगणो मरणं संपादयति । जगणः खरकिरणं संतापं विसर्जयति । तगणः शून्यं फलं कथयति । सगण: स्वदेशादुद्वासयति । भगणः अनेकमंगलं स्थापयति । पिंगलकविर्भाषते, यावत्काव्यं गाथां द्विपदी च जानासि तत्र यदि नगणः प्रथमं भवति तदा तस्य ऋद्धिः बुद्धिः सर्व स्फुरति रणे दुस्तरं तरति । तत्र यदि नायकस्य क्रियते तदा तत्कृतं मंदभद्रफलं । देवतानां क्रियते चेत्तत्र न गणविचारः ।
३७. अथ कवित्वादौ गणद्वयविचारे फलान्याह, मित्ते इति । कथमपि ग्रन्थादौ मंदो गणो भवति तदा तद्रक्षार्थं गणद्वयविचारः क्रियते । यदि मित्रगणान्मित्रगण एव भवति तदा ऋद्धि बुद्धि च ददाति । यदि मित्रगणात् भृत्यगणो भवति तदा स्थिरस्कंधत्वं युद्धे निर्भयत्वं च ददाति । यदि मित्रगणादुदासीनगणो भवति तदा कार्यबंधो न भवति । यदि मित्रगणाच्छत्रुगणो भवति तदा गोत्रजा बांधवाश्च पीड्यंते । यदि भृत्यगणान्मित्रगणो भवति तदा सर्व कार्यं भवति भृत्यगणाद्धृत्यगणे च सर्वे वशगा भवन्ति । यदि भृत्यगणादुदासीनगणो भवति तदा धनं नाशमाप्नोति । यदि भृत्यगणाद्वैरिगणो भवति तदा आक्रन्दो भवति नायको विनश्यतीत्यर्थः ।
३८. यदि उदासीनगणान्मित्रगणो भवति तदा कार्यबंधं कथयति । यदि उदासीगणात् भृत्यगणो भवति यदि उदासीनगणात् उदासीनगण एव भवति तदा न मंद्रं न भद्रं सामान्यमेव फलं भवति । यदि उदासीनगणात् शत्रुगणो भवति तदा गोत्रजा अपि शत्रवो भवंति । यदि शत्रुगणात् मित्रगणो भवति तदा गृहिणी नश्यति । यदि पुनः शत्रुगणादुदासीनगणो भवति तदा धनं नश्यति । यदि शत्रुगणात् शत्रुगण एव भवति तदा नायको नाशमाप्नोति ।
३९. अथ मात्रावृत्तानां उद्दिष्टं निरूपयति, पुव्व इति । तत्र षट्कलप्रस्तारे एको गुरु द्वौ लघू पुनरेको गुरुरित्येवमाकारो गणः कुत्रोस्तीति प्रश्ने कृते तदाकारं गणं लिखित्वा पूर्वयुगलसमानांको देयः पूर्वांकमेकीकृत्य तत्संख्यांकोग्रे देय इत्यर्थः । तत्र च आदिकलायां प्रथमोंको देयः द्वितीयकलायां पूर्वमेकैव कलास्ति पूर्वयुगलसमानांको नास्ति तेन द्वितीयोंकः एव देयस्तृतीयः कलायां पूर्वयुगलसमानोंकस्तृतीयांक: ३ तेन तृतीयांको देयः । चतुर्थकलायां पंचमः ५ पंचमकलायामष्टमः ८ षष्ठकलायां त्रयोदशः १३ गुरुस्तु द्विकलात्मको भवति । तेन उपरि अधश्चांकद्वयं लघोस्तु एककलात्मकत्वादुपर्येवेति विवेकः । एवं च सति ये गुरुमूर्द्धाकांस्तै शेषांको लोप्यः । लुप्तेवशेषांके अवशिष्टेनांकेन स्थानं जानीत । तदंकसमप्रस्तारस्थानस्थोऽयं गण इति वदेत् । तत्र च प्रथमांको गुरुमूर्द्धनि देयः । द्वितीयांक अध एव देयः । तेनात्र च गुरुमूर्द्धावस्थितमंकद्वयं वर्तते । प्रथमगुरुमूर्धन्यवस्थितः प्रथमोंकः । अपरगुरुमूर्धन्यवस्थिश्चाष्टमांकः । तदुभयमेकीकृत्य शेषांके त्रयोदशांके लुप्ते चतुर्थोकस्तिष्ठति तेन तत्रस्थोयं गण इति जानीतेति भावः । एवं च पूर्वयुगल क्रमो बोद्धव्यः । एवमधिककलास्वपि ज्ञातव्यं ।।
४१. अथ मात्रावृत्तानां नष्टं निरूपयति, णटे इति । षट्कलप्रस्तारे सप्तमस्थाने कीदृशो गण इति प्रश्ने कृते षडपि कला: पृथक् लेख्याः । पूर्ववत् अंका देयाः । प्रश्नांकं शेषांकेन लुपेत् । तत्र लुप्तावशिष्टशेषांके पूर्वपूर्वतरांकमपि लुपेत् । तथा च सति यो योंको यत्र यत्र भागं प्राप्नोति सा सा कला उत्तरकलां नीत्वा गुरुतामेति इत्येवं कथयति सत्यं पिंगलनागः । तथा चात्र प्रश्नांक:
सप्तांकस्तस्मिन् लुप्ते षष्ठांकस्तिष्ठति तत्र पंचमकलांके लुप्ते एकांकस्तिष्ठति । तत्र प्रथमांक एव लोपं गच्छतीति भावः । Jain Education International For Private & Personal Use Only
www.jainelibrary.org