________________
परिशिष्ट (१)
[१७१ स एव दगणः । गाथा छंदः ।
१३. तेषां गणानां कियंतो भेदा भवंतीत्याह टगण इति । टगणः षट्कलात्मकस्त्रयोदशभेदो भवति । त्रयोदश भेदा यस्येति बहुव्रीहिः । ठगणस्य पंचकलात्मकस्याष्टौ भेदा भवंति । डगणस्य चतु:कलात्मकस्य पंच भेदा भवंति । ढगणे त्रिकलात्मके त्रयो भेदाः स्युः । णगणस्य द्विकलात्मकस्य द्वौ भेदो भवतः । एतेषां भेदाः प्रस्तारसंख्याकृताः । गाथा छंदः ।
१४. प्रस्तार एव कथं ज्ञातव्य इत्यपेक्षायामेकया गाथया मात्रावर्णसाधारण्येन प्रस्तारं प्रस्तौति । पढम इति । प्रथमगुरोरध:स्थानेषु परिस्थापय आत्मबुद्ध्या । सदृशी सदृशी पंक्ति: उद्वृत्तं गुरुं लघु देहि । अयमर्थः सर्वलघुपर्यंतं प्रस्तारो भवति आत्मबुद्ध्या समूह कृत्वा यत्र यः प्रथमो गुरुस्तस्याधस्ताल्लघु स्थापयित्वा यथोपरि तथाशेषं वारं वारं लिखेत् । उवृत्ते पूर्वस्थाने सावकाशे गुरुणा प्रस्तारसंख्यां पूरयेत् मात्राप्रस्तारे एकया कलया अपूर्णे लघु कलाद्वयेन अपूर्णे गुरुं देहि । यावत्या यावत्याः कलायाः प्रस्तारावधिस्तावती कला सर्वत्र पूरणीया । पूर्वपूर्वस्थाने शून्ये गुरवो लेख्याः । एका कला चेदुवृत्ता गुरोः पूर्वस्थाने लघुर्लेख्यः । वर्णप्रस्तारः प्रकारांतरेणापि संभवति । तथाहि, एकगुरोरधस्थाने एकं लघु दद्यादिति । एवं वर्णप्रस्तारः तत एकैकवर्णवृद्धौ तमेव प्रस्तारमधोऽध:क्रमेण द्विगुणीकृत्य पूर्वार्धाते सर्वत्र गुरुमपराभॊते सर्वत्र लघु दद्यादित्येवं प्रस्तावृद्धिः।
१५. अथ षट्कलप्रस्तारे गणानां नामानि, हर, इति । हर: १ शशी २ शूरः ३ शकः ४ शेषः ५ अहि: ६ कमलं ७ ब्रह्मा ८ किणिबंध: ९ ध्रुवः १० धर्मः ११ शाली १२ चर: १३ एते त्रयोदश इष्टदेवता षण्मात्रे प्रस्तारे जातानां त्रयोदशगणानां ज्ञातव्याः । एतदीयत्वेन एतान्येव नामानि तेषां गणानां बोद्धव्यानि । प्रयोजनमग्रत एव हि । ते ते शब्दाः प्रत्येकं ज्ञेयाः ।
१६. पंचकलप्रस्तारे गणानां नामानि, इंदासण इति । इंद्रासनः १ अपरशूरः २ चापः ३ हीरश्च ४ शेखर: ५ कुसुमः ६ अहिगणः ७ पापगणः ८ ध्रुवं निश्चितं पंचकले गणे कथिताः, अर्थाद्देवताः ।
१७. चतु:कलानां गणानां नामानि, गुरुजुअ इति । गुरुयुगः कर्णः १ गुर्वतः करतलं २ गुरुमध्यः पयोधरः ३ आदिगुरुर्वसुश्चरण: ४ विप्रः सर्वैर्लघुभिः ५ ।।
१८. अथ त्रिकलानां त्रयाणानामेकैकया गाथया नामानि, धअ इति । लघुकालंबन आदौ लघु विन्यस्य त्रिकलप्रस्तारे प्रथममेतानि नामानि हे पंडिताः जानीत यूयमित्यर्थः । नामान्यस्य ध्वजः चिह्न चिरचिरालयः तोमरं तुंबुरपत्रं चूतमाला रसः वासः पवनः वलयं लघुकालंबेनेति विषमकलप्रस्तारे प्रथमतो लघुर्लेखनीय इत्यभिप्रायं पिंगलः स्फुटीचकार ।
१९. मध्यगणस्य नामानि, सुर इति । सुरपतिः पटह: तालः करताल: आनंदः छंदः निर्वाणं ससमुद्रं । कथं-समुद्रेण सह वर्तत इति ससमुद्रम् ।
२०. अथांतगणस्य नामानि, भावा इति । अस्य त्रिलघुगणस्य इति नाम कविवरः पिंगलो भणति भावः १ रसः २ तांडवं ३ नारी ४ कुलभावि(मि)नी ५ एतन्नामपंचकं त्रिलघुगणस्येत्यर्थः ।
२१. द्विकलप्रस्तारे गुरुर्लघुयुगं च भवति तत्र गुरोर्नामानि णेउर इति । अनेन गुरोर्नामानि भवंति, नूपुरः १ रसना २ आभरणं ३ चामरं ४ फणी ५ मुग्धा ६ कनकं ७ कुंडलकं ८ चक्र ९ मानसं १० वलयः ११ हारावलीति १२ ।
२२. लघुयुगरूपगणस्य नामानि, णिअ इति । द्विलघोर्गणस्य समासकविदृष्टं संक्षेपकविदृष्टं नाम, निजप्रियः १ परमप्रियः २ सुप्रियः ३ । समासकवि: पिंगलः अल्पाक्षरेण प्रचुरार्थप्रतिपादकत्वात् । अथ यद्यपि चतुर्मात्राप्रस्तारे प्रतिगणमेकैकानि कथितानि नामानि तावता शास्त्रव्यवहारो न स्यादिति पुनः प्रतिगणमेकैकया गाथया फणिराजः प्रतिगणं भणति ।।
२३. सुरअलअं इति । तस्य चतु:कलप्रस्तारेण व्यक्तीकृत्य कथितस्येत्यर्थः । कर्णसमानेन यथापूर्वं कर्ण इति नाम तथा तत्समानेनैव नामसमूहेन लक्षितोऽयं गणः । सुरचलकं गुरुयुगलं रसिकमनोलग्नं मनोहरणं सुमतिः लंबितं लहलहितं ।
२४. गुर्वंतगणस्यैतानि नामानि, कर इति । करः १ पाणिकमलं २ हस्तः ३ बाहुः ४ भुजदंडः ५ प्रहरणं ६ अशनिः ७ गजाभरणं ८ रत्नं ९ नानाभुजाभरणानि ।
२५. मध्यगुरुगणस्यैतानि नामानि, भुअ इति । भूपतिः १ अश्वपतिः २ नरपतिः ३ गजपतिः ४ वसुधाधिपः ५ राजा ६ गोपालः ७ अपरो नायकः ८ चक्रवर्ती ९ पयोधरः १० पवनः ११ नरेंद्रः १२ ।
२६. गुर्वादिगणस्यैतानि नामानि, पअ इति । पदः १ पाद: २ चरणयुगलं ३ अपरं प्रकाशयति गंड: ४ बलभद्रः ५ तात: ६ पितामहः ७ दहन: ८ नूपुर: ९ रत्नं १० जंघयुगलेन ११ ।
२७. अथ चतुर्लघुगणस्यैतानि नामानि, पढम इति । प्रथमं ईदशि विप्रः १ द्वितीये शरः २ पंचजातिशिखरेण द्विजवरः ३ चरमे चतुर्थे पादे भवति चतुष्केण(?न) लघुकेण(?न) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org