________________
१७०]
प्राकृतपैंगलम् । ततो हेतोरर्थान्तरमपि । पिंगलो जयति । यो विमलमतिहेलं यथा स्यादेवं विविधमात्रासागरमपि प्राप्तः नानाविधमात्रैव सागर इत्युमानपूर्वपदः कर्मधारय एव, उपमानानि सामान्यवचनैरिति समासः । अवधारयितुमशक्यतया मात्रासागरयोः साम्यम् । कथंभूतः णायो ज्ञातः अर्थाद् गरुडेन । अपिशब्दात् ब्राह्मणव्याजन(व्याज)वेषधारी भिक्षुकः शेषनागत्वेन ज्ञातः । ज्ञो ण इति णत्वं यथा राज्ञी राणी । तर्हि सागरपारं कथं प्राप्त इत्याह । प्रथम भाषातरंड: आदौ प्रबोधवचनमेव तरंडा नौका यस्य स तथोक्तः ॥
२. ननु गुरुलघुरूपमात्रासागरे को गुरुः को लघुरित्याह दीहो इति दीर्घः संयुक्तपरो बिन्दुयुतः पातितश्चरणांते स गुरुर्वको द्विमात्रो अन्यो लघुर्भवति शुद्ध एककलः । अयमर्थः । स गुरुर्भवति किमात्मकः द्विमात्रो मात्राद्वयघटितः कीदृशो लेखनीयः वक्रोदात्ताकारः । वक्रादिषु चेत्यनुस्वारः । स क: दी? ह्रस्वेतरः । तेन प्लुतोपि गुरुः । आकारादिकप्रभृति संध्यक्षराणि गुरूणि। अपरः तथा बिंदुयुतो वर्णो गुरुः । संयुक्तः परो यस्येति बहुव्रीहिः । यथा वृषध्वज इत्यत्र षकारस्य गुरुत्वम् । बिंदुभ्यां बिंदुना वा युत इति समासादनुस्वारविसर्गयोग्रहणं । विसर्गातस्यापभ्रंशेऽसंभवात्तद्विशिष्य नोक्तं । संस्कृते तथाप्युपकरिष्यति । पातितश्च चरणांते, चशब्दो विकल्पार्थः । तेन पादांते वैकल्पिकोयं विधिः । उक्तादन्यो वर्ण एकमात्रारूपो वा एकमात्रो वा लघुर्भवति । स चैककलात्मकः । कथं लिख्यतामित्याह । शुद्धः सरलो दंडाकार इति यावत् ।
३. उदाहरणेन तत्स्फुटीकरोति माई इति सख्योरालापः । हे मातः तं शंभुं कामयमाना सा गौरी गर्हितत्वं (? ग्रहिलत्वं) करोति। वरगुणरहितं पतिमिच्छंतीत्यर्थः । तं कं यो देवमात्राख्यप्रसिद्धो रूपेण सौंदर्येण हेयो विरूपाक्षत्वात् । हीनोऽकुलिनो अलक्षजन्मत्वात् । जीर्णो जरातुरो रोगादिना कंठस्थितविषत्वाद्वेति शेषः । महावृद्ध इत्यर्थः कदाचिद् ब्रह्मणोऽप्याद्यत्वात् ।
४. गुरोरपवादमाह कत्थवि इति । कुत्रापि संयुक्तपरो वर्णो लघुर्भवति दर्शनेन लक्ष्यानुरोधेन । यथा उदाहरति परिस्खलति चित्तधैर्य । तरुणीकटाक्षे निर्वृत्तं संगतं । उदृत्वादित्युत्वं । परिल्हसइ इत्यत्र संयुक्तपरतया गुरुत्वे गाथालक्षणविरोधापत्तेः ।
५. गुरुताविकल्पमाह इहिआरा इति । इकारहिकारौ बिंदुयुक्तौ, एओ शुद्धौ वर्णमिलितावपि लघू । रहव्यंजनसंयोगे परतः अशेषमपि सविभाष । एतदशेष सविभाषं सविकल्पं लघु भवति यथासन्निवेशं लघु गुरु च भवतीत्यर्थः । एतत् कतमत् इकारहिकारी सानुस्वारौ ए ओ इत्येतो अचौ शुद्धौ केवलौ चकारादौ मिलितावपि च लघू भवतः । रह इत्येताभ्यां हल्भ्यां यः संयोगस्तस्मिन् परतः पूर्वमक्षरं च अथवा परत्र पदांते अशेषमपि सविकल्पं गुरुत्वमापद्यते । सिंहिणी छंदः ।
६. उदाहरति यथा माणिणि इति । सखी वदति । मानिनि, मानैः किं फलं, एष यदि चरणे पतितः कांतः । एओ जे इति वारेंद्री भाषा । एष यदीत्यर्थः । अत्रार्थांतरन्यासः । सहजेन भुजंगमो यदि नमति तदा मणिमंत्रौ कि कुरुतः । तावन्मानः प्रकर्तव्यो यावत्पादानतो भवेदिति भरते मानकाल: प्रियप्रणिपातपर्यंत: कथितः ।
७. रहव्यंजनसंयोगे यथा उदाहरति, चेउ इति । हे चेतः, सहजेन त्वं चंचलसुन्दरि(?री)हृदये वलत् सत् । खुल्लणा इति देशीयभाषा अज्ञे वर्तते । हे अज्ञ पदमपि न ददासि क्रीडसि पुनरुल्लसत् । वैकल्पिकी विभाषा ।
८. अपरं विशेषमाह, जइ इति । यदि दीर्घोपि च वर्णो लघुजिह्वया पठितो भवति सोपि लघुः । वर्णोपि त्वरितपठितो यदि तदा द्वौ त्रीनपि वर्णानकं जानीत । गाथा छंदः ।
९. उदाहरति अरेरे इति । हे कृष्ण, क्षुद्रां नावं वाहय संचाल्य दुखं न देहि । त्वं अस्यां नद्यां संतार्य यत्प्रार्थयसि तद् गृहाण। नाविकबुद्ध्या रे इति संबोधनं युक्तम् । प्रथमप्रतीके लघुजिह्वया एतत् लघुत्वम् । द्वितीयप्रतीके डगमगेत्यनुकरणशब्दार्थोयमकारगकारमकाराणां त्वरितपठितानामेकवर्णता।
१०. किमनेन परिश्रमेणेत्यत आह । जेम ण इति । यथा न सहते कनकतुला तिलतुलनामर्द्धाद्धेन इत्थं न सहते श्रवणतुला अपच्छंदं छंदोभंगेन । यथा कनकतुला स्वभावादेवोभयदिशि समैवावतिष्ठते एकत्र तिलमात्रगुरुतयापि विषमा भवति । इत्थं समेनैव प्रकारेण सभ्यानां श्रवणतुला छंदोभंगेन जातमपच्छंदो न सहते । कनकतुलातिप्रसिद्धा । छंदोविशुद्धकवित्वं कृत्वा सज्जनमनोरंजनलाभ: स्यादिति पूजादिना सुखीभवति । छंदोऽध्ययनप्रवृत्त्यौपायिकमेतत् ।
११. छंदोऽध्ययनं विना का क्षतिरिति न केवलं छंदोभंगेन श्रवणदुःखमनिष्टफलं भवतीत्याहेत्यपि कश्चित्, अबुध इति । अबुधो बुधानां मध्ये काव्यं यः पठति लक्षणविहीनं भुजाग्रलग्नखड्गेन शीर्ष खंडितं) जानाति । लक्षणविहीनोऽनधीतवृत्तलक्षणः । छंद:पंडितदत्तं दूषणमेव खड्गः । काव्यमेव शिरः । तस्माच्छंदोऽवश्यमेव पठनीयं । गाथा छंदः ।
१२. मात्रायाः प्राधान्यादादौ मात्रागणव्यवस्था करोति, टुंडढाण इति । मध्ये अक्षराणां पंचाक्षराणि गणभेदो भवंति । के ते टठडढणाः । त एव यथासंख्यं छपचतदसंज्ञका भवंति । कुत्र संकेतिताः षट्पंचचतुस्त्रिद्विकलासु । तथा च, षट्कल: टगण:
स एव छगणः, पंचकलः टगणः स एव पगणः चतु:कलो डगण स एव चगणः, विकलो टगणः स एव तगणः, द्विकलो णगण: Jain Education International For Private & Personal Use Only
www.jainelibrary.org