________________
परिशिष्ट
(प्राकृतपैंगलम् की संस्कृत टीकायें)
परिशिष्ट ( १ )
रविकरउपनाम श्रीपतिकृत पिंगलसारविकाशिनी टीका
Jain Education International
[मात्रावृत्त प्रकरण ]
श्रीगणेशाय नमः ॥ ॐ नमो महेश्वराय ॥ गौरीकल्पलताविभक्तवपुषं श्रीकंठकल्पद्रुमं
भक्तानामचिरादभीष्टफलदं नत्वा सतां प्रीतये ॥ वेदे वृत्तमदीपयद् ग्रथितवान् यो वृत्तरत्नावलीं
श्रीमत्पिंगलनागराजरचनां व्याख्याति स श्रीपतिः ॥ १ ॥ तर्काभियोगरणकर्कशता मतौ चेत्सूक्तिः कुतोअ ( ? य) मधुरा मधुरा न मंत्रे । दृष्टं यतोऽस्ति सुकुमारशिरीषपुष्पे वृन्तं निसर्गकठिनं खलु चित्ततोऽपि ॥ २ ॥ टीकाऽस्ति पिंगलग्रंथे यद्यप्यन्या पुरातनी । विशेषं तदपि ज्ञात्वा धीराः पश्यत मत्कृतिम् ||३||
इमां छन्दोविद्यां सहृदयहृदयः प्राह गिरिश:
फणींद्रायाख्यातः स गरुडभिया पिंगल इति । द्विजस्याऽस्य स्नेहादपठदथ शिष्योऽतिसुमतिः
स्वकांतां संबोध्य स्फुटमकथयत्सोखिलमिदम् ॥४॥
१. इहाथातः सुमतिस्तां विद्यामधीत्य छंदोग्रंथं साधारणजनोपयोगार्थमपभ्रंशेन चिकीर्षुस्तस्य विघ्नविघातद्वारा समाप्तिकामः स्वगुरो: पिंगलाचार्यस्योत्कीर्तनरूपं शिष्टाचारपरिप्राप्तं मंगलमादौ कुर्वन्नाह ।
जो विविह इति
प्राकृता नाम देवी वाक्, तद्भवं प्राकृतं विदुः । अपभ्रष्टा च या तस्मात्सा त्वपभ्रंशसंज्ञका ॥ तिङते च सुबंते च समासे तद्धितेपि च । प्राकृतादल्पभेदैव अपभ्रष्टा प्रकीर्तिता । देशभाषां तथा केचिदपभ्रंशं विदुर्बुधाः । तथा, संस्कृते प्राकृते वापि रूपसूत्रानुरोधतः । अपभ्रंशः स विज्ञेयो भाषा या यत्र लौकिकी ॥
यो विविधमात्रासागरपारं प्राप्तोपि विमलमतिहेलं । प्रथम भाषातरंडो नागः स पिंगलो जयति । अस्यायमर्थः । स नागः पिंगलो जयति उत्कर्षेण वर्ततां (वर्द्धतां । एतेन तदधीनसमृद्धेरात्मनः समृद्धिमाशंसमानेन नाशंसनीया गुरव इति दोषो न स्यात् । स कः यो विमलमतिर्हेलं यथा स्यादेवं विविधमात्रासागरपारं प्राप्तोपि । अपि संभावनायां अवधारणे इति प्रांचः । विविधमात्रा गुरुलघुरूपा सैव सागरो दुर्विज्ञेयत्वात् । मात्राशब्देनात्र वर्णस्यापि ग्रहणं तस्य मात्राघटितत्वात् । तथाहि, एकमात्रो भवेद्भ्रस्वो द्विमात्रो दीर्घ उच्यते । त्रिमात्रस्तु प्लुतो ज्ञेयो व्यंजनं चार्धमात्रिकं ॥ निर्मलबुद्ध्या अनायासेन गुरुलघुरूपमात्रावर्णसमुद्रस्य पारं तीरं श्च (T) - शेषज्ञत्वं गतः । इह ग्रंथे आदौ मात्रोत्कीर्तनान्मात्राया एव प्राधान्यादत्रोपन्यास इत्यन्ये । प्रथममादौ भाषातरंड: भाषा लौकिकपदप्रयोगः भाषा एव तरंडा नौर्यस्य सः । तथा भाषाकवित्वे पिंगल एव आद्यकविरितिप्रसिद्धमेव । मात्राभाषाशब्दयोः ह्रस्वत्वं । पादालिनी तरंडा नौरिति हारावली । तथा च प्रसिद्धिः । बुभुक्षोर्गरुडस्य पुरस्तात् प्रबोधवचनेन प्रस्तारलिखनव्याजेन एकदैकत्र लिखितं द्वितीयस्थाने दृश्यते तदैव गरुत्मता पिंगलो भोक्तव्य इति व्यवस्थापय (ता) षड्विंशत्यक्षरप्रस्तारं कृत्वा समुद्रे निर्म्मज्य पारं गत्वा आत्मानं रक्षितवान्
For Private & Personal Use Only
www.jainelibrary.org