________________
अध्ययनं १ उद्देशकः४
मेयपर्याप्तका विसूक्ष्मपृथिवीकायापकायवभावनीयामाणाः भवन्ति, ।
५०॥
श्रीआचा- शरीरस्थत्वात् , खद्योतकदेहपरिणामवत्, तथा आत्मसम्प्रयोगपूर्वकोऽङ्गारादीनामूष्मा, शरीरस्थत्वात् , ज्वरोष्मवत्, राङ्गवृत्तिः न चादित्यादिभिरनेकान्तः, सर्वेषामात्मप्रयोगपूर्वकं यत उष्णपरिणामभाक्त्वं तस्मान्नानेकान्तः, तथा सचेतनं तेजो, (शी०) यथायोग्याहारोपादानेन वृद्धिविशेषतद्विकारवत्त्वात्, पुरुषवत्, एवमादिना लक्षणेनाग्नेया जन्तवो निश्रेया इति । उक्तं
लक्षणद्वारं, तदनन्तरं परिमाणद्वारमाह॥५०॥
जे बायरपजत्ता पलिअस्स असंखभागमिसा उ । सेसा तिपिणवि रासी वीसुं लोगा असंखिज्जा ॥१२०॥ ये वादरपर्याप्तानलजीवाः क्षेत्रपल्योपमासङ्खयेयभागमात्रवर्तिप्रदेशराशिपरिमाणाः भवन्ति, ते पुनर्बादरपृथिवीकायपप्तिकेभ्योऽसङ्खयेयगुणहीनाः, शेषास्त्रयोऽपि राशयः पृथ्वीकायवद्भावनीयाः, किन्तु बादरपृथिवीकायापर्याप्तकेभ्यो बादराग्यपर्याप्तका असंख्येयगुणहीनाः सूक्ष्मपृथिवीकायापर्याप्तकेभ्यः सूक्ष्माग्नेयापर्याप्तका विशेषहीनाः सूक्ष्मपृथिवीकायपर्याप्तकेभ्यः सूक्ष्माग्नेयपर्याप्तका विशेषहीना इति ॥ साम्प्रतमुपभोगद्वारमाह
दहणे पयावण पगासणे य सेए य भत्तकरणे य । बायरतेउकाए उवभोगगुणा मणुस्साणं ॥ १२१॥ | दहनं-शरीरायवयवस्य वाताद्यपनयनार्थ प्रकृष्टं तापनं प्रतापन-शीतापनोदाय प्रकाशकरणमुद्योतकरणं-प्रदीपादिना भक्तकरणम्-ओदनादिरन्धनं स्वेदो-ज्वरविसूचिकादीनाम् , इत्येवमादिष्वनेकप्रयोजनेषूपस्थितेषु मनुष्याणां वादरतेजस्कायविषया उपभोगरूपा गुणा उपभोगगुणा भवन्तीति ॥ तदेवमेवमादिभिः कारणैः समुपस्थितैः सततमारम्भप्रवृत्ता गृहिणो यत्याभासा वा सुखैषिणस्तेजस्कायजन्तून हिंसन्तीति दर्शयितुमाह
एएहिं कारणेहिं हिंसंती तेउकाइए जीवे । सायं गवेसमाणा परस्स दुक्खं उदीरंति ॥ १२२ ॥ 'एतैः' दहनादिभिः कारणैस्तेजस्कायिकान् जीवान् 'हिंसन्तीति सङ्घटनपरितापनापद्रावणानि कुर्वन्ति 'सात' सुख तदात्मनोऽन्विष्यन्तः 'परस्य' बादराग्निकायस्य दुःखम् 'उदीरयन्ति' उत्पादयन्तीति ॥ साम्प्रतं शस्त्रद्वारं, तच्च द्रव्य|भावशस्त्रभेदात् द्विधा, द्रव्यशस्त्रमपि समासविभागभेदात् द्विधैव, तत्र समासतो द्रव्यशस्त्रप्रतिपादनायाह
पुढवी आउक्काए उल्ला य वणस्सई तसा पाणा । बायरतेउक्काए एयं तु समासओ सत्थं ॥ १२३ ॥ 'पृथिवी' धूलिः अपकायश्च आर्द्रश्च वनस्पतिः त्रसाश्च प्राणिनः, एतद्वादरतेजस्कायजन्तूनां 'समासतः' सामान्येन | शस्त्रमिति ॥ विभागतो द्रव्यशस्त्रमाह
किंची सकायसत्थं किंची परकाय तदुभयं किंची। एयं तु व्वसत्थं भावे य असंजमो सत्थं ॥१२४ ॥ किञ्चिच्छस्त्रं स्वकाय एव-अग्निकाय एव अग्निकायस्य, तद्यथा-तार्णोऽग्निः पार्णाग्नेः शस्त्रमिति, किञ्चिच्च परकायशस्त्रम्उदकादि, उभयशस्त्रं पुनः-तुषकरीषादिव्यतिमिश्रोऽग्निरपराग्नेः, तुशब्दो भावशस्त्रापेक्षया विशेषणार्थः, 'एतत्तु' पूर्वोक्तं समासविभागरूपं पृथिवीस्वकायादि द्रव्यशस्त्रमिति । भावशस्त्रं दर्शयति-भावे शस्त्रम् असंयमो-दुष्प्रणिहितमनोवाक्का|यलक्षण इति ॥ उक्तव्यतिरिक्तद्वारातिदेशद्वारेणोपसञ्जिहीर्षुर्नियुक्तिकृदाह
सेसाई दाराइं ताई जाई हवंति पुढवीए । एवं तेउद्देसे निजुत्ती कित्तिया एसा ॥ १२५ ॥
उक्तशेषाणि द्वाराणि तान्येव यानि पृथिव्युद्देशकेऽभिहितानि 'एवम् ' उक्तप्रकारेण तेजस्कायाभिधानोदेशके श्रीआचा- नियुक्तिः 'कीर्तिता' व्यावर्णिता भवतीति ॥ साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम्राङ्गवृत्तिः
से बेमि व सयं लोगं अब्भाइक्खेज्जा व अत्ताणं अब्भाइक्खेज्जा, जे लोयं अ(शी०)
ब्भाइक्खइ से अत्ताणं अब्भाइक्खइ, जे अत्ताणं अब्भाइक्खइ से लोयं अब्भाइ॥५१॥
क्खइ (सू० ३१)
अस्य च सम्बन्धः प्राग्वद्वाच्य इति, येन मया सामान्यात्मपदार्थपृथिव्यप्कायजीवप्रविभागव्यावर्णनमकारि स दिएवाहमव्यवच्छिन्न ज्ञानप्रवाहस्तेजोजीवस्वरूपोपलम्भसमुपजनितजिनवचनसम्मदो ब्रवीमि, किं पुनस्तदिति दर्शयति
'नैवे'त्यादि, इह हि प्रकरणसम्बन्धाल्लोकशब्देनाग्निकायलोकोऽभिधित्सितः, अतस्तमग्निलोकं जीवत्वेन नैव 'स्वयम्' आत्मनाऽभ्याचक्षीत-नैवापहवीतेत्यर्थः, एतदभ्याख्याने ह्यात्मनोऽपि ज्ञानादिगुणकलापानुमितस्याभ्याख्यानमवाप्नोति, अथ च प्राक् प्रसाधितत्वादभ्याख्यानं नैवात्मनो न्याय्यम् , एवं तेजस्कायस्यापि प्रसाधितत्वात् अभ्याख्यानं क्रियमाणं न युक्तिपथमवतरति, एवं चास्य युक्त्यागमबलप्रसिद्धस्याभ्याख्याने क्रियमाणे सत्यात्मनोऽप्यहंप्रत्ययसिद्धस्याभ्याख्यानं भवतःप्राप्तम् । एवमस्तिति चेत् , तन्नेति दर्शयति-नेव अत्ताणं अब्भाइक्खेजा' नैवात्मानं-शरीराधिष्ठातारं ज्ञानगुणं प्रत्यात्मसंवेद्यं प्रत्याचक्षीत, तस्य शरीराधिष्ठातृत्वेन आहृतमिदं शरीरं केनचिदभिसन्धिमता, तथा त्यक्तमिदं शरीरं केनचिदभिसन्धिमतैवेत्येवमादिभिर्हेतुभिः प्रसाधितत्वात् , न च प्रसाधितप्रसाधनं पिष्टपेषणवत् विद्वजनमनांसि रजयति,
अध्ययन उद्देशकः४
SARRISOARA
त्यर्थः, एतदभ्या न्याय्यम्, एवं तक्रियमाणे सत्या वात्मान
॥५१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org